This page has not been fully proofread.


 
१८०
 
कादम्बरी ।
 
[ कथायाम्-
,
 
ऽसीति पौनरुक्त्यम्, तवाहं प्रियात्मेति जडप्रश्नः त्वयि गरीयाननुराग इति वेश्यालापः,
त्वया विना न जीवामीत्यनुभव विरोधः, परिभवति मामनङ्ग इत्यात्मदोषोपालम्भः, मनोभवे-
नाहं भवते दत्तेत्युपसर्पणोपायः, बलातोऽसि मयेति बन्धकीधाष्टम् अवश्यमागन्तव्य-
मिति सौभाग्यगर्वः, स्वयमागच्छामीति स्त्रीचापलम्, अनन्यरक्तोऽयं परिजन इति स्वभक्ति-
निवेदनलाघवम् प्रत्याख्यानशङ्कया न संदिशामीत्यैप्रबुद्धबोधनम्, अनपेक्षितानुजीवित-
दुःखदारुणा स्यामित्यतिप्रणयिता, ज्ञास्यसि मरणेन प्रीतिमित्यसंभाव्यम्, इति ।
 
."
 
-
 
सर्वजनस्य प्रियत्वेऽनुभवसिद्धे त्वमतिप्रियोऽसीत्यग्निरुष्ण इतिवत्पुनरुक्तता । तवेति । तवाहं प्रियात्मा ।
प्रियो वल्लभ आत्मा यस्येति बहुव्रीहिः । इत्यपि जडस्य प्रश्नः । स्वविषयकप्रियत्वख्यापनाज्जडत्वमित्यर्थः । तदु-
क्तम् – 'खरूपं वा प्रियो वापि वृत्तं पौरुषमेव वा । प्रकाशयन्स्वयं यस्तु स वै जडतरः स्मृतः' इति । त्वयि
भवति गरीयाननुराग इत्यपि न, स्वकीयानां नायिकानां व्यङ्ग्यरूपतयैवानुरागप्रकाशनम् । सामान्यवनितानां तु
वाच्य वृत्त्येवाह – वेश्येति । वेश्या गणिका तस्या आलापः, न तु कुलवत्याः । त्वयेति । त्वया विना भव -
यतिरेकेणाहं न जीवामि न प्राणान्धारयामि । इत्यपि अनुभवविरोधात् । जीवन्नपि न जीवामीति स्पष्ट एव
विरोधः । परीति । मामनङ्गः कंदर्पः परिभवति पीडयति । इत्यपि न । आत्मनः कामुकत्वप्रकाशनेन
कुलवधूनामनुचितदोषोपालम्भात् । मनोभवेति । मनोभवेन कंदर्पेणाहं भवते दत्ता समर्पिता । इत्यपि न ।
कामुकत्व प्रकाशनरूपतया कुलखीणामनुचितोपसर्पणोपायत्वात् । बलादिति । बलाद्धठान्मया त्वं धृतोऽसि ।
इत्यपि न । तस्य बन्धकी कुल तस्या धाटर्यरूपत्वात् । अवश्येति । अवश्यं निश्चितमगन्तव्यम् । इत्यपि
न अस्य स्वसौभाग्यगर्वरूपत्वात् । स्वयमागच्छामि । इत्यपि न । स्त्रीचापलत्वात् । अनन्येति । अयं प्रत्य-
क्षोपलभ्यमानः परिजनः सेवकजनोऽनन्यरक्तस्त्वय्येवानुरक्तः । इत्यपि न । स्वयं स्वभक्तिनिवेदनस्य लाघव-
त्वात् । प्रत्याख्यानेति । प्रत्याख्यानं निराकरणं तस्य शङ्कयारेकया संदिशामि न संदेशप्रेक्षणं करोमि ।
इत्यपि न । इदं हि प्रसु॒प्तासंहोत्थापनवदंप्रवुद्धबोधनम् । अज्ञातज्ञापनमित्यर्थः । अनेति । अनपेक्षितमसमी-
हितं त्वद्गमनानन्तरमनुजीवितं यस्मिन्नेतादृशं यद्दुःखं तेन दारुणा भीषणाहं स्याम् । इत्यपि न । इयं ह्यतिप्र-
णयितात्युत्कटस्नेहवत्ता । ज्ञास्यसीति । मरणेन मृत्युना त्वं प्रीति ज्ञास्यसि अग्रेऽवबोधो भविष्यति । इ
न । इदं हि असंभाव्यम् । तव्यतिरेकेणापि प्रीतेर्ज्ञायमानत्वादिति ॥
 
इति श्रीमत्तपोगणगगनाङ्गणगगन मणिभट्टारकसार्वभौमभट्टारकश्रीविजय सेनसूरीश्वराणां
विजयराज्ये पातशाहश्रीअ कब्बरप्रदापितोपाध्यायपदधारक श्रीशत्रुंजयकरमो-
चनायनेक सुकृतका रकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां
कादम्बरी निरन्तर व्याख्यायां प्रथमः परिच्छेदः ।
 
G
 
हिप्प ० -- 1 कामुकतारूपस्य आत्मदोषस्य उपालम्भः निन्दा करणीया, न तु तन्निवृत्तये संदेशप्रेषण-
मिलर्थः । 2 स प्रत्याख्यानं नाद्यावधि जानाति, 'प्रत्याख्यानशङ्कया न संदिशामि' इति वाचिकप्रेषणे
२२ स्वयमेव तौ प्रत्याख्यानप्रबोधनमिति भावः । 3 एवंविधदुःखान्यनुभवन्त्या मन्दभाग्याया मे बह-
पेक्षितस्य मरणयैवासंभवादित्याशयः ।
 
पाठा •१ प्रिया नेति. २ अनुरक्तः ३ स्वयं भक्ति, ४ निवेदनालापलाघवम् ५ बोधनम्; उद्धतप्रतिबोधनम्.
६ अमुजीवि. ७ असंभाव्यम्; असंभाव्यमेन.
 
..