कादम्बरी /50
This page has not been fully proofread.
शुद्धकवर्णनम् ]
पूर्वभागः ।
जैलघर दिवसम्,
गगनसिन्धुफेन-
भरणकिरणजालकान्तरिता वयवमिन्द्रायुधसहस्रसंछादिताष्टदिग्भागमिव
अवलम्बित स्थूलमुक्ताकलापस्य कनकला नियमितमणिदण्डिकाचतुष्टयस्य
पटलपाण्डुरस्य नातिमहतो दुकूलवितानस्याघस्तादि दुकान्तपर्यङ्किकानिषण्णम्, उद्धयमानसु-
वर्णदण्डचामरकलापम्, उन्मयूखमुखकान्तिविजयपराभवप्रणते शशिनीव स्फटिके पादपीठे
विन्यस्तवामपादम्, इन्द्रनीलमणिकुट्टिमप्रभासंपर्कइयामायमानैः प्रणतरिपुनिःश्वासमलिनीक-
तैरिव चरणनखमयूखजालैरुपशोभमानम्, आसनोल्लसितपद्मरागकिरणपाटलीकृतेना चिरमृ.
दितमधुकैटभरुधिरारुणेन हरिमिवोरुयुगलेन विराजमानम्, अमृतफेनधवले गोरोचनालिखि-
तहंस मिथुनसनाथपर्यन्ते चारुचामरवायुप्रनर्तितान्तदेशे दुकूले वसानम्, अतिसुरभिचन्दना -
णानि तेषां यानि किरणजालकानि । जालान्येव जालकानि । स्वार्थे कप् । मरीचिमण्डलानि तैरन्तरिता आच्छा-
दिता अवयवा अपघना यस्य स तम् । नीलपीतादिवर्णयोगात् । तत्रोपमानमाह - इन्द्रेति । इन्द्रायुधानां
हरिकार्मुकाणां यत्सहस्रं तेन संछादितास्तिरोहिता अष्टौ दिग्भागाः ककुभां प्रदेशा यस्मिंस्तथाभूतं जलधर दिव
समिव प्रावृइदिन मिव । पुनस्तमेव नृपं विशिष्टि - नातीति । नातिमहतः स्थानोचितप्रमाणस्य दुकूलं क्षौम
तस्य वितानमुल्लोचः । 'उल्लोचो वितानं कदकोऽपि' इत्यभिधानचिन्तामणिः तस्याधस्तात्तदध: प्रदेश इन्दुका-
न्तानां चन्द्रकान्तमणीनां या पर्यक्किका मञ्चिका तस्यां निषण्णमुपविष्टम् । अथ वितानं विशेषयन्नाह -
अवेति । अवलम्बित आश्रितः स्थूलानां स्थविष्ठानां मुक्तानां रसोद्भवानां कलापो जालं येन स तथा । कस्य
तस्य । कनकेति । कनकं सुवर्ण तस्य या शृङ्खला बन्धन रश्मयस्तैर्नियमिता निबद्धा मणिदण्डिका रत्नखचिता
यष्टयस्तासां चतुष्टयं यस्मिन्स तथा तस्य । गगनेति । गगनसिन्धोः स्वर्णद्याः फेनो डिण्डीरः । 'डिण्डीरोइब्धि-
कफः फेनः' इत्यभिधानचिन्तामणिः । तस्य पटलं समूहस्तद्वत् पाण्डुरं शुश्रं तस्य । पुनर्नृपं विशिनष्टि - उद्धू-
येति । उद्धूयमानो व्यज्यमानः सुवर्णस्य काञ्चनस्य दण्डोऽवलम्बनयष्टिर्येष्वेतादृशानि चामराणि प्रकीर्णका नि
तेषां कलापः समूहो यस्य स तम् । स्फटिकेति । स्फटिकानां स्वच्छ मणीनां यत्पादपीठं चरणस्थापनस्थलं तत्र
विन्यस्तः स्थापितो वामपादः सव्यचरणो येन स तथा तम् । पादपीठं विशेषयन्नाह - शशिनीति । शशिनीय
चन्द्रमसीव । अथ शशिनं विशेषयन्नाह - उन्मयूखेति । उदूर्ध्वं मयूखाः किरणा यस्मिन्नतादृशं यन्मुखं तस्य
या कान्तिदीप्तिस्खया यो विजयो जयस्तेन यः पराभवस्तिरस्कारस्तेन प्रणते पादसंलग्ने । पुनर्नृपं विशेषयन्नाह -
खरणेति । चरणानो पादानां ये नखाः पुनर्भवास्तेषां मयूखाः किरणास्तेषां जालानि समूहास्तैरुपशोभमानं
भासमानम् । मयूखजालं विशेषयन्नाह - इन्द्रेति । इन्द्रनीलमणीना मिन्द्रमणीनां या कुट्टिमप्रभा बद्धभूमिका-
न्तिस्तस्याः संपर्क मिश्रभावस्तेन श्यामायमानैः श्यामवदाचरमाणैः । कीदृशैरिव । प्रणतेति ! प्रणता नता ये
दिपवः शत्रवस्तषां ये निःश्वासाश्चेतैनाः तैर्मलिनीकृतैर्मालिन्यं प्राप्तैरिव पुनर्नृपं विशेषयन्नाह - ऊरू
हति । ऊरू सक्थी तयोर्युगलं तेन विराजमानं शोभमानम् । ऊरुयुगलं विशिष्टि - आसनेति । आसन
उपवेशनस्थल उल्लसिता देदीप्यमाना ये पद्मरागा लोहितमणयस्तषां ये किरणा मयूखास्तैः पाटलीकृतेन । श्वेत-
रक्तीकृतेनेत्यर्थः । 'श्वेतरक्तस्तु पाटलः' इति कोशः । कमिव । अतिरेति । अचिरं त्वरितं मृदितो मर्दितो यो
मधुकैटभो दैत्यविशेषस्तस्य यदुधिरं रक्तं तेनारुणेन रक्तेनोरुयुगलेन विराजमानं हरिमिव कृष्णमिव । पुनः किं
कुर्वाणं नुपम् । वसानं दधानम् । किम् । दुकूले क्षीरोदवस्त्रे । अथैते विशिष्टि - अमृतेति । अमृतस्य
सुधायाः फेनस्तद्ब्रद्धवले शुभ्रे । गोरोचनेति । गोरोचना गोपित्तं तेन लिखितानि यानि हंस मिथुनानि सितच्छ-
दयुग्मानि तैः सनाथः सहितः पर्यन्तः प्रान्तदेशो ययोस्ते । चार्विति । चारुणी च ते चामरे च चारुचामरे
तयोर्वायुना समीरणेन प्रनर्तिता आन्दोलिता अन्तदेशाः प्रान्तदेशा ययोस्ते । पुनर्नृपं विशेषयन्नाह - अतीति ।
टिप्व० -- 1 उत्प्रेक्षालंकारः । 2 मुखपवना इत्यर्थः । 3 यो मधु-कैटभौ दैत्य विशेषौ । इत्युचितम् ।
d
a
पाठा० -१ जलघरसमय. २ आलम्बित ३ पाण्डरस्य ४ इन्दुकान्तमणि, ५ कनक ६ उन्मयूख कान्तिनिचयपराभव;
उन्मयूखमुखविजयपराभव; उन्मयूखमुखकान्तिविजिते पराभव. ७ स्फाटिके, ८ जालकै : ९ पवननर्तित १० अन्तदेंशे.
का० ३