कादम्बरी /506
This page has not been fully proofread.
४७३
पत्रलेखातः कादम्बरीवृत्तश्रवणम् ]
पूर्वभागः ।
कथयामि परिभवम् । केन वान्येन सह साधारणीकरोमि दुःखम् । दुःखभारमिममसह्यं
निवेद्य भवत्यारत्यक्ष्यामि जीवितम् । जीवितेनैव शपामि ते । स्वहृदयेनापि विदितवृत्तान्ते-
नामुना जिहेमि, किमुतापरहृदयेन । कथमपि मादृशी रजनिकरकिरणावदात कौलीनेन
कुलं कलङ्कयिष्यति । कुलक्रमागतां च लज्जां परित्यक्ष्यति । अकन्यकोचिते वा चापले चेतः
प्रवर्तयिष्यति । साहं न संकल्पिता पित्रा, न दत्ता मात्रा, नानुमोदिता गुरुभिः, न किंचि-
संदिशामि, न किंचित्प्रेषयामि, नाकारं दर्शयामि। कैातरा चानाथेव बँलादवलिप्तेन गुरुगर्ह-
णीयतां नीता कुमारेण चन्द्रापीडेन । कथय महतां किमयमाचार: ? किं परिचयस्येदं फलम्
यदेवमभिनव बिस किसलयतन्तुसुकुमारं मे मनः परिभूयते । अपरिभवनीयो हि कुमारिका-
जनो यूनाम् । प्रायेण प्रथमं मदनानलो लज्जां दहति, ततो हृदयम् । आदौ विनयादिकं कुसु-
मेषुशराः खण्डयन्ति, पश्चान्मर्माणि वदामन्त्रये भवतीं पुनर्जन्मान्तरसमागमाय । नहि मे
त्वत्तोऽन्या प्रियतरा । प्राणपरित्यागप्रायश्चित्ताचरणेन प्रक्षालयाम्यात्मनः कलङ्कम् । इत्य
भिधाय तूष्णीमभूत् ।
?
1
न्यस्य कस्य वा परिभवं कथयामि निवेदयामि । केन वान्येन सह दुःखं साधारणीकरोमि । असह्यं सोढुमशक्यमिमं
दुःखभारं भवत्या निवेद्य कथयित्वा जीवितं त्यक्ष्यामि दूरीकरिष्यामि । ते तव पुरस्ताज्जीवितेनैव शपामि शपथं
करोमि । एतस्मादधिकः कोऽपि शपथो नास्तीति भावः । विदितवृत्तान्तेन ज्ञातस्त्ररूपेणामुना स्वहृदयेनापि
जिहेमि लजां प्राप्नोमि । किमुतापरहृदयेन भण्यते । मादृशी स्त्री कथमिव रजनिकरश्चन्द्रस्तस्य किरणा गभस्तयस्त-
द्वदवदातं निर्मलं कुलं वंशः(तम्) कौलीनेन जनापवादेन कलङ्कयिष्यति मलिनयिष्यति । कुलक्रमागतां परम्परायातां
च लज्जां त्रपां परित्यक्ष्यति परिहरिष्यति । अथवाऽकन्यको चिते कन्यका जनस्यानुचितेऽयोग्ये वा चापले चपल-
तायां चेतः प्रवर्तयिष्यति प्रवृत्तिं कारयिष्यति । साहं कादम्बरी न संकल्पिता पित्रा जनकेनोद्वाहार्थं न कस-
चित्संकल्पविषयीकृता । तथा न मात्राम्बया दत्तार्पिता । इदं सुष्टु कृतमित्येवंत्रकारेण गुरुभिर्वृद्धैः नानुमोदिता ।
न किंचित्संदिशामि कथयामि । न किंचित्प्रेषयामि प्रेषणं करोमि । नाकारं देहविकृतिं दर्शयामि प्रकटयामि ।
कातरा चानाथेवाहं बलाद्धठेनावलिप्तेन दर्पितेन कुमारेण चन्द्रापीडेन गुरुगुर्वी या गर्हणीयता निन्द्यता तां
नीता प्रापिता । त्वं कथय निवेदय, महतां सत्पुरुषाणाम् । किमिति प्रश्ने । अयमाचारः कुलक्रमागत व्यवहारः ?
किं वा परिचयस्य संस्तवस्येदं फलम्, यदेवंप्रकारेणाभिनवो यो बिसकिसलयस्य तन्तुस्तद्वत्सुकुमारं कोमलं
मे मम मनोऽनेन परिभूयते पराभवविषयीक्रियते । हि यस्मात्कारणात्कुमारिकाजनोऽपरिभवनीयो यूनां परा-
भवितुं न योग्यः । प्रायेणेति । प्रायेण बाहुल्येन प्रथमं मदनानलो लज्जां त्रपां दहति भस्मीकरोति । ततो
हृदयं चेतो दहति । तथा कुसुमेषुः कंदर्पस्तस्य शरा आदौ प्रथमं विनयादिकं खण्डयन्ति शकलीकुर्वन्ति । -
पश्चान्मर्माणि मर्मस्थानानि खण्डयन्ति । तदहं पुनर्जन्मान्तरे यः समागमः संबन्धस्तदर्थं भवतीमामाये
आमन्त्रणं कुर्वे । मर्मविच्छेदेऽवश्यमरणसंभवादिति भावः । अत्रार्थे हेतुं प्रदर्शयन्नाह – नहीति । नहि मे
मम त्वत्तोऽन्या प्रियतरा वल्लभतरा । प्राणपरित्यागलक्षणं यत्प्रायश्चित्तं तदाचरणेन तदासेवनेनात्मनः स्वस्य
कलङ्क प्रक्षालयामि पवित्रीकरोमि । इत्यभिधायेत्युक्त्वा तूष्णीमभूत् । मौनं चकारेत्यर्थः ।
टिप्प० – 1 गुरुभिर्महद्भिर्गर्हणीयतामित्यर्थ उचितः ।
·
पाठा० - १ असयमब. २ कालीनेन, ३ अन्य कन्यको चिते; अन्यकन्यकाजनोचिते. ४ सा चाहमसंकल्पिता मात्रा
पित्रा न दत्ता. ५ कातरेव इतरेव ६ अनाथेन नीचेव. ७ अबलिप्तेव. ८ गुर्वीं गर्हणीयताम्. ९ अनभिभवनीयः;
परिभवनीयः.
६० का०