2023-09-13 03:16:11 by Lakshmainarayana achar

This page has been fully proofread twice.

भरणकिरणजालकान्तरितावयवमिन्द्रायुधसहस्रसंछादिताष्ट- दिग्भागमिव [^१]जलधरदिवसम्, [^२]अवलम्बितस्थूलमुक्ता- कलापस्य कनकशृङ्खलानियमितमणिदण्डिकाचतुष्टयस्य गगनसिन्धुफेनपटल [^३]पाण्डुरस्य नातिमहतो दुकूलवितानस्या- धस्ता [^४]दिन्दुकान्तपर्यङ्किकानिषण्णम्, उद्धूयमान [^५]सु-
वर्णदण्डचामरकलापम्, [^६]उन्मयूखमुखकान्तिविजय- पराभवप्रणते शशिनीव [^७]स्फटिकपादपीठे विन्यस्तवामपादम्, इन्द्रनीलमणिकुट्टिमप्रभासंपर्कश्यामायमानैः प्रणतरिपुनिःश्वास- मलिनीकृतै [^1]रिव चरणनखमयूख [^८]जालैरुपशोभमानम्, आसनोल्लसितपद्मरागकिरणपाटलीकृतेनाचिरमृदितमधुकैटभरु-धिरारुणेन हरिमिवोरुयुगलेन विराजमानम्, अमृतफेनधवले गोरोचनालिखितहंसमिथुनसनाथपर्यन्ते चारुचामर [^९]वायुप्रनर्तितान्तदेशे दुकूले वसानम्, अतिसुरभिचन्दना -
 
[टि]-- णानि तेषां यानि किरणजालकानि । जालान्येव जालकानि । स्वार्थे कप् । मरीचिमण्डलानि तैरन्तरिता आच्छादिता अवयवा अपघना यस्य स तम् । नीलपीतादिवर्णयोगात् । तत्रोपमानमाह - इन्द्रेति । इन्द्रायुधानां हरिकार्मुकाणां यत्सहस्रं तेन संछादिता- स्तिरोहिता अष्टौ दिग्भागाः ककुभां प्रदेशा यस्मिंस्तथाभूतं जलधर दिवसमिव प्रावृड्दिनमिव । पुनस्तमेव नृपं विशिष्टि - नातीति । नातिमहतः स्थानोचितप्रमाणस्य दुकूलं क्षौमं तस्य वितानमुल्लोचः । 'उल्लोचो वितानं कदकोऽपि' इत्यभिधानचिन्तामणिः तस्याधस्तात्तदध:प्रदेश इन्दुकान्तानां चन्द्रकान्तमणीनां या पर्यङ्कि- का मञ्चिका तस्यां निषण्णमुपविष्टम् । अथ वितानं विशेषयन्नाह -
अवेति । अवलम्बित आश्रितः स्थूलानां स्थविष्ठानां मुक्तानां रसोद्भवानां कलापो जालं येन स तथा । कस्य तस्य । कनकेति । कनकं सुवर्णं तस्य या शृङ्खला बन्धनरश्मयस्तैर्नियमिता निबद्धा मणिदण्डिका रत्नखचितायष्टयस्तासां चतुष्टयं यस्मिन्स तथा तस्य । गगनेति । गगनसिन्धोः स्वर्णद्याः फेनो डिण्डीरः । 'डिण्डीरोऽब्धि-
कफः फेनः' इत्यभिधानचिन्तामणिः । तस्य पटलं समूहस्तद्वत् पाण्डुरं शुभ्रं तस्य । पुनर्नृपं विशिनष्टि - उद्धूयेति । उद्धूयमानो व्यज्यमानः सुवर्णस्य काञ्चनस्य दण्डोऽवलम्बनयष्टिर्येष्वेतादृशानि चामराणि प्रकीर्णकानि तेषां कलापः समूहो यस्य स तम् । स्फटिकेति । स्फटिकानां स्वच्छमणीनां यत्पादपीठं चरणस्थापनस्थलं तत्र विन्यस्तः स्थापितो वामपादः सव्यचरणो येन स तथा तम् । पादपीठं विशेषयन्नाह - शशिनीति । शशिनीय
चन्द्रमसीव । अथ शशिनं विशेषयन्नाह - उन्मयूखेति । उदूर्ध्वं मयूखाः किरणा यस्मिन्नेतादृशं यन्मुखं तस्य या कान्तिदीप्तिस्तया यो विजयो जयस्तेन यः पराभवस्तिरस्कारस्तेन प्रणते पादसंलग्ने । पुनर्नृपं विशेषयन्नाह -चरणेति । चरणानं पादानां ये नखाः पुनर्भवास्तेषां मयूखाः किरणास्तेषां जालानि समूहास्तैरुपशोभमानं
भासमानम् । मयूखजालं विशेषयन्नाह - इन्द्रेति । इन्द्रनीलमणीना- मिन्द्रमणीनां या कुट्टिमप्रभा बद्धभूमिकान्तिस्तस्याः संपर्को मिश्रभावस्तेन श्यामायमानैः श्यामवदाचरमाणैः । कीदृशैरिव । प्रणतेति । प्रणता नता ये रिपवः शत्रवस्तेषां ये निःश्वासाश्चे [^2]तनाः तैर्मलिनीकृतैर्मालिन्यं प्राप्तैरिव पुनर्नृपं विशेषयन्नाह - ऊरू इति । ऊरू सक्थी तयोर्युगलं तेन विराजमानं शोभमानम् । ऊरुयुगलं विशिष्टि - आसनेति । आसन उपवेशनस्थल उल्लसिता देदीप्यमाना ये पद्मरागा लोहितमणयस्तेषां ये किरणा मयूखास्तैः पाटलीकृतेन । श्वेतरक्तीकृतेनेत्यर्थः । 'श्वेतरक्तस्तु पाटलः' इति कोशः । कमिव । अचिरेति । अचिरं त्वरितं मृदितो मर्दितो यो
मधुकैटभो[^3] दैत्यविशेषस्तस्य यद्रुधिरं रक्तं तेनारुणेन रक्तेनोरुयुगलेन विराजमानं हरिमिव कृष्णमिव । पुनः किं
कुर्वाणं नुपम् । वसानं दधानम् । किम् । दुकूले क्षीरोदवस्त्रे । अथैते विशिष्टि - अमृतेति । अमृतस्य सुधायाः फेनस्तद्वद्धवले शुभ्रे । गोरोचनेति । गोरोचना गोपित्तं तेन लिखितानि यानि हंस मिथुनानि सितच्छदयुग्मानि तैः सनाथः सहितः पर्यन्तः प्रान्तदेशो ययोस्ते । चार्विति । चारुणी च ते चामरे च चारुचामरे
तयोर्वायुना समीरणेन प्रनर्तिता आन्दोलिता अन्तदेशाः प्रान्तदेशा ययोस्ते । पुनर्नृपं विशेषयन्नाह - अतीति ।
 
 
[^1]F. उत्प्रेक्षालंकारः ।
[^2]F. मुखपवना इत्यर्थः ।
[^3]F. यौ मधु-कैटभौ दैत्यविशेषौ । इत्युचितम् ।
 
[^१]G. जलधरसमय.
[^२]G. आलम्बित.
[^३]G. पाण्डरस्य.
[^४]G. इन्दुकान्तमणि.
[^५]G. कनक.
[^६]G. उन्मयूखकान्तिनिचयपराभव; उन्मयूखमुखविजयपराभव; उन्मयूखमुखकान्तिविजिते पराभव.
[^७]G. स्फाटिके.
[^८]G. जालकै:.
[^९]G. पवननर्तित.
[^१]G. अन्तर्देशे.
का० ३