This page has not been fully proofread.

पत्रलेखातः कादम्बरीवृत्तश्रवणम् ]
 
पूर्वभागः ।
 
७६९
 
भवन्, यादृश्यम्य कथाः समजायन्त। ततः खल्वागते देने केयूरकेण सह प्रतिनिवृत्त्याहं तथैव
कुसुमशयनीय समीपे समुपाविशम्। अतिष्ठं च सुखं नवनवाननुभवन्ती देवीप्रसादान् । किंबहुना
प्रायेण मम चक्षुषि चक्षुः, वपुषि वपुः, करे करपलेवम्, नामाक्षरेषु वाणी, प्रीतौ हृदयं देव्याः
सकलमेव तं दिवसमभवत् । अपराहे च मामेवाबलम्ब्य निष्क्रम्य हिमगृहकात्संचरन्ती यह
च्छया निषिद्धपरिजना वल्लभबालोद्यानं जगाम । तत्र च सुधाधवलां कालिन्दीजलतरङ्गमय्येव
मरकतसोपानमालया प्रमदवनवेदिका मध्यारोहत् । तस्यां च मैणिस्तम्भावष्टम्भस्थिता स्थित्वा
च मुहूर्तमिव हृदयेन सह दीर्घकालमवधार्य किमपि व्याहर्तुमिच्छन्ती निश्चलवृततारकेण
निष्पन्दपक्ष्मणा चक्षुषा मुखं मे सुचिरं व्यलोकयत् । विलोकयन्त्येव च कृतसंकल्पा मद-
1
नाभि प्रवेष्टुमिच्छन्ती सनाविव स्वेदाम्भःस्रोतसि । स्रोतसेव तरलीकृता समकम्पत ।
कम्पिताङ्गी च पतनभियेबागृह्यत विषादेन ।
 
-
 
अथ मया विदिताभिप्रायया तन्मुख विनिवेशित निष्कम्पनयनदत्तावधानया 'आज्ञापय
 
'
 
एतत्सर्वं श्रूयतामित्यनेनान्वितम् । तत इति । तस्मात्स्थानात्खलु निश्चयेन देवे त्वय्यागते सति केयूरकेण
सह प्रतिनिवृत्य पश्चागता तथैव पूर्वोत्तरीत्यैव कुसुमशेयनीयसमीपे समुपाविशं समुपविष्टा । नवनवान्देवी-
प्रसादाननुभवन्त्यहं सुखमतिष्ठम् । किं बहुना जल्पितेन । प्रायेण बाहुल्येन मम चक्षुषि देवीचक्षुरिति देवी-
पदं प्रत्येकमभिसंबध्यते । चक्षुरियनेन संमुखमद्विषयकप्रेक्षणातिशयः । वपुषि वपुरित्यवियोगातिशयः । करे
करपल्लव मिति मद्विषयकः कश्चिञ्चमत्कारातिशयः । नामाक्षरेषु दाणीत्यनेन प्रश्नातिशयः । प्रीतौ हृदयमिति
रहस्यप्रीत्यतिशयश्च व्यज्यते । देव्याः पूर्वोकं सकलमेव तं दिवसमभवत् । अपराहे च मामेवावलम्ब्यालम्ब
तीकृत्य हिमगृहकान्निष्कम्य निर्गय यदृच्छया खेच्छया संचरन्ती व्रजन्ती निषिद्धपरिजना वहभं बालोद्यानं
ज़गाम गतवती । तत्र चेति । तस्मिन्बालोद्याने सुधया पूर्वोक्तया धवलां शुभ्रां प्रमदवनवेदिकामध्यारोहद-
धिरोहणं कृतवती । मरकतस्य या सोपानमाला तया कालिन्दी यमुना तस्या जलतरङ्गाः प्रचुरा यस्या एवंविधयेवँ ।
तस्यां चेति । प्रमदवनवेदिकायां मणिस्तम्भलक्षणो योऽवष्टम्भस्तस्मिन्स्थिता तदाधारेणासेदुषी । विरहाति -
शयं व्यञ्जयनाह - स्थित्वा चेति । मुहूर्तमिव स्थित्वावस्थितिं कृत्वा हृदयेन मनसा सह दीर्घकालमव-
धार्य निश्चित्य किमपि व्याहर्तुं कथयितुमिच्छन्त्यभिलषन्ती निश्चलं घृता तारका कनीनिका यस्मिन्, निष्पन्द
निश्चलं पक्ष्म नेत्ररोम यस्मिन्नेवभूतेन चक्षुषा नेत्रेण मे मम मुर्ख सुचिरं बहुकालं व्यलोकयदपश्यत् । विलोक-
यन्त्येव पश्यन्त्येव कृतः संकल्पो यया सा संकल्पकार्यमाह - मदनेति । मदन एवाग्निर्वहस्तं प्रवेष्टुं प्रवेश
कर्तुमिच्छन्ती वाञ्छन्ती। एतेन मदनदाहस्यासत्यतातिशयो द्योत्यते । अग्निप्रवेशस्य स्नानपूर्वकत्वादाह-
सस्ताविवेति । खेदाम्भसो घर्मंजलस्य स्रोतसि प्रवाहे सनाविव स्नानं कृतवतीन । एतेन खेदातिशयश्च
व्यज्यते । स्रोतसा तरलीकृतेव समकम्पताचलत् । कम्पितमङ्गं यस्या एवंविधा च पतनभियेव विषादेना-
गृह्यतोपादीयत ।
 
अथेत्यानन्तर्ये । विदितो ज्ञातोऽभिप्रायो यस्याः सैवंविधया मया तस्या कादम्बर्या मुखे विनिवेशिते
स्थापिते निष्कम्पे नयने ताभ्यां कृत्वा दत्तमवधानं यया सा तया 'देवि, मामाज्ञापयाज्ञां देही ति विज्ञापिते
 
टिप्प० – 1 कादम्बर्याः पुष्पशय्येत्यर्थः । 2 तस्मिन् समग्रेपि दिने, देव्या मय्येव एकचित्तताभव-
दित्याशयः। 3 एवंविधयेत्र सोपानमालया प्रमदवनवेदिकामध्यारोहदिति योजना ।
 
पाठा० -१ प्रतिनिवृत्ता. पल्लव:. ३ आरोह. ४ मणिस्थूणावष्टम्भास्थिताः ५ आलोकयन्ती ६ स्वेदाम्भ:-
स्रोतसेव.
 
9