कादम्बरी /501
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम-
लस्त मालिका केथ्रूरका दिपरिजन: ?' इति । साब्रवीत् -- 'देव, यथाज्ञापयसि भद्रम् । त्वामर्च-
प्रति शेखरीकृताञ्जलिना ससखीजना सपरिजना देवी कादम्बरी' इति । एवमुक्तवती पत्र-
लेखामादाय मन्दिराभ्यन्तरं विसर्जितराजलोको विवेश । तत्र चोत्ताम्यता मनसा धारयि-
तुम पारयन्कुतूहलमतिप्रीत्या दूरमुत्सारितपरिजनः प्रविश्यागारम चिरप्ररूढायाः स्थलकम
लिन्याः पृथुभिरुन्नालैः पलाशैर्विरचितात
पत्रकृत्याया अध्यास्य मध्यभागमभ्यतरस्य मरकत-
पता कायमानस्य पत्रमण्डपस्य तले चरणारविन्देन समुत्सार्य सुखप्रसुप्तं हंस मिथुनमुपवि
श्याप्राक्षीत्– 'पत्रलेखे, कैथय कथमसि स्थिता ? कियन्ति वा दिनानि ? कीदृशो था
देवीप्रसादः ? का वा गोष्ठ्यः समभवन ? कीदृश्यो वा कथा: समजायन्त ? को वातिशयेना,
उमान्स्मरति ? कस्य वा गरीयसि प्रीतिः ?" इति । एवं पृष्टा च व्यजिज्ञपत् - 'देव, दत्तावधानेन
ध्यताम्, यथा स्थितास्मि, याबन्ति वा दिनानि, यादृशो वा देवीप्रसादः, यथा वा गोष्ठ्यः सम
9.
2
,
स्तमालिका केयूरकादिपरिजनः । साब्रवीदवोचत् । हे देव, यथाज्ञापयस्याज्ञां करोषि तथा भद्रं कुशलं वर्तते ।
शेखरीकृतो योऽञ्जलिस्तन कृत्वा ससखीजना सवयस्या सपरिजना सपरिच्छदा च देवी कादम्बरी त्वां भवन्त -
मर्चयति पूजयति । इत्येवमुक्तक्तीं कथितवतीं पत्रलेखामादाय गृहीत्वा । विसर्जितेति । विसर्जितो राजलोको
येनैवंभूतो मन्दिराभ्यन्तरं विवेश प्रविष्टवान् । तत्र चेति । तस्मिन्नेव स्थल उत्ताम्यता विरहेणोत्तपता मनसा
चेतसा कुतूहलमाश्चर्यं धारयितुं सम्यक्तया ज्ञातुमपारयन्नशक्नुवन अतिप्रीत्यातिनेहेन दूरमुत्सारितो विस-
र्जितः परिजनो येनैवंभूतोऽगारं गृहं प्रविश्य प्रवेशं कृत्वा पृथुभिर्विस्तीर्णैरुन्नालैः पलाशैः पत्रैर्विरचितं विहित-
मातपत्रकृत्यं छत्रकार्य ययैवंविधायाः स्थलकमलिन्या मध्यभागमध्यास्याश्रित्यान्यतरस्य पूर्वोक्तस्य भिन्नस्य
मेरकतस्याश्म गर्भस्य या पताका वैजयन्ती तद्वदाचरमाणस्य पत्रमण्डपस्य तले सुखप्रसुप्तं हंसमिथुनं चरणारवि
न्द्रेन समुत्सार्थ दूरीकृत्य तत्रोपविश्या प्राक्षीत्प्रश्नमकार्षीत् । हे पत्रलेखे, कथय प्रतिपादय । कथं केन प्रकारेण
स्थितासि । कियन्ति वा दिनानि वासराणि । स्थितेति शेषः । कीदृशः पूर्वस्मादधिको न्यूनो वा देव्याः काद-
म्बर्याः प्रसादः प्रसन्नता । का वा गोष्ठयोऽन्योन्यसंलापाः समभवन्संजाताः । कीदृश्यो वा कथाः सखीनां
वार्ता: समजायन्त समभवन् । को वातिशयेन बाहुल्येनास्मान्स्मरति स्मरणविषयीकरोति । कस्य वा गरीयसि
महीयसि मंयि विषये प्रीतिः स्नेहः । इत्येवममुना प्रकारेण पृष्टा प्रश्नविषयीकृता च व्यजिज्ञपचयवेदयत् ।
तदेवाह — देवेति । हे देव, दत्तावधानेन चित्तैकाध्येण श्रूयतामाकर्ण्यताम् । तदेव दर्शयति-- यथेति ।
यावन्ति दिनान्यहं स्थितारिम, यादृशो वा देवीप्रसादः, यथा गोष्ठ्यः समभवन, याद्दश्यश्च कथाः समजायन्त,
'टिप्प० – 1 संवरीतुमशक्नुवन्नित्यर्थो वक्तव्यः । 2 अत्रापि मन्ये लेखकदोष एवं स्यात् । अन्यथा
पामराल्पामरोपि 'महीयसि मयि' इति स्वमुखेन म विकस्थेत । किञ्चैवं लेखकष्टीकाकारस्तु किम्, अक्षर-
मुखोपि न स्त्रीकर्तुमिष्यते । अस्तु. 'गरीयसी' इति दीर्घ प्रपठ्य 'मयि मद्विषये कस्य (कादम्बरीमहावे.
तादीनां मध्ये कस्य) गरीयसी अत्यधिका प्रीतिः अस्ति' इत्यर्थः कर्तव्यः । किन्तु 'गरीयसी' इति दीर्घ-
पाठो बुद्धिपूर्वकमेव नीचैः (पाठान्तरेषु ) पातित इति लिङ्गेन तु टीकाकारस्यैव तदिदं हस्तलाघवमनुमेयं
भवति । टीकायां सोयं पाठः पूर्वमुद्रितो दृष्ट इति मूलटीकयोः संवादाय हन्त ममापि 'गरीयसी' इत
तिरस्कार्यः, 'गरीयसि मयि' इति तु उपरिस्थाप्योऽभवदिति कथं वा निष्कृतिः कर्तव्या ? बिनाssi
टीकाकर्तुरक्षराणि वा कथं छिन्याम् ?
7
पाठा० -१ केयूरकादिः; केयूरकादिकः; २ त्वामेव. ३ अजिर; अगाररूढाया:.
४ उपर चितः ५ कृत्यस्य...
:
·
६ शयनमण्डपस्य तालस्य तले. ७ आगते मयि कथय. ८ यो वातिशयेन तन मरति यस्य वा त्वयि गरीयसी प्रीतिर-
स्तीति, ९ मयि गरीयसी.