This page has not been fully proofread.

उज्जयिनीप्रवेशः ]
 
पूर्वभागः ।
 
४६५.
 
कल्पितयामिके सुषुप्सति सैनिकजने, कृतबहुपावकप्रभापीततमसि दिवस इव विराजमाने
सेनानिवेशे चन्द्रापीडः परिजनेनैकदेशे संयतस्येन्द्रायुधस्य पुरः परिकल्पितं प्रतीहारनि-
वेदितं शयनीयमगात् । निषण्णस्य चास्य तत्क्षणमेव पस्पर्श दुःखासिका हृदयम् । अरतिगृ-
हीतश्च विसर्जयांबभूव राजलोकम् । अतिवल्लभानपि नाललाप पार्श्वस्थान् । निमीलितलोचनो
मुहुर्मुहुर्मनसा जगाम किंपुरुषविषयम् । अनन्यचेताः सस्मार हेमेकूटस्य । निष्कारणबा-
न्धव तामचिन्तयन्महाश्वेतापादानाम् । जीवितै फलमभिललाप पुनः पुनः कादम्बरीदर्शनम् ।
अपगताभिमानपेशलाय नितरामस्पृहयन्मदलेखापरिचयाय । तमालिकां द्रष्टुमाचकाङ्क्ष ।
केयूरकागमनमुत्प्रेक्षत । हिमगृहकमपश्यत् । उष्णमायतं पुनरुक्तं निशश्वास । बबन्ध बान्ध-
वेभ्यश्चधिकां प्रीतिं शेषहारे । पश्चात्स्थितां पुण्यभागिनीममन्यत पत्रलेखाम् । एवं चानुप-
जातनिद्र एव तामनयन्निशाम् । उपसि चोत्थाय तस्य जरद्रविडधार्मिकस्येच्छया निसृष्ट-
नविसरैः पूरयित्वा मनोरथमभिमतमभिरमणीयेषु प्रदेशेषु निवसन्नल्पैरेवाहोभिरुज्जयिनीमा-
A
 
यामिका यस्मिन्नविधे सैनिकजने सुषुप्सति स्वपितुमिच्छति सति । कृतो विहितो यो बहुपावकः प्रभूताग्निस्तस्य
प्रभया पीतं तमो यस्मिन्नेवं विधे दिनावसाने दिवस इव विराजमाने सेनानिवेशे सति । निषण्णस्य चेति ।
अस्य चन्द्रापीडस्य निषण्णस्योपविष्टस्य तत्क्षणमेव दुःखमासतेऽस्यामिति दुःखासिकानुर तिर्हृदयं पस्पर्श स्पृष्ट-
वती । अरतीति । अरत्योद्वेगेन गृहीत आकान्तश्च राजलोकं विसर्जयांबभूव शयनायानुज्ञां प्रदत्तवान् ।
अतीति । अतिवल्लभानप्यतिप्रियानपि पार्श्वस्थान्समीपवर्तिनो नाललाप न बभाषे । निमीलिते लोचने यस्यैवंभूतो
मुहुर्मुहुः किंपुरुषविषयं मनसा चेतसा कृत्वा जगाम गतवात् । अनन्येति । न विद्यतेऽन्यस्मिन् चेतः चित्तं
यस्यैवंभूतो हेमकूटस्य सस्मार सरणं चकार । 'मातुः स्मरति' इतिवत् हेमकूटस्येति षष्ठी । निष्कार-
जेति । महाश्वेतापादानां निष्कारणबान्धवतां निर्हेतुक स्वजनतामचिन्तयत् । पुनःपुनर्वारंवार कादम्बरी
दर्शनमभिललाष वाञ्छयामास । कीदृशम् । जीवितस्य फलमिव फलम् । अपगतेति । अपगतो दूरीभूतो
योऽभिमानो गर्वस्तेन पेशलाय हृद्याय । 'पेशलं हृद्यं सुन्दरम्' इति कोशः । मदेति । मदलेखया सह यःः
परिचयः संस्तवस्तस्मै नितरां अस्पृहयत्स्पृहां चकार । तमालिकां द्रष्टुं विलोकयितुमाचकाङ्क्षा भिललाष । केयूर
कस्यागमनमुत्प्रेक्षतोङ्ग्यत । हिमगृहकमपश्यत् । उष्णमुष्णमायतं विस्तीर्ण पुनरुक्तं वारंवार निशश्वास निश्वासा-
न्मुमोच । बान्धवेभ्यः स्वजनेभ्योधिकां प्रीतिं शेषाभिधाने हारे बबन्ध बन्धितवान् । तदर्पितत्वेन
समाधिक्यमिति भावः । पश्चादिति । पश्चात्स्थितां पुण्यभागिनीं पत्रलेखाममन्यत ज्ञातवान् । एवं चेति ।
एवममुना प्रकारेण अनुपजातानागता निद्रा प्रमीला यस्यैवंभूत एव निशां रात्रिमनयद्यापितवान् । उपसि
न्च प्रभात उत्थाय तस्य पूर्वव्यावर्णितस्वरूपस्य जरद्रविडधार्मिकस्येच्छया निसृष्टैर्दत्तैर्धन विसरैर्द्रव्य समूहै
नोरथमभिलाषं पूरयित्वाभिरमणीयेषु प्रदेशेषु निवसन्निवासं कुर्वन्नल्पैरहोभिरेव स्तोकैरेव दिनैरुज्जयिनीं विशा-
4
 
टिप्प० - 1 भरतिरिति स्यात् । वस्तुतस्तु दुःखस्य आसनम् जासिका अर्थात् दुःखप्राप्तिरित्यर्थः,
'पर्यायाहत्पत्तिषु ण्वच्' इति वुच् । 2 तपस्वितया गौरववशा पादशब्दयोगो बहुत्वं च । वस्तुतस्तु -
'प्रसादानाम्' इत्युचित इव प्रतिभाति । 3 नवान्छेलेवोचितम्, किमु स्वार्थे णिच् ? 4 स्वस्य दशया
कादम्बर्या अपि दशां कल्पयित्वा तत् ( काद ० ) द्वारा तत्प्रेषणं स्वमनसैव समभावयदित्यर्थः । टीका-
कारस्तु विचार्यः ।
 
• पाठा०-१. प्रभाप्रणाशिततमसि दिवसायमाने सेनानिवेशे २ हेमकूटं; हेमकूटस्य रम्यताम् ३ उत्कण्ठितोऽचि-
न्तयत्. ४ प्रसादानांम्. ५ जीवित भिव. च मुहुर्निशश्वास. ७ खेच्छाविसृष्ट: ८ मनोरथान भिमतेष्वतिरमणीयेषु;
मनोरथमभिमतेष्वतिर मणीयेषु.
 
५९ का०