This page has not been fully proofread.

कादम्बरीवृत्तश्रवणम् ]
 
पूर्वभागः ।
 
800
 
.
 
पराधैर्देवं दूषयितुम् । एतानि खेलु कुसुमचापस्य चापलानि शठस्य, न देवस्य' इत्येव-
मुक्तवतीं मां पुनः सकुतूहला सा प्रत्यभाषत ———'योऽयं कामः कोऽपि वा, कथय कानि
कान्यस्य रूपाणि' इति । तामहं व्यजिज्ञपम्- 'देवि, कुतोऽस्य रूपम् । अतनुरेष हुता-
शनः । तथा हि । अप्रैकाशयकुवालावली: संतापं जनयति, अप्रकटयन्धूमपटलमश्रु पातयति,
अदर्शयन्मस्मरजोनिकरं पाण्डुतामाविर्भावयति । न च तद्भूतमेतावति त्रिभुवनेऽस्य शर-
शरव्यतां यन्त्र यातं याति यास्यति वा । को वास्मान्न त्रसति । गृहीतकुसुम कार्मुको बाणैर्ब-
लवन्तमपि विध्यति । अपि चानेनाधिष्ठितानां कामिनीनां पश्यन्तीनां चिंन्ताप्रियमुखसहस्र-
संकटमम्बरतलम् लिखन्तीनां दयिताकारानविस्तीर्ण महीमण्डलम्, गणयन्तीनां वल्लभगु-
,
 
,
 
श्र
 
प्रसीद प्रसन्ना भव । कामापराधैर्देवं दूषयितुं नार्हसि न योग्या भवसि ॥ एतानीति । एतानि पूर्वोकानि
खलु निश्चितं कुसुमचापस्य कंदर्पस्य चापलानि चेष्टितानि शठस्य, न देवस्य चन्द्रापीडस्य । इत्येवमुक्तवतीं मां
पुनर्भूयः सकुतूहला सकौतुका सा इति प्रत्यभाषत प्रत्यवोचत् । इतिशब्दयोत्यमाह - योऽयमिति । कोऽपि
वा योऽयं कामः कथय प्रतिपादय, कानि कान्यस्य रूपाणि । ततोऽहं तां कादम्बरीं व्यजिज्ञपं विज्ञप्तिम-
करवम् । कुतोऽस्य रूपम् । एषोऽतनुर्महान्दृश्यमानवहेर्विलक्षणो हुताशनः । तदेव दर्शयति- तथा हीति ।
ज्वालावली: शिखाश्रेणी र प्रकाशयन्नप्रकटीकुर्वन्संतापं जनयति । अप्रकटयन्न प्रकाशयन्धूमपटलमञ्जु पातयत्य-
श्रुपातं करोति । अदर्शयन्नप्रकटयन्भस्मलक्षणं रजोनिकरं पाण्डुतां पाण्डुरतामाविर्भावयति प्रकटयति । एता-
नति त्रिभुवने तन्न भूतम् । यत्तदोर्नित्याभिसंबन्धादाह – यदिति । यदस्य मदनस्य शराणां बाणानां शरव्यतां
वेध्यतां न यातं प्राप्तम् । न कोऽपि सांप्रतं शरव्यतां याति । कोऽप्यमे यास्यति । कोऽपि नास्मांस्त्रसति ।
गृहीतेति । गृहीतमात्तं कुसुमानां कार्मुकं धनुर्येनैवंविधो मदनो बाणैः शरैर्बलवन्तमपि विध्यति । अपि चेति
युक्त्यन्तरे । अनेनेति । अनेन कंदर्पेणाधिष्ठितानामाश्रितानां कामिनीनां हृदयस्य हँसीयान्हासकृत्काल आप-
तति । अकस्मादागच्छतीत्यर्थः । अथ कामिनीनां विशेषणानि–किंकुर्वन्तीनाम् । चिन्ताजनितं यत्प्रियमु
खसहस्रं तेन संकटं संकीर्ण यदम्बरतलं तत्पश्यन्तीनां विलोकयन्तीनाम् । दयितस्य भर्तुर्य आकार आकृतिस्ते •
नाविस्तीर्ण संकुचितं यन्महीमण्डलं तल्लिखन्तीनाम् । तथासंख्यानने कान्वल्लभगुणान्गणयन्तीनां गणनां विदध-
सं
 
टिप्प० – 1 तद् भूतं न, स प्राणी नास्तीत्यर्थः । 2 विपरीतः प्रलापः, अस्मात् को वा न त्रस्पति,
अपितु सर्वस्वस्यति । 3 हन्त कथमात्मानं संवृणुमः, अनधिकारिणा सर्व धूलिसात्कृतम् ! इसीयान्
काल इति न सर्ववाक्यान्वयि । किञ्च 'चिन्तया प्रियमुखचन्द्रसहस्राणि' इति पाठः । प्रियगतचिन्तया
( चिन्तावशात् ) प्रियमुख चन्द्रसहस्राणि पश्यन्तीनां कामिनीनां कृते अम्बरतलं संकटं संबाधं ( मुख-
चन्द्रसहस्रसंकीर्णतया) । 'लिखन्तीनां दयिताकारान विस्तीर्ण महीमण्डलम्', [ अनेनाधिष्ठितानाम् अत
एव विनोदार्थ दयितस्य प्रतिकृतीलिखन्तीनाम् ( कामिनीनाम् हृदये) महीमण्डलमविशालम्, यतो हि
तचित्रिता दयिताssकारास्तत्र न मान्ति।] 'वल्लभगुणान् गणयन्तीना मल्पीयसी संख्या' [गुणगणनाकाले
परार्धान्तापि संख्या अपर्याप्ता भवतीत्यर्थः । ] 'शृण्वतीनां प्रियतमकथामबहुभाषिणी सरस्वती',
[प्रियतमकथ शृण्वतीनां कामिनीनां कृते वाग्देवतात्वेन प्रसिद्धापि सरस्वती न्यूनभाषिणी । अनन्तयापि
कथया तासां श्रवणाशा न पूर्यत इत्यर्थः । ] 'ध्यायन्तीनां प्राणसमसमागमसुखानि हसीयान् कालो
हृदयस्थापतति' [ ध्यानवेलायां कालः सहसैव समाध्यत इत्यर्थः ।]
 
पाठा०-१ खलु खलस्य.. २ कामो वा; कामोऽपि. ३ प्रकाशयन्० ४ शरख्यताम्. ५ वास्य अश्यति.
६ चिन्तया प्रिया. ७ चन्द्रसहस्राणि ८ वहभगुणानल्पीयसी संख्या.