कादम्बरी /505
This page has not been fully proofread.
Âર્
कादम्बरी ।
[ कथायाम् -
समुन्नतैक भ्रूलता मृत्युमार्गमिवालोकयन्ती दीर्घमुष्णं च निश्वसितवती । तंदुःखकारणमुत्प्रे
क्षमाणया च कथनाय पुनःपुनरनुबध्यमाना मया ब्रीडया नखमुख विलिखित केतकी दलानि
लिखित्वेव वक्तव्यमर्पयन्ती विषक्षास्फुरिताधरा निश्वासमधुकरानिवोपांशु संदिशन्ती क्षिति-
तलनिहित निश्चलनयना सुचिरमतिष्ठत् ।
क्रमेण च भूयो मन्मुखे निधाय दृष्टिं पुनः पुनरैथापूर्यमाणलोचनच्युतैर्मद नानलधूमधूसरां
बाचमिव क्षालयन्ती बाप्पजलबिन्दुभिः बाष्पजलबिन्दुव्याजेन च विलॆक्ष स्मितस्फुरितैर्द-
शनांशुभिः साध्वस विस्मृतानपूर्वानभिधेयवर्णानिव प्रभृती कथमपि व्याहाराभिमुखमात्मान-
मकरोत् । अब्रवीच माम्-'पत्रलेखे, वल्लभतया सॅस्मिन्स्थाने न तातो नाम्बा न महाश्वेता
न मदलेखा न जीवितम् यत्र में भवती दर्शनात्प्रभृति प्रियासि । न जाने, केनापि कारणे-
नापहस्तितसकलसखीजनं त्वयि विश्वसिति मे हृदयम् । कमपरमुपालभे । कस्य वान्यस्य
१
"
समुन्नतैका भ्रूलता यया सेवंविधा मृत्युमार्गमिवालोकयन्ती पश्यन्ती दीर्घ लम्बायमानमुष्णं तप्तं च निश्वसितवती
निश्वासं मुक्तवती । तस्य निश्वासमोचनस्य दुःखस्य कारणं नियामकमुत्प्रेक्षमाणया ज्ञातुमिच्छया मया कथनाथ
पुनः पुनरनुबध्यमाना वीडया लजया नखमुखेन नखरामेण विलिखितानि केतकीदलानि । अक्षरसाम्येनाह-
लिखित्वे वक्तव्यमभिधेयमर्पयन्ती । वक्तुमिच्छा विषक्षा तया स्फुरितावधरौ यस्याः सा । अधरकम्पमिषादुत्त्रे-
क्षते — निश्वासेति । निश्वासमधुकरानुपांशु रहसि संदिशन्तीव कथयन्तीव क्षितितले निहिते स्थापिते
निश्चले नयने यया सा सुचिरं चिरकालं यावदतिष्ठत्स्थिता ।
P
क्रमेण परिपाट्या भूयो मन्मुखे दृष्टिं निधाय स्थापयित्वा पुनः पुनर्वारंवारम् । अंथेत्यामन्तर्ये । आपूर्यमाणे
लोचने ताभ्यां च्युतैर्गलितैर्बाष्पजलबिन्दुभिर्मंदनानलस्य यो धूमस्तद्वद्धूसरां मलिनां वाचं वाचालतां क्षालय-
न्तीव । बाष्पेति । बाष्पजलबिन्दुव्याजेन विलक्षमैभिनवं यस्मितं तेन स्फुरितैदापितैर्दशनांशुभिर्दन्तमयूखैः
साध्वसेन भयेन विस्मृतानपूर्वानभिधेयवर्णान्वाच्याक्षरान्तीव । अत्र बाष्पबिन्दूनां वर्तुलतयाक्षरसाम्यं दशनां-
शूनां वितततया गुणसाम्येन ग्रन्थनमित्यर्थः । कथमपि महता कष्टेन व्याहाराभिमुख भाषिताभिमुखमात्मानमकरो-
दन्वतिष्ठत् । मां प्रत्यब्रवीच्चावादीत् । हे पत्रलेखे, वल्लभस्य भावो वल्लभता तया तस्मिन्स्थाने न तातो न पिता,
नाम्बा माता, न महाश्वेता, न मदलेखा, न जीवितम् । यत्र स्थाने मे मम भवती दर्शनात्प्रमृत्यवलोकनादारभ्य प्रिया
वल्लभासि । अहं न जाने नाकलयामि केनापि कारणेन हेतुनापहस्तितो दूरीकृतः सकल: सखीजनो येनैवं मे
मम हृदयं चेतस्त्वयि विषये विश्वसिति विश्वासं करोति । अपरं कमन्यं कमुपालभे । उपालम्भं ददामीत्यर्थः । अ-
टिप्प० -- 1 स्वबुद्ध्या संभावयन्त्या (मया) इत्यर्थ उचितः । 2 यया सा, इति मन्ये स्यात् । लेख
कंदोषाद्विभ्रष्टः स पाठः । अस्तु 'नखमुख विलिखितकेतकीदला' इत्येव पाठः । नखमुखेन केतकीदलं.
तथा लज्जास्त्रभावात्संगृहम्, तत्र कविरुत्प्रेक्षते स्ववक्तव्यं लिखित्वा अर्पयन्तीव । एवमधरस्फुरणेपि ।
3 अमार्मिकता सेयम् । पुनः पुनरण्यापूर्यमाणेयेव पाठः । 4 मदनानलधूमेन धूसरां मलिनाम् अस्पष्टा-
मित्येवार्थ: । न हि वाणी मूर्ता यन्त्र मालिन्येनोपमा स्यात् । 5 विलक्ष स्मितेन सलज्ज-मन्दहास्येनेत्यर्थः ।
इदं तु महापाण्डित्यम् ।
C
पाठा० - १ मृत्युपाशमिवावलोकयन्ती २ ततो दुःखकारणम्; तदुःखम् ३ केतकीदला. ४ अध्यापूर्यमाण.
५ लक्ष:. ६ पूर्वाम्. ७ न तस्सिन्स्थाने.