This page has not been fully proofread.

पत्रलेखाया आगमनम् ]
 
कृतनमस्कारः करे गृहीत्वा विलासक्तीभवनमनीयत राज्ञा तयापि तथैव सर्वान्तःपुर
परिवारया प्रत्युद्गम्याभिनन्दितागमनः कृतागमनमङ्गलाचारो दिग्विजयसंबद्धाभिरेव
कथाभि: कंचित्कालं स्थित्वा शुकनासं द्रष्टुमाययौ । तत्राप्यसुनैव क्रमेण सुचिरं स्थित्वा
निवेध वैशम्पायनं स्कन्थावारवर्तिन कुशलिनमालोक्य च मनोरमामागत्य विलासवतीभवन
एव सर्वाः सानादिकाः परवश हैद किया निरवर्तयत् । अपराहे निजमेव भैवनमया-
सीत् । तत्र च रणरणकविद्यमानमानसः कादम्बर्या बिना न केवलमात्मानं स्वभवनमव-
न्तीनगर वा सकलमेव महीमण्डलं शून्यममन्यत । ततो गन्धर्वराजपुत्री वार्ताश्रवणोत्सुका
महोत्सवागिने प्सितबरप्राप्तिकालमियामोत्पत्तिसमयमिव पत्रलेखागमनं प्रत्यपालयत् ।
 
.7
 
ततः कतिपय दिवसापगमे मेघनादः पत्रलेखामादायागच्छत् उपानयबैनाम् । कृतनम,
Fi
शश: hit कब-
सादलब्धापरसौभाग्यामिव वल्लभतरतामुपागतामुत्थायातिशयदर्शितादरमालिलिङ्ग पत्र-
लेखाम्, मेचनादं च प्रणतं पृष्ठे कर किसलयेन पस्पर्श । समुपविष्टश्चानवीत् – 'पत्रलेखे
कथय तत्रभवत्या महाश्वेतायाः समदलेखाया देव्याः कादम्बर्याच कुशलम् । कुशली ना सक
 
पूर्वभागः ।
 
3
 
सवतीभवनं राज्ञानीयत प्राप्यत । तयापि विलासवत्यापि तथैव पूर्वोक्तरीत्यैव सर्वान्तः पुरस्य परिवारो यस्याः
सा तथा प्रत्युद्गम्याभिमुखमागत्याभिनन्दितं श्लाघितमागमनं यस्य सः । कृतो विहित आगमनस्य मङ्गलाचारः
क्रियाविशेषो यस्य सः । दिशां विजयः स्वायत्तीकरणं तत्संबद्धाभिस्तद्विषयिकाभिः कथाभिर्वार्ताभिः कंचित्कालं
मातुर्गृहे स्थित्वा झुकनासं द्रष्टुं विलोकितुमाययावाजगाम । तत्राप्यमुनैव क्रमेण पूर्वोक्तन्यायेन सुचिरं बहुकालं
स्थित्वा स्कन्धावारवर्तिनं कुशलिनं वैशम्पायनं निवेद्य विज्ञाप्यालोक्य निरीक्ष्य च मनोरमां वैशम्पायनजननीमा-
गय विलासवतीभवन एव सर्वाः समग्राः स्नानादिकाः क्रियाः परवंश इव परायत्त इव निरवर्तयनिवर्तितवान् ।
अपराहे मध्याहात्परतो निजमात्मीयमेव भवनं कुमारोऽयासीदगात् तत्र च रणरणकेनोत्कण्ठया खिद्यमानं
पीज्यमानं मानसं यस्यैवंविध: कादम्बर्या विना न केवलमात्मानं स्वभवनं स्वगृहमवन्तीनगरं सकलमेव महीम-
ण्डलं शून्य॒ममन्यतागण्यत । ततस्तदनन्तरं गन्धर्वराजपुत्र्या या वार्ता किंवदन्ती तस्याः श्रवणमाकर्णनं तत्रो-
त्सुक उत्कण्ठितश्च महोत्सवमिवोत्सवमिवेप्सितोऽभिलषितो यो वरस्तस्य प्राप्तिकालो लब्धिसमयस्तमिवामृतस्य
पीयूषस्योत्पत्तिसमयस्तमिव पत्रलेखागमनं प्रत्यपालयत्प्रत्यपेक्षांचक्रे ।
 

 
ततस्तदनन्तरं कतिपय दिवसापगमे कियत्कालातिकमे मेघनादः पत्रलेखामादाय गृहीत्बागच्छदाययौ ।
एनां पत्रलेखामुपानयच राज्ञः समीपे प्रापयच । कृतनमस्कारां च तां दूरादेव स्मितेनेषद्धसितेन च प्रकाशिता-
विष्कृता प्रीतिर्येनैवंभूतश्चन्द्रापीड: प्रकृत्या स्वभावेन वल्लभामपि कादम्बरी सकाशात्प्रसादेन लब्धमपरं सौभाग्यं
ययैवंविधामिवात एव वल्लभतरतामतिवल्लभतामुपागतां प्राप्तवतीमुत्थायातिशयदर्शितादरं यथा स्यात्तथा पत्रले-
खामालिलिङ्गो पगूहनं चकार । मेघनादं च प्रणतं पृष्ठे करकिसलयेन हस्तपल्लवेन पस्पर्श स्पर्श चकार । तदनन्तरं
समुपविष्टश्चेत्यब्रवीदित्यवोचत् । इतिशब्दयो समाह - पत्रलेखे इति । हे पत्रलेखे, क्रथय निवेदय तत्रभवत्याः
पूज्याया महाश्वेताया मदलेखया सहवर्तमानाया देव्याः कादम्बर्याश्च कुशलं वर्तते । कुशली वा सकलः समस्त-
टिप्प० -1 सर्वाप्यन्तःपुराणि परिवारो यस्य इत्यर्थो नोध्यः । 2 भगणयत् इति स्यात् ।
 
-
 
पाठा० । -१ प्रत्युम ३ एव. ३ कुमारभवनम् ४ समुपविष्टां चः समुपविष्टा च तामू. ५ कुशली वा बाह्यः
सकल:; कुशलवानन्यः सकळ:.