कादम्बरी /508
This page has not been fully proofread.
कादम्बरीवृत्तश्रवणम् ]
पूर्बभागः ।
४७५
करसेनेव चरणौ । अविनयनिश्चेतनो नखप्रतिबिम्बितमात्मानं बहु मन्यते । उपवनेष्वेका-
किन्या ग्रहणभयपलायमानायाः पल्लवलग्मांशुकदशाप्रतिहतगमनाया गृहीत्वेव सखीभिरपिं-
ताया मिथ्या प्रगल्भः पैराङ्मुखाया: परिष्वङ्गमाचरति । स्तनस्थले मे लिखन्पेत्रलेखां कुटि-
लतामिवानृजुप्रकृतिः प्रकृतिमुग्धं मनः शिक्षयति । हृदयोत्कलिकातरङ्गवातैरिव शीतलैर्मुख-
मरुद्भिः श्रमजलशीकरतार कितावली कचाटुकारः कपोलौ वीजयति । स्वेदसलिलशिथिलित-
ग्रहणगलितोत्पलशून्येनापि करेण वाङ्कुरानिव नैखकिरणा-शुद्धादुर्विदग्धः कर्णपूरी करोति ।
बल्लभतरबालबकुलसेकका लकवलीकृतान्सुरागण्डूषान्सकचग्रहमसकृद्धृष्टो मां पाययति । भव-
माशोकताडनोद्यतान्पादमहारादुर्बुद्धिविडन्वितः शिरसा प्रतीच्छति। मन्मथमूढमानसञ्च
-
•
>
प्रतिबिम्बमधिकृत्याह - अविनयेति । मां मुक्त्वा गत इला विनयस्तेन निश्चेतनो नखेषु प्रतिविम्बितमात्मानं
बहुमन्यते । अधिकं जानातीत्यर्थः । यद्यपि नखेषु यः कश्चन प्रतिबिम्बस्तथापि तदध्यासवशात्तस्यैवेत्यर्थः । उप
वनेषु सर्वतः कोमलपल्लवानामा श्लेषमधिकृत्याह-उपवनेविति । उपवनेष्वेका किन्या असहायायाः केनचि-
त्पुरुषेण ग्रहणं तस्माद्भयं तेन पलायमानाया गच्छन्त्याः पहनेषु लगा या अंयुकदशा तया प्रतिहतं गमनं यस्या
अत एव पराङ्मुखायाः सखीमिर्गृहीत्वेवार्पिताया मिथ्या प्रगल्भ मिथ्यैव विदग्धचरितश्चन्द्रापीड : परिष्वङ्गमा-
चरत्यालिङ्गनं करोति । बहिरुपवन पल्लवा श्लेषमनुभूतम् तदध्यासवशात्तत्कृताभिमतिमधिकृत्याह- स्तनेति ।
मे मम स्तनस्थले पत्रलेखां लिखन्ननृजुप्रकृतिः कुटिलस्वभावः कुटिलतामिव प्रकृतिमुग्धं मनः शिक्षयति ।
सखेदजलकणिकयोः कपोलयोर्व्यजनवातवीजितयोस्तदध्यासवशात्तत्कृताभिमतिमधिकृत्याह- हृदयेति ।
अलीकचाटुकारो मिथ्यैव चटुकृच्छ्रमजलशीकरैः श्वेतत्वसाम्येन तारकिताविव कपाली शीतलैर्मुखमरुद्भिवज -
यति पवनं करोति । कीदृशैरिव । हृदये योत्कलिका रणरणकता सैवास्थिरत्वात्तरंगाः कल्लोलास्तेषां वातैरिव ।
स्वदसलिलेन शिथिलीकृतं यदुत्पलं तत्संरक्षणार्थं न्यस्तं यत्करतलं तन्नखप्रभायां तत्कृतयावाङ्कुर कर्णपूर बुद्धिम
धिकृत्याह – स्वेदेति । स दुर्विदग्धः करेण शुद्धान्नखकिरणान्पाण्डुरत्वसाम्याद्यत्राङ्कुरानिव कर्णपूरी करोति ।
कीदृशेन करेण । स्वेदसलिलेन शिथिलितं तस्यै ग्रहणे गलितं यदुत्पलं तेन शून्येनापि । अत्रापिशब्देन कर्ण-
पूरीकृतोत्पलाभावेऽपि कर्णपूरकार्यं करोतीत्यर्थः । वल्लभतरेति । वल्लभतरा ये बालबकुला लघुकेसरास्तेषां
सेककालस्तत्र कवलीकृतान्सुरागण्डूषान्मान्तुलुका नसकृन्निरन्तरम् । अलीनां नीलँत्वादाह — सकचेति ।
सकचग्रहं धृष्टो मां पाययति पानं कारयति । भवनाशोकेति । अशोकस्य गृहक वृक्षस्य ताडनं तत्रो-
द्यतान्पाद प्रहारांश्चरणाभिघातान्दुर्बुद्ध्या बिडम्बितः शिरसोत्तमाङ्गेन प्रतीच्छति वाञ्छति । अत्र तदध्यासवशा-
दशोकस्यापि तद्रूपत्वेन चिन्तनमित्यर्थः । विरहेण मूढतां प्रदर्शयन्नाह
- मन्मथेति । मन्मथेन मूढं मानसं
।
टिप्प० - 1 अन्न कीडश्यः सख्यः सन्ति ? अस्तु. 'लतासखीभिः' इत्येव पाठः । अर्थोपि वराकेण
टीकाकारेण न बुद्धः । केनचित्पुरुषेण ग्रहणं न, चन्द्रापीडेन ग्रहणभयात्पलायमानायाः पल्लवासक्ताञ्चल-
तथा लतारूपाभिः सखीभिः गृहीत्वा दत्ताया इव लज्जावशाद्विवृत्तवदनाया मे आलिङ्गनं करोतीत्यर्थः ।
2 तस्य कस्य ग्रहणे ? अस्पष्टं सर्वम् । स्वेदसलिलेन लथीकृतं यद् ग्रहणं ( धारणम् धारणसामर्थ्यम्)
तेन गलितं यदुत्पलं तच्छ्रन्येन (तद्रहितेन ) अपि स्वकरेण यवाङ्कुरानिव शुद्धान् (केवलान् ) स्वनख-
किरणानेव कर्णपूरीकरोतीत्यर्थः । 3 स्वप्नप्रलपितमिवासंबद्ध मिदम् । बकुलसेककाले अयं चन्द्रापीड:
स्वमुखेन मद्यगण्डूषान् कवलीकृत्य कचग्रहणपूर्वकं तान् मां बलास्पाययतीति तात्पर्यम् ।
पाठा० - १ रसेन. २ नखेषु प्रतिबिम्बितम् ३ लतासखीभिः ४ पराङ्मुखापरिष्वङ्गम् ५ लताम्. ६ यवाकर -
विकरानि, ७ ख ८ सकचग्रहमगणितचेष्टः पातुं प्रार्थयते.