This page has not been fully proofread.

कादम्बरी
 
[ कथायाम्-
णानसंख्यान, शृण्वन्तीनां प्रियतमकथामबहुभाषिणीं सरस्वतीम्, ध्यायन्तीनां प्राणसमस-
मागमसुखानि हसीयान्कालो हृदयस्यापतति' इति ।
 
४७८
 
एतदाकर्ण्य च क्षणं विचिन्त्य प्रत्यवादीत् - 'पत्रलेखे, यथा कथयसि तथा जनोऽयं
कारित: कुमारे पक्षपातं पञ्चेषुणा । यान्यस्यैतानि रूपाणि समधिकानि वा तानि मयि वर्तन्ते ।
हृदयाव्यतिरिक्तासीदानीं भवतीमेव पृच्छामि । उपदिश त्वं यदन मे सांप्रतम् । एवंवि-
धानां वृत्तान्तानामनभिज्ञास्मि । अँपि च मे गुरुजनवक्तव्यतां नीताया नितरां लजिताया
जीवितान्मरणमेव श्रेयः पश्यति हृदयम्' इति ।
 
एवंवादिनीं भूयस्ता महमेवमवोचम्- 'अलमलमिदानीं देवि, किमनेनाकारणमरणानुबन्धेन ।
बरोरु, अनाराधितप्रसन्नेन कुसुमशरेण भगवता ते वरो दत्तः । का वात्र गुरुजनवक्त-
ब्यता ? यदा खलु कन्यकां गुरुरिव पञ्चशरः संकल्पयति मातेवानुमोदते, पितेव ददाति,
सखीवोत्कण्ठां जनयति, धात्रीव तरुणतायां रत्युपचारं शिक्षयति । किमिव कथयामि ते याः
स्वयं वृावत्यः पतीन् । यदि च नैवम् अनर्थक एवं तर्हि धर्मशास्त्रोपदिष्टः स्वयंवरविधिः ।
 
9
 
,
 
तीनाम् । तथा प्रियतमकथा अबहुभाषत इत्येवंशीलां सरस्वतीं शृण्वन्तीनामाकर्णयन्तीनाम् । तथा प्राणस-
मस्य भर्तुर्यः समागमस्तस्य सुखानि ध्यायन्तीनां चिन्तयन्तीनाम् ।
 
इत्येतदा कर्ण्य च क्षणं विचिन्त्य प्रत्यवादी व्यवोचत् । किं तदित्याह — पत्र लेखेति । हे पत्रलेखे, यथा
त्वं कथयसि तथायं जनः पण कंदर्पेण कुमारे पक्षपातं कारितः । तदेव स्पष्टीकरोति - यानीति । यानि
त्वया कथितान्यस्य कंदर्पय तदपेक्षया समधिकानि मयि कादम्बर्या वर्तन्त इत्यर्थः । अतिनिगूढत्वं
यन्मम हृदि वर्तते तदपि भतीमेव पृच्छामीत्याशयेनाह - भवतीमिति । भवतीं त्वामेव वा पृच्छामि
प्रश्नं करोमि । अत्रार्थे हेतुमाह - हृदयेति । इदानीं सांप्रतं मम हृदयात्त्वमव्यतिरिक्ताऽभिन्नासि । अत एव
त्वां पृच्छामीत्यर्थः । ततो यदत्र मे मम सांप्रतं युक्तं तदुपदिश कथय । अत्र हेतुमाह - एवमिति । एवं-
विधानां पूर्वोद्दिष्टानां वृत्तान्ताना महमनभिज्ञास्म्यकुशला । तस्मात्त्वदीयोपदेशस्यैव प्रतीक्षा क्रियते । मम त्वेत-
देव प्रतिभातमित्याह – गुरुजनेति । गुरुजनेन मातृपित्रादिजनेन वक्तव्यतां वचनीयतां नीतायाः प्रापि-
ताया नितरामत्यर्थं लजिताया मे मम मरणमेव श्रेय इति हृदयं चेतः पश्यति । जानातीत्यर्थः ।
 
4
 
इत्येवंवादिनीं भूयस्ता महमेवमवोचमब्रवम् । हे देवि, अलमलं कृतम् । किमनेन व्यर्थेनाकारणमरणानु-
बन्धेन निष्प्रयोजनमृत्युप्रयासेन । वरेति । हे वरोरु, भगवता कुसुमशरेण ते तव वरो भर्ता दत्तः । भग-
बान्देव आराधित एव प्रसन्नः स्यात् । अयं तु न तथेत्याह – अनाराधितेति । अनाराधितप्रसन्नेन । का
वेति । अत्र गुरुजने का वक्तव्यता का वचनीयता । यदेति । खलु निश्चितम् । यदा गुरुरिव पञ्चशरः
कंदर्पः कन्यकां संकल्पयति दानेच्छाविषयीकरोति । मातेव जननीवानुमोदते एतत्सुष्ठु विहितमिति श्लाघते ।
पितेव जनक इव ददाति प्रयच्छति । सखीव वयस्येवोत्कण्ठामुत्कलिकां जनयत्युत्पादयति । धात्रीवोपमातेव
तरुणतायां तारुण्यविषये रतिविषयको य उपचारो विभ्रमादिस्तं शिक्षयत्यभ्यासं कारयति । न च काश्चन
खे. विरणं कुर्वन्तीत्याशयेना - या इति । याः पतीन्स्वयं वृतवत्यस्ता अपि कन्यकाः सन्ति ।
अतस्ते तव किमिव कथयामि किं ब्रवीमि । इदं त्वयापि समाचरणीयमिति ध्वनितम् । न चेदमाचरणीय-
मित्याशयेनाह–चा चेति । यदीदं पत्युः स्वयंवरणं न कर्तव्यं तर्हि धर्मशास्त्रे स्मृत्यादावुपदिष्टः कथितः
 
टिप्प०-1 सन्तापजनकत्वादीनि ( पूर्वोक्तानि ) । 2 'भ्रातेव ददाति' इत्येव पाठः, गुरुरिवेति पूर्व●
जुतात् । 3 'कति वा कथयामि' इत्येव पाठः अन्यथा 'याः' इत्यस्य समन्वयो यथावत्न्न भवति । याः
स्वयंवृतवत्यस्ताः कति कथयामि, बह्वयः सन्तीति तदर्थः ।
 
Ter
 
पाठा० - १ कुमारपक्षपातिना पञ्चशरेण, २ मे, ३ इदमपि च ४ भ्रातेव. ५ तरुणतारत्युपचारम्. ६ च; कति वा.