कादम्बरी /51
This page has been fully proofread twice.
नुलेपनधवलितोरःस्थलम्, उपरिविन्यस्तकुङ्कुमस्थास [^१]कमन्तरान्तरानिपतितबालातपच्छेदमिव कैलासशिखरिणम्, अपरशशिशङ्कया नक्षत्रमालयेव हारलतया कृतमुखपरिवेषम्, अति [^२]चपलराज्यलक्ष्मीबन्धनिगडकटकशङ्कामुपजनय [^३]तेन्द्रमणिकेयूर [^४]युग्मेन मलयजरसगन्धलुब्धेन
भुजङ्गद्वयेनेव वेष्टितबाहु [^५]युगलम्,[^६]ईषदालम्बिक- र्णोत्पलम्, उन्नतघोणम्, उत्फुल्ल [^७]पुण्डरीकनेत्रम्,
अमलकलधौत [^८]पट्टायतमष्टमीचन्द्रशकलाकार- मशेषभुवनराज्याभिषे [^९]कपूतमूर्णासनाथं ललाटवेशमुद्वहन्तम्, आमोदिमालतीकुसुमशेखरमुषसि शिखरपर्यस्ततारकापुञ्जमिव पश्चिमाचलम्, आभरणप्रभापिश [^१०]ङ्गितया लग्नहरहुताशमिव मकरध्वजम् आसन्नवर्तिनीभिः सर्वतः
[ टि ]-- अतिसुरभि अतिसुगन्धि यच्चन्दनं मलयजं तस्यानुलेपन- मङ्गरागस्तेन धवलितं शुभ्रीकृतमुरःस्थलं वक्षःस्थलं यस्य स तथा तम् । उपरीति । उपरि । अर्थाद्वक्षसः । विन्यस्ता विहिताः कुङ्कुमस्य केसरस्य स्थासका हस्तबिम्बा यस्य स तम् । 'स्थासकस्तु हस्तबिम्बम्' इति कोशः । कमिव । अन्तरेति । अन्तरान्तरा मध्ये मध्ये निपतिताः पर्यस्ता बालातपस्य नवीनालोकस्य छेदाः खण्डा यस्मिन्नेतादृशं कैलासशिखरिणमिव रजताद्रिमिव । पुनः प्रकारान्तरेण तमेव नृपं विशेषयन्नाह - अपरेति । अपरोऽन्यो यः शशी चन्द्रस्तस्य या शङ्का भ्रान्ति-
स्तया नक्षत्राणि तारास्तासामाली ( सां माला ) श्रेणी तद्रूपयैव हारलतया । 'हारो मुक्तान्तः प्रालम्बस्रक्कलापावली लता' इति कोशः । तेन कृतो विहितो मुखस्याननस्य परिवेषः परिधिर्यस्य स तम् । अनेन हारलताया अत्यन्तनैर्मल्यं मुखस्य च चन्द्रसाम्यं सूचितम् । 'परिधिः परिवेषश्च' इति कोशः । अतीति । अतिचपलातिचञ्चला या राजलक्ष्मीराधिपत्यश्रीस्तस्या बन्धो नियमनं तत्र निगडोऽ [^1]न्दुकस्तस्य यत्कटकं वलयं तस्य शङ्कामा-
रे [^2]कामुपजनयता कुर्वता एवंभूतेनेन्द्रमणियुक्तमिन्द्रनील- मणिखचितं यत्केयूरयुग्ममङ्गदद्वन्द्वं तेन वेष्टितं परिक्षिप्तं बाहुयुगलं भुजद्वितयं यस्य स तथा तम् । यद्यपि समस्तवेष्टितपदस्य बाहुपदान्वितस्य विभक्त्यन्तरबद्धेनान्वयस्तथापि विशेषे क्वचित् 'मानेन जितेन्द्रियः' इत्यादौ तथा दृष्टत्वाददोषो द्रष्टव्यः । केनेव । मलयेति । मलयजश्चन्दनसक्तो यो रसो द्रवस्तस्य गन्धे परिमले लुब्धेनासक्तेन भुजङ्गद्वयेनेव सर्पयुग्मेनेव । ईषदिति । ईषत्किंचिदालम्बि लम्बमानं कर्णोत्पलं श्रवणपङ्कजं यस्य स तथा तम् । उन्नतेति । उन्नतोच्चा घोणा नासिका यस्य स तम् । उत्फुल्लेति । उत्फुल्लं विकसितं यत्पुण्डरीकं सिताम्भोजं तद्वन्नेत्रे लोचने यस्य स तम् । किं कुर्वन्तं नृपम् । ललाटदेशमलिक- प्रदेशमुद्वहन्तं धारयन्तम् । अथवालीकं विशेषयन्नाह – अमलेति । अमलं निर्मलं यत्कलधौतं सुवर्णं तस्य यः पट्टस्तद्वदायतं विस्तीर्णम् । 'अयनम्' इति पाठे सुवर्णतिलकस्थानम् । 'अयनं सरणिर्मार्गः' इति कोशः । अष्टमीति । अष्टम्यां यच्चन्द्रशकलं तदर्धभागस्तद्व- दाकार आकृतिर्यस्य तत्तथा । उभयोः पक्षयोरष्टम्यामष्टावेव कला इत्यर्धचन्द्रः । अतोऽष्टमीग्रहणं युक्तमेवेति भावः । अशेषेति । अशेषाणि समग्राणि यानि भुवनानि तेषां राज्यमाधिपत्यं तस्याभिषेको मङ्गलस्नानं तेन पूतं पवित्रम् । ऊर्णेति । ऊर्णा
भ्रुवोरन्तरावर्तस्तेन सनाथं सहितम् । 'ऊर्णा मेषादिलोम्नि स्यादावर्तस्त्व ( र्ते चा ) न्तरा भ्रुवोः' इत्यमरः । स च
चक्रवर्तिप्रभृतीनामेव नान्यजनस्य । तदुक्तम् – 'भ्रूद्वयमध्ये मृणालतन्तुसूक्ष्मं शुभ्रायतमेकं प्रशस्तावर्तं महापुरुषलक्षणम्' इति । पुनरेव नृपं विशेषयन्नाह - आमोदीति । आमोदीनि सुगन्धीनि यानि मालतीकुसुमानि जातीपुष्पाणि तेषां शेखरचूडाभूषणं यस्य स तथा तम् । कमिव । पश्चिमाचलमिवास्ताद्रिमिव । कीदृशम् ।
उषसीति।उषसि प्रभाते शिखरे सानुनि पर्यस्ताः पतितास्तारकाणां नक्षत्राणां पुञ्जाः समूहा यस्मिन्स तम् । अत्र शैलशिखरनृपोत्त- माङ्गयोः पुष्पपुञ्जतारकयोश्चोपमानोपमेयभावः । मकरेति । मकरस्य जलजन्तुविशेषस्य ध्वजोऽङ्को यस्य तमिव । मदनसादृश्यं प्रदर्शयन्नाह- आभरणेति । आभरणानां भूषणानां या प्रभा कान्ति-
स्तया पिशङ्गितं पीतरक्तीकृतमङ्गं यस्य तस्य भावस्तत्ता तया कृत्वा लग्न आसक्तो हरस्येश्वरस्य हुताशोऽग्नि-
[^1]F. शङ्खला ।
[^2]F. शान्तिमित्यर्थः ।
[^१]G. अन्तरानिपतित; अन्तरान्तरानिपतित.
[^२]G. राजलक्ष्मीबन्धननिगडशङ्कां.
[^३]G. इन्द्रनीलमणि.
[^४]G. युगलेन.
[^५G. शिखरम्.
[^६]G. आलम्बित.
[^७]G. लोचनम् .
[^८]G. पट्टायित; पट्टायमान.
[^९]G. सलिलपूत.
[^१]G. अङ्गरागतया.