This page has not been fully proofread.

४७६
 
कादम्बरी ।
 
[कथायाम्-
कथय हे पत्रलेखे, केन प्रकारेण निश्चेतनो निषिध्यते । प्रत्याख्यानमपीयां संभावयति ।
आक्रोशमपि परिहासमाकलयति । असंभाषणमपि मानं मन्यते । दोष संकी तैनमपि स्मरणो-.
पायमवगच्छति । अवज्ञानमध्यनियन्त्रणं प्रणयमुत्प्रेक्षते । लोकापवादद्मपि यशो गणयति' इति ।
 
तामेववादिनीमाकर्ण्य प्रहर्षरसनिर्भरा मनस्यकरवम्- 'अहो चन्द्रापीडमुद्दिश्य सुदूर-
माकृष्टा खल्वियं मकरकेतुना । यदि च सत्यमेव कादम्बरीव्याजेन साक्षान्मनोभवचित्तवृत्तिः
प्रसन्ना देवस्य, ततः सहजैः सादरं संवर्धितैः प्रत्युपकृतमस्य गुणैः, यशसा धवलिताः ककुभः,
यौवनेन रतिरससागरतरङ्गैः पातिता रत्नवृष्टिः, यौवेन विलासैलिखितं नाम शशिनि, सौभा-
ग्येन प्रकाशिता निजश्रीः, लावण्येनैन्दवीभिरिव वृष्टममृतं कलाभिः । तथा च चिरालब्धः
कालो मलयालेन, समासादितोऽवसरश्चन्द्रोदयेन, आप्तमनुरूपं फलं मधुमासकुसुमस-
मुख्या गतो मंदिरारसदोषो गुणताम्, दर्शितं मुखं मन्मथयुगावतारेण' इति ।
 
अथाहं प्रकाशं विहस्यानवम् –'देवि, यद्येवमुत्सृज कोपम् । प्रसीद । नार्हसि कौमा•
 
Com
 
Ap
 
यस्यैवंविधः । स्वव्यामोहं तत्रैवारोपयन्नाह निश्चेतन इति । त्वं कथय केन प्रकारेण निषिध्यते प्रतिषिद्धोऽ-
प्युत्कटरागवशाद्भुयेव तिष्ठति । प्रत्याख्यानेति। प्रत्याख्यान निराकरणमीर्ष्यामसूयां संभावयति संभावनां
करोति। आक्रोशमपि निष्ठुरोक्तिमपि परिहास हास्यमात्रमाकलयति चिन्तयति । असंभाषणमप्यजत्पनमपि
मानं मन्यते जानाति । दोषसंकीर्तनमपि स्मरणोपायत्वेनावगच्छति जानाति । अवज्ञानमप्यवगणनमपि स्नेहस्य
चाटूनि नियन्त्रणानि तद्रहितमनियन्त्रणं प्रणयं स्नेहमुत्प्रेक्षते । लोकापवादमपि यशो गणयत्याकलयति । इदं च
सर्वं तद्विषयकोत्कटाण्यांसवशाज्ञेयम् ।
 
das
 
इत्येवंवादिनीं तामाकर्ण्य प्रकृष्टो यो हर्षस्तल्लक्षणो यो रसस्तेन निर्भरा संपूर्णा मनस्येवमकरवमकल्पयम् ।
अहो इति । अहो इत्याश्चर्यम् । खलु निश्चितम् । चन्द्रापीडमुद्दिश्येयं कादम्बरी मकरकेतुना सुदूरमति-
दूरमाकृष्टाकर्षिता । यदि च सत्यमेवावितथमेतदेव तदा देवस्य चन्द्रापीडस्योपरि मनोभवचित्तवृत्तिः कादम्बरी-
व्याजेन साक्षात्प्रसन्ना । तत इति । अस्य चन्द्रापीडस्य सहजैः स्वभावजनितैः सादरं संवर्धितैर्वृद्धिं प्रापि
तैर्गुणैः प्रत्युपकृतं प्रत्युपकारः कृतः । यशसा कीर्त्या ककुभो दिशो धवलिताः शुभ्रताः । यौवनेति । यौव-
नेन तारुण्येन रतिरसः शृङ्गाररसः स एव सागरः समुद्रस्तस्य तरंगैः कल्लोलैः कृत्वा रत्नवृष्टिः पातिता । तथा
यौवनविलासैस्तारुण्यविभ्रभैः शशिनि चन्द्रे चन्द्रापीडेति नाम लिखितम् । सौभाग्येति । सौभाग्येन सुभग-
तया निजा श्रीरात्मशोभा प्रकाशिता प्रकटीकृता । लावण्येति । लावण्येन चातुर्येणैन्दवी भिश्चन्द्रसंबन्धिनीभिः
कलाभिरिवामृतं पीयूषं वृष्टम् । पीयूषवृष्टिः कृतेत्यर्थः । तथा मलयानिलेन मलयवायुना चिराद्बहुकालात्कालः
प्रस्तावो लब्धः । तथा चन्द्रोदयेनावसरः समासादितः । तथा मधुमासः सुरभिमासस्तस्य कुसुमसमृद्ध्यानुरूपं
योग्यं फलं प्राप्तम् । मदिरेति । मदिरा कापिशायनं तस्य रसदोषो गुणतां गतः । मन्मथयुगावतारेण मुखं
दर्शितम् । कादम्बर्यनुकूलतायां सत्यामेतत्सर्वमनुकूलं जातमित्यर्थः ।
 
अथेति । तच्चिन्तनानन्तरं प्रकाश प्रकटं विहस्याहमब्रवमवोचम् । हे देवि, यद्येवं तर्हि कोपमुत्सृज यज ।
 
टिप्प० - 1 हन्त विपरीता बुद्धिर्महाशयस्य, यद्यस्मिन् वाक्य एवोद्देश्य - विधेयभावः पूर्येत तदा
'ततः' इत्यग्रिमवाक्यस्यासंबन्ध: स्यात् । तस्मात् कादम्बरीं व्याजीकृत्य ( उद्दिश्य ) मनोभवस्य
चित्तवृत्तिर्यदि सत्यं प्रसन्ना, ततः सहजैः अस्य गुणैरुपकृतमित्यर्थः ।
 
पाठा० • १ एवं तदा . २ विलासैः. ३ प्राप्तमनुरूपफलम् ; प्राप्तरूपं फलम्. ४ मदिरामदे. ५ कामापराधे.