This page has not been fully proofread.

कथारम्भप्रस्तावना ]
 
उत्तरभागः ।
 
४८५
 
सृष्टैव येन च कथेयमनन्यशक्यां वागीश्वरं पितरमेव तमानतोऽस्मि ॥ ३ ॥
याते दिवं पितरि तद्वयसैव सार्धं विच्छेदमाप भुवि यस्तु कथाप्रबन्धः ।
दुःखं सतां तदसमाप्तिकृतं विलोक्य प्रारब्ध एव स मया न कवित्वदर्पात् ॥ ४ ॥
गद्ये कृतेऽपि गुरुणा तु तथाक्षराणि यन्निर्गतानि पितुरेव स मेऽनुभावः ।
एकलवामृतरसास्पदचन्द्र पौदसंपर्क एव हि मृगाकमवाय ॥ ५ ॥
 
गङ्गां प्रविश्य भुवि तन्मयतामुपेत्य स्फीताः समुद्रमितरा अपि यान्ति नद्यः ।
 
त्रारब्धत्वेनात्मनो देवांशेत्वं प्रतिपादयति । कृतस्य निष्पादितस्त्र मम यतो बाणादात्मलाभो देहसंबन्धो जात
इति शेषः । एतत्पुत्रत्वमेव मे धर्ममात्रारब्धत्वं सूचयति । येन च बाणेनानन्यशक्या तदितरजनेन कर्तुम-
शक्येयं प्रसिद्धा कथैव । एवकारोऽप्यर्थे । कादम्बरीविषयिणी कथापीत्यर्थः । सृष्टा । कल्पितेत्यर्थः । पुरा
णेतिहासादिष्वदृष्टापीयं कथा स्वयं निर्मिता निबद्धा चेति भावः । स्वयं निर्माणे हेतुगर्भ विशेषणमाह - वागी-
श्वरमिति । वाचां वाणीनामीश्वरं नियन्तारम् । वायत्तीकृतवाक्प्रपञ्चरय किमशक्यमिति भावः ॥ ३ ॥
 
कविरिदानीं स्वमौद्धत्यं परिहरति - यात इत्यादिना श्लोकद्वयेन । पितरि कथारब्धके बाणे दिवं
स्वर्गं याते प्राप्ते सति तद्वचसैव तस्य बाणस्य वचसा । वचोभिरित्यर्थः । यः कथाप्रबन्धश्चरितगोष्ठी विस्तारो
भुवि भूमण्डले विच्छेदं विनाशमाप प्राप्तवान् । ततः सतां सहृदयानां तदसमाप्तिकृतं तस्याः कथाया असमा•
प्तिरसंपूर्णता तत्कृतं तत्प्रयुक्तं दुःखम् 'हा, बाणारब्ध एतादृशः प्रबन्धो न समाप्तिमगात्' इत्याकारमधर्म फलं
विलोक्य दृष्ट्वा तद्दुःखपरिहारार्थं मया प्रारब्ध एव । मया तत्पुत्रेण 'आत्मा वै पुत्रनामासि' इत्युक्तेस्तेनैन
मया प्रारब्ध एवाविच्छेदेन समाप्तिं नीत एव । कवित्वदर्पान्न लोकोत्तरवर्णनानिपुणतर कवि कर्मगर्वान । तथा
च सहृदयान्तस्तापनिरासायैवायमारभ्भः, न पुनः स्वकविताप्रौढिदर्पादिति भावः ।
 
गुरुणा पित्रा गये कृते । जातावेकवचनम् । गयेषु कृतेष्वित्यर्थः । यत्तथा पितृकृतगद्याक्षरतुल्यान्यक्षराण्य
ज्झसमुदायात्म कान्यक्षराणि निर्गतानि प्रादुर्भूतानि स मे पितुरेव बाणस्यैवानुभावः, सामर्थ्यम् । खशरीरमोच-
नसमये तथा तेनानुगृहीतो यथा नूतनकथापूरकगद्यावली तत्समाना कारवाविरभूदिति भावः । उक्तमर्थमर्थान्तर-
न्यासेन द्रढयति – एको मुख्यः प्लव: प्रवाहो यस्मिंस्तादृशो योऽमृतरसः पीयूषद्रवस्तदास्पदं स्थानं यश्चन्द्रख-
त्पादसंपर्क एव तत्किरणसंबन्ध एव मृगाकमणेश्चन्द्रकान्ताश्मनो द्रवाय नवाय भवतीति शेषः । यथा चन्द्र-
कान्तमणिश्चन्द्र किरणसंपर्काद्रवीभवति तथा मद्वाण्यपि पितृवाक्संबन्धेनामृतस्राविणी भविष्यतीति भावः ॥५॥
 
अर्थान्तरन्यासं पद्यान्तरेण दर्शयति - गङ्गामिति । यथेतरा नद्यो यमुनाद्या भागीरथीसंभेदं कृत्या
पृथिव्यां तद्रूपतामेत्योद्दण्डाः सागरं गच्छन्ति एवमासमुद्रगे मत्तातवाणीस्रोतस्याख्यानसंधानार्थं पतिता
 
• टिप्प० -1 गणनाथमचीयेत्वा कादम्बर्याः सनाथयंश्चषकम् ।
 
• सन्मञ्जुनाथनामा मथुरानाथः कृतार्थोऽस्तु ॥ १ ॥
 
'स मया न कवित्वदर्पात्', 'तान्येव तस्य तनयेन तु संहृतानि', इत्यादिवचनैर्यः स्वस्य विनयमाख्याति
तस्यैव मुखात् 'आत्मनो देवांशत्वोक्तिः' कियत्संगता स्यात् ? अत एव सोयं पाठः प्रमाद एव टीकाकर्तुः ।
'पुण्यैः कृतश्च यत एव मयात्मलाभः' इत्येव पाठः । मया पुण्यैः (पूर्वजन्मकृतैः सुकृतैः) यतः यस्मात्
(पितुः) आत्मलाभः कृतः, जन्म लब्धमिति तदर्थः । 2 कथा तन्नामकं गद्यकाव्यम् । कादम्बरीकथा-
नकस्य तु बृहत्कथा मूलकत्वात् 'पुराणेतिहासादिष्वदृष्टे' त्यादिकथनं न स्वारस्याय । बृहत्कथामूलकत्वसाधनं
मत्कृतभूमिकायां सहृदयैर्द्रष्टुं शक्यम् ।
 
पाठा०-१ एष च. २ एक: प्लव ३ पादै: संपर्क.