कादम्बरी /517
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम् -
व्याधूतकेसरसटाविकरालवयं हस्ताप्रविस्फुरितशङ्खगदासिचक्रम् ।
आविष्कृतं सपदि येन नृसिंहरूपं नारायणं तमपि विश्वसृजं नमामि ॥ २ ॥
आर्य यमर्चति गृहे गृह एव लोकः पुण्यैः कृतस्य यत एव मेमात्मलाभः ।
न्च
--
पाधिकसकललो काभीष्टार्थदायकत्वेन प्रसिद्धावम्बाशंकरौ नमस्कुर्वे इत्यर्थः । अन्यतरनमस्कारेणैवाभीष्टसिद्धा-
बुभयोपादानं शक्तेर्वागात्मकत्वाद्भगवतोऽर्थात्मकत्वादवि कलशब्दार्थ परिस्फूर्त्यर्थमिति बोध्यम् । अहमित्यप्रयुञ्जा-
नेन व्यनषार्थ एव प्राधान्येन निरूप्यत इति ध्वनितम् । निर्गुणस्य वस्तुनो नमस्काराययोग्यतया परमेश्वरपदो-
पादानेनैव तत्सिद्धे निगरणार्थ
कगिरिपुत्री साहित्येन कारणगुणा हीति न्यायेन तस्या अपि तथात्वातदाराधकस्या-
नायासेनैव वाणीबिगरणं भवतीति सूचितम् । तच्छब्दसंबन्धिभूतं यच्छब्दार्थमाह - ययोदेंहद्वयार्धघटना रचि.
तमेकं शरीरम् । अस्तीति शेषः । ययोः पार्वतीपरमेश्वर योदेंहद्व यस्य स्त्री पुरुषरूपदेहद्वयस्याधं खीरेहाधं पुरुष-
देहाधं च तयोर्घटना संघट्टस्ताभ्यां वा घटना निर्माणं तेन रचितम् । स्वयं निष्पादितमित्यर्थः । ननु विजाती-
योत्पन्नत्वेन कथमेकत्वमित्यत आह - अन्विति । अनुपलक्षितोऽप्रतीयमानः संधिः परस्परसंधानम् । संयो
जनमिति यावत् । तत्कृतो भेदः स्त्रीत्वपुंस्त्वरूपो यस्येति समासार्थः । द्यणुकादिप्रक्रमेणारम्भे स्यादयं दोषः ।
अस्य चार्धनारीश्वरलीलाविग्रह स्यै कस्यैवोपलम्भा-द्भेदप्रत्यया भावादिति भावः । एतेनोत्तरमात्मकृत्या संधितायाः
पितृ पूर्वकृतेरर्धनारीश्वरविग्रहवदभेदः संदर्भशुद्ध्या सूचितः । तेनालौकिकचमत्कारिता च । नतिफलं दर्शय-
ति - सुदुर्घटेति । सुदुर्घट: कादम्बरीप्रत्यागतपत्रलेखाकथिततत्संदेशानां किंचिद्रथनकाल एव दैवात्परं
लोकं गते बाणेऽन्येन केनापि कविना तथा विरचयितुमशक्यः कथापरिशेषः । 'कृदभिहिते' इति न्यायेन
परिशिष्यमाणा कथेत्यर्थः । तत्सिद्ध्यै खरूपनिष्पत्त्यै । अयं भावः - पितुरुपरमे तत्कृतावुत्तरकथाविच्छेददर्शना-
दसमाप्तिरूप कलङ्कदूरी करणाय पितृप्रसादप्राप्तवाग्वैभवस्तत्पुत्रस्तत्समात्यै स्वयं यत्नं कृतवान् । स च तादृश पुरु
षधौरेयाराधनं विना न सिद्ध्यतीति । एवंविधाम्बेश्वरसद्भावे प्रमाणमाह - सृष्टेरिति । सृष्टेर्जगतो गुरू पितरौ ।
उत्पत्तिम निमित्त कारणभूतादित्यर्थः । नन्वीश्वरस्यैव निमित्तत्वं श्रुतं नाम्बाया इति चेत्, न तनीयांसमित्याधु-
त्यवष्टम्भेन शक्तिरहितस्य तत्रासामर्थ्यावधारणादिति दिकू ॥ १ ॥
-
विघ्न समसंख्य मङ्गलस्य कारणत्वावधारणाद्बहुविघ्नशङ्कया कृतं नतिरूपं मङ्गलान्तरमुपनिबध्नाति - व्याधू.
तेसि । तं नारायणमपि नमामीत्यन्वयः । तमङ्गीकृतमत्स्यायवतारं निरस्त समस्तदुःखं नारायणमपि क्षीरशा.
यिनमपि । एतेन स्वस्य तत्रागम्यत्वं सूचयति । नमामि । प्रह्वीभवामीत्यर्थः । नन्वगम्यत्वे कथं नमस्करणी-
यतेत्यत आह - येनेत्यादि । क्षीरशायिना स्वसेवार्थ नृसिंहरूपं परस्परविरुद्धजात्याश्रयं सगुणस्वरूपमा विकृ-
तम् । प्रकटीकृतमित्यर्थः । एतेन कर्मारब्धत्वं निवारयति । ध्यानार्थं तत्स्वरूपं विशेषणद्वाराह-व्याधूतेत्या-
दिना । व्याधूतानां कम्पितानां केसराणां स्कन्धवालानां सटाश्रेणयोऽप्रभागा वा ताभिरभक्तानां विशेषेण
करालं भीषणं वक्रं मुखं यस्येति समासार्थः । तथा हस्ताग्रेषु विस्फुरितानि देदीप्यमानानि शङ्खगदा सिचक्राणि
पाञ्चजन्य कौमोदकी नन्दकसुदर्शनानि यस्य स इत्यर्थः । चतुर्भुजत्वमनेनोक्तम् । अज्ञान हिरण्यकशिपुध्वंस आय-
विशेषणेन, द्वितीयेन चासे: प्रत्यासन्नवघोपायत्वादित रेषाम प्रत्यासन्नवधोपायत्वात्तादृश विघ्नध्वंसः सूचितः ।
प्रमाणमाह - विश्वेति । सर्वोत्पत्तिमन्निमित्तमित्यर्थः ॥ २ ॥
आर्यमिति । तं पितरमेवान तोऽस्मीत्यन्वयः । तं प्रसिद्धं पातीति व्युत्पत्त्या सर्वापद्रक्षकं जनकं बाणमा-
नतोऽस्मि । नमस्कारेणाभिमुखीकरोमीत्यर्थः । एवकारेण नेदं पितृत्वमन्यत्रेति सूचयति । तच्छब्दसंबन्धिन-
माह - लोक आर्य यं गृहे गृह एवार्चतीति । लोकते गुणानिति व्यत्पत्त्या गुणग्राहको जनो गृहे गृह एव एव-
कारः प्रातिविकतामाह । स्वस्वगृहे आर्य कर्णपथप्राप्त मर्चति । स्तौती व्यर्थः । श्लेषोपबृंहिता मेतद्द्ववीमाकर्ण्य श्रवण-
हृदयाहाददायितया मौलिमण्डलान्दोलनविरचनेन 'हृदि लग्नेन बाणेन' इत्यादिना । अंद्य यावत्सहृदयहृदयः को
वा तन्नोररीकरोतीति भावः । अन्यच्च पुण्यैरेव कृतस्य मम यत आत्मलाभः पुण्यैरेव धर्मैरेव । एतेन धर्म मा
।
पाठा ०१. मयां