This page has not been fully proofread.

कादम्बरीवृत्तश्रवणम् ]
 
पूर्वभागः ।
 
४७९
 
तत्प्रसीद देवि, अलममुना मरणानुबन्धेन । शपे ते पादपङ्कजस्पर्शेन । संदिश । प्रेषय माम् ।
यामि । आनयामि देवि, ते हृदयदयितम् ।'
 
इत्येवमुक्ते मया प्रीतिद्रवार्द्रया दृष्ट्या पिबन्तीव मां निरुध्यमानैरपि मकरकेतुशरजर्ज-
रितां भित्त्वेव लज्जां लब्धान्तरैर्निष्पतद्भिरनुरागविभ्रमैराकुलीक्रियमाणा, प्रियवचनश्रवण-
प्रीत्या च स्वेदाश्लिष्टमुत्क्षिप्य रोमाञ्चजालकेन दधतीवोत्तरीयांशुकम्, प्रेत्कुण्डलमाणिक्य-
पत्रमकरकोटिलमं च शशिकिरणमयं मरणपाशमिव मकरकेतुना निहितं कण्ठे हारमुन्मोच-
यन्ती, महर्षविहलान्तःकरणापि कन्यकाजनसहजां लज्जामिना लेम्ब्य शनैः शनैरवदत्
- 'जा-
नामि ते गरीयसीं प्रीतिम् । केवलमकठोरशिरीषपुष्पमृदुप्रकृतेः कुतः प्रागल्भ्यमेतावन्नारीज-
नस्य, विशेषतो बालभावभाजः कुमारीलोकस्य । साहसकारिण्यस्ता याः स्वयं संदिशन्ति,
समुपसर्पन्ति वा स्वयम्, साहसं संदिशन्ति । बाला जिमि । किं वा संदिशामि अतिप्रियो -
 
-
 
स्वयंवर विधिरनर्थक एव निष्प्रयोजन एव । अतस्त्वं प्रसीद प्रसन्ना भव । हे देवि । अलमिति । अमुना
मरणानुबन्धेनालं कृतम् । ते तव पादपङ्कजस्पर्शेन पे शपथं कुर्वे । संदिशाज्ञापय । मां प्रेषय प्रेषणं कुरु । अहं
यामि । ते हृदयदयितं देवं चन्द्रापीडमानयामि । त्वदन्तिक इति शेषः ।
 
han
 
इत्येवं पूर्वोक्तप्रकारेण मयोक्ते कथिते सति सा कादम्बरी शनैरवंदत् । अथ कादम्बरीं विशेषयन्नाह-
प्रीतीति । प्रीतिः स्नेहस्तस्य द्रवः पङ्कस्तेनार्द्रयोन्नया दृष्ट्या मो. पिबन्तीव पानं कुर्वन्तीव लज्जां त्रपां भित्त्वा
भेदं कृत्वा निरुध्यमानैरपि संध्रियमाणैरपि लब्धान्तरैः प्राप्तावकारौनिष्पतद्भिर्बहिनिः सरद्भिरनुरागविभ्रमैरान्तर-
प्रीतिविलासैराकुलीक्रियमाणा व्याकुलतां नीयमाना । कीदृशी । मकरकेतुशरैः कंदर्पबाणैर्जर्जरता । प्रियेति ।
प्रियं यद्वचनं तस्य श्रवणमाकर्णनं तस्माद्या प्रीतिस्तया यः खेदस्तेनालिष्टम् । आर्द्रमित्यर्थः । एवंविधमुत्त-
रीयां शुकमुपसंव्यानवस्त्रं रोमाञ्चजालकेन रोमोद्गमसमूहेनोत्क्षिप्योन्नतं कृत्वा दधती धारयन्ती । किंविशि-
ष्टमुत्तरीर्य॑शु॒कम् । प्रेङ्खदिति । प्रेङ्खञ्चञ्चत्कुण्डलं कर्णभूषणं तस्य माणिक्यपत्रं तत्र या मकरकोटिस्तस्यां
लमं विलम् । पुनः किं कुर्वन्ती । कण्ठे गले हारं मुक्ताकलापमुन्मोचयन्ती । कीदृशं हारम् । शशिकिरण
मयम् । अत्युज्वलत्वाच्छशिप्रभाभिर्निष्पन्नमित्यर्थः । अत एव विरहमूर्च्छाजनकत्वान्मकरकेतुना निहितं
स्थापितं मरणपाशमिव । प्रहर्षेति । प्रहर्षेण प्रमोदेन विह्वलमन्तःकरणं यस्याः सा । तथा कन्यकाजनस्य
सहजां सहोत्पन्नां लज्जां त्रपामालम्ब्येवालम्बनी कृत्येव शनैः शनैर्मन्दं मन्दमवददवोचत् । ते तव माय
विषये गरीयसीं प्रीतिं स्नेहं जानामि । परं केवलमकठोरं सुकुमारं यच्छिरीषपुष्पं तद्वन्मृद्वी प्रकृतिर्यस्यैवंवि-
धस्य नारीजनस्यैतावत्प्रागल्भ्यं कुतः स्यात् । तत्रापि बालभावभाजः कुमारीलोकस्य विशेषतस्तन्न स्यात् ।
कथं तर्हि रुक्मिण्यादेः श्रीकृष्णविषये रहःसंदेशदूतप्रेषणादि वेत्यत आह - साहसेति । साहसकारिण्यो याः
स्वयं संदिशन्ति संदेशं प्रेषयन्ति । स्वयं समुपसर्पन्ति समीपे गच्छन्ति । साहसं सत्त्ववृत्तिं संदिर्शन्ति कथ-
यन्ति । मायाशक्तिवशाद्गृहीतशरीराः । तास्त्विति । दिव्या एवेत्यर्थः । अहं तु तथाविधा न भवामीत्यत आह -
बाला इति । अहं बालाऽप्राप्तयौवना, अतो जिमि त्रपापना भवामि । बालत्वात्किमपि न स्फुरतीत्याह-
किं वेति पक्षान्तरे । किं संदिशामि किं कथयामि । प्रियसंदेशविषयार्थस्य स्फुरणमेव प्रकटयति — अतीति ।
 
-
 
टिप्प० - 1 द्वितीयान्तमिदं लजाया विशेषणम् । अत एव 'कीदृशीं लज्जाम् ?' कामबाणैर्जर्जरिताम् ।
अत एव सा लज्जा भेदने सुकरेत्यर्थः । 2 प्रेम कुण्डलेति नांशुकस्य विशेषणम्, अपि तु हारस्य । 3 हृद-
मप्यशोमनम्। 'समुपसर्पन्ति वा ।' अत्रैव वाक्यसमाप्तिः । स्वयं संदिशन्ति' इति पूर्वमुक्तत्वात् भत्र
'स्वयं साहसं संदिशन्ती' इति प्रथमान्तपाठः । साहसरूपं स्वयं संदिशन्ती ( संदेशं प्रेषयन्ती ) बाला-
ऽहं जिगि, इति संगतिः ।
 
पाठा० - १ शपामि ते २ जर्जरिता. ३ मरणाय पाशमिव ४ एव. ५ अवलम्ब्य ६ पक्षम. ७ संदिशन्ती;
विरान्ती.