This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
जगाम । आकस्मिकागमनप्रहृष्टसंभ्रान्तानां पौराणामर्धकमलानीव नमस्काराञ्जलिसहस्राणि
प्रतीच्छन्नतर्कित एव विवेश नगरीम् ।
 
अहमहमिकया व प्रधावितानतिरभसहर्षविहलाम्परिजनान् 'द्वारि देव, चन्द्रापीडो
वर्तते' इत्युपलभ्यास्य पिता निर्भरानन्दमन्दगमनो मन्दर इव क्षीरोदजलमुत्तरीयांशुक
ममलमागलितमाकर्षन्, प्रहर्षनेत्रजलबिन्दुवर्षी मुक्तमुक्ताफलासार इव कल्पपादपः, प्रत्या-
सन्नवर्तिभिर्जरापाण्डुमौलिभिश्चन्दन विलेपनैरनुपहतक्षौमधारिभिः केयूरिभिरुष्णीषिभिः
 
किरीटिभि: शेखरिभिर्बहुकैलासामिव बहुक्षीरोदामिव क्षितिं दर्शयद्धिः प्रतिपन्नासिवेत्र-
च्छत्र केतु चामरैरनु गम्यमानो राजसहस्रैश्चरणाभ्यामेव प्रत्युजगाम । हैा च पितरं दूरान
देगावतीर्य वाजिनम्बूडामणिमरीचिमालिना मौलिना महीमगच्छत् । अथ प्रसारितभुजेन.
'पोहि' इत्याहूय पित्रा गाढमुपगूढः सुचिरं परिष्वज्य तत्कालसंनिहितानां च माननीयानां
 
लामाजगामाययौ । आकस्मिकेति । आकस्मिकमसंभावितं यदागमनं तेन प्रहृष्टाः प्रमुदिताः संत्रान्ताश्च में
पौरास्तेषामर्धकमलानीव नमस्काराजलिसहस्राणि प्रतीच्छन्गृहन्नतर्कित एवासंभावित एव नगरीमुज्जयिनीं विवेश
प्रवेशं चकार ।
 
sha
 
अहं पूर्वमहं पूर्वमित्यहमहमिका तया प्रधावितानुचलितामतिरभसैन जनितो यो हर्षः प्रमोदस्तेन विहला
व्याकुलान्परिंजनान्परिच्छदान्द्वारि द्वारदेशे हे देव, चन्द्रापीडो वर्तते इत्युपलभ्य प्राप्यास्य चन्द्रापीडस्य पिता
तारापीडो निर्भरानन्छेम निबिडप्रमोवेन मन्द गमनं यस्यैवंभूतोऽसलं निर्मलमागलितमीषत्स्वस्थाना द्रष्टभुत्तरी-
यां शुकमुपसंव्या नवरात्र
माकर्षैयन्स्वस्थानं नयन् । राज्ञो गौरत्वसाम्यादुत्तरीयांशुकस्य शुभ्रत्वसाम्यादाह
- मन्द
ऐति । मन्दर इव मेरुरिव क्षीरोदजलम् । प्रहर्षेति । प्रहर्षात्प्रमोदाक्षेत्रजलबिन्दून्वर्षतीत्येवंशीलः स तथा ।
जलबिन्दूनां शुचित्वे मुक्ताफलसाम्यमाह - मुक्तेति । मुक्तो मुक्ताफलानामासारो येनैवंविध इन कल्पपादपों
मम्वरतरुः । प्रत्यासन्नवर्तिभिर्जरा विससा तया पाण्डवः श्वेता मौलयो येषां तैश्चन्दनानां विलेपनान्यङ्गरागा येषा
तैः । अन्विति । अनुपहतमच्छिन्नं यत्क्षौमं दुकूलं तद्धारिभिः, केयूरमजदं विद्यते येषां तैः, उष्णीषं पुष्पवास
बिद्यते येषां तैः, किरीटं कोटीरं विद्यते येषां तैः, शेखर आपीडो विद्यते येषां तैः । अत एवं बहुकैलासानिव ।
शेखराणां शुभ्रत्वादिति भावः । बहुक्षीरोदामिव । क्षौमादीनामतिशुभ्रत्वेन क्षीरोदसादृश्यात् । इत्येतादृशीं क्षितिं
सुधां दर्शयद्भिः प्रकाशयद्भिः । प्रतीति । प्रतिपन्नानि स्वीकृतानि वेत्रच्छत्रकेतु चामराणि यैरेवंविधै राजस
हखैरनुगम्यमामः वरणाभ्यां पादाभ्यामेव प्रत्युज्जगामाभिमुखं प्रतस्थे । दृष्ट्वा च पितरं जनकं दूरादेव वाजि-
नोऽश्वादवतीर्य चूडामणिः शिरोमणिस्तस्य मरीचयः कान्तयस्ता मलति धारयतीत्येवंशीलेन मौलिना मस्तकेन
महीं वसुधामगच्छत् । पञ्चाङ्गं प्रणाममकरोदित्यर्थः । अथेति । प्रणामानन्तरं प्रसारितभुजेन विस्तारितवाहुमा
पित्रा एहि एहि इत्याहूय गाढमत्यर्थमुपगूढ आलिङ्गितः सुचिरं बहुकालं परिष्वज्यालिङ्ग्य तस्मिन्काले संनिहि-
तानां समीपगतानां च माननीयानां पूज्यानां कृतो विहितो नमस्कारो येनैवंभूतश्चन्द्रापीड: करे गृहीत्वा बिला-
टिप्प०-1 सविशेषणः 'परिजनान्' इति द्वितीयान्तपाठी लेखकदोषः स्यान्मन्ये, अन्यथा टीकाकर्तु
निस्सीममज्ञानं सिध्येत् । अस्तु । 'परिजनात्' इति पाठः । परिजनात उपलभ्य संवाद प्राप्य । 2 कह
पादप इव इत्यम्बयो बोध्यः । 3 चूडामणेर्मरीचिमाला भस्यस्य ताशेन, इत्येवार्थ उचितः ।
 
पाठा० -१ आविवेश. २ धारिसिहरिभिः ३ चन्द्रापीडोऽपि दृष्ट्राच. ४ आदरादाहूय ५ सुचिरं गाढमुप
गूढ:. ६ माननीयानाममालानां महीपतीनां च क्रमेण
 
i