This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
१६४
प्रणम्य प्रशान्तोद्देशदर्शनकुतूहलेन परिभ्रमन्नु चैरारटन्तमाकोशन्तं च कुपितं द्रविडधार्मि-
कमेकदेशे ददर्श । दृष्ट्वा च कादम्बरीविरहोत्कण्ठोद्वेगदूयमानोऽपि सुचिरं जहास । न्यवार-
यब तेन सार्थ प्रारब्धकलहानुपहसतः स्वसैनिकान् । उपसान्त्वनैश्च कथमपि प्रियालापश-
तानुनयैः प्रशममुपनीय क्रमेण जन्मभूमिं जातिं विद्यां च कलत्रमपत्यानि विभवं वयःप्रमाणं
प्रव्रज्या याच कारणं स्वयमेव पप्रच्छ । पृष्टश्चासाववर्णयदात्मानम् । अतीतस्वशौर्य रूप विभव-
चर्णनवाचालेन तेन सुतरामयत राजपुत्रः । विरहातुरहृदयस्य विनोदनतामिवागात् ।
उपजातपरिचयश्चास्मै ताम्बूलमदापयत् । अस्तमुपगते च भगवति सप्तसप्तौ, आवासितेषु
यथासंपन्न पादपतलेषु राजसूनुषु, शाखावसक्ततेपनीयपर्याणेषु क्षितितललुठनपांसुलसटावधू-
ननानुमितोत्साहेषु गृहीतकतिपयशष्पकवलेषु पीतोदकेषु सानार्द्रपृष्ठतया विगतश्रमेषु पुरो-
निखातकुन्तयष्टिषु संयतेषु वाजिषु, वाजिसमीपविरचितपर्णस्तरे च दिवसगमन खिन्नपरि -
 
शान्तो य उद्देशस्तस्य दर्शनस्य यत्कुतूहलं तेन परिभ्रम चितस्ततः संचरन् । उच्चैरुच्चस्व रेणारटन्तं पूरकुर्वन्त
माकोशन्तं च कुपितं द्रविडधार्मिकमेकदेश एकस्मिन्प्रदेशे ददर्शेक्षांचके । दृष्ट्वा विलोक्य । कादम्बरीति ।
कादम्बर्या विरहे योत्कण्ठा तज्जनितो य उद्वेगस्तेन दूयमानोऽपि पीड्यमानोऽपि सुचिरं चिरकालं यावज्जहास
हास्यं चक्रे । न्यवारयच निवारणं कृतवांश्च । तेनेति । द्रविडधार्मिकेण सार्ध प्रारब्धकलहान्स्वसैनिकानुप-
हसतः । उपेति । उपसान्त्वनैः सामभिः प्रियालापानामिष्टवचनानां शतेनानुनयैरनुकूलनैश्च कथमपि महता
कष्टेन प्रशमं शान्तभावमुपनीय प्राप्य जन्मभूमिमुत्पत्तिस्थलम्, जातिं ब्राह्मणत्वादिकाम्, वियां वेदाध्य-
ग्रनादिरूपाम्, कलत्रं स्त्री, अपत्यानि पुत्रपुत्रीरूपाणि, विभवमैश्वर्यम्, वयःप्रमाणं वर्षपरिमाणम्, प्रव्रज्या
याच दीक्षायाश्च कारणं निदानम् एतानि स्वयमेव पप्रच्छ प्रश्नविषयीचक्रे । पृष्टश्चासौ द्रविडधार्मिक
आत्मानं स्वमवर्णयद्वर्णितवान् । अतीति । अतीतं व्यतिक्रान्तं यत्स्वकीयं शौर्य पराक्रमः, रूपं
सौन्दर्यम्, विभव ऐश्वर्य, तेषां वर्णनं तत्र वाचालेन वाचाटेन तेन द्रविडधार्मिकेण राजपुत्रश्चन्द्रापीड:
सुतरामतिशयेनारज्यतानुरको बभूव । विरहेति । विरहेणारं हृदयं यस्यैवंभूतस्य राज्ञो विनो-
दनस्य भावो विनोदनता तामिव सोऽगात् । राज्ञश्चित्तविश्रान्ति स्थान (ग) तां जगामेत्यर्थः । उपेति । उपजातः
प्राप्त परिचयो यस्यैवंविधोऽसौ द्रविडधार्मिकाय ताम्बूलं नागवल्लीदलमदापयापितवान् । अथ च भगवति
सप्तसप्तौ सूर्येऽस्तमुपगते सति चन्द्रापीड: परिजनेन सेवकजनेनैकदेश एकत्रस्थले संयतस्य बद्धस्येन्द्रायुधस्य
पुरः परिकल्पितं प्रतीहारेण निवेदितं ज्ञापितं शयनीयं तल्पमंगादित्यन्वयः । केषु सत्सु । राजसूनुषु
नृपपुत्रेषु यथासंपन्नाः पुष्पफलसमृद्धा ये पादपा वृक्षास्तेषां तलेष्वावासितेषु वसतिं प्रापितेषु सत्सु । पुनः
केषु सत्सु । वाजिषु तुरङ्गमेषु संयतेषु बद्धेषु सत्सु । अथ वाजिविशेषणानि - शाखेति । शाखायामवसक्ता-
"न्यवलम्बितानि तपनीयस्य सुवर्णस्य पर्याणानि पल्ययनानि येषां तेषु । क्षितीति । क्षितितलं पृथ्वीतलं तत्र
लठनेन पांसुला याः सटा: केशसंहतयस्तासामवधूननेन कम्पेनानुमित उत्साहो येषां तेषु । गृहीतेति ।
• गृहीताः कतिपये कियन्तः शष्पकवला. बालतृणप्रासा यैस्तेषु । पीतान्युदकानि यैस्तेषु । खानेति । सानेनाई
पृष्ठं येषां तेषां भावस्तत्ता तथा विगतो दूरीभूतः श्रमो येषां तेषु । पुर इति । पुरोनिखाता अग्रे स्थापिताः
. कुन्तयष्टयो येषां तेषु । पुनः कस्मिन्सति । वाजिसमीपेऽश्वसविधे विरचितः कल्पितः पर्णानां पत्राणां प्रस्तरः
. संस्तरो येन तस्मिन् । दिवसं यावगमनेन खिक्षा पदातिजना: परिकस्पैिताः प्रथमप्रहरक्रमेण संस्थापिता
 
टिप्प० - 1 यथा प्राप्ता इत्यर्थः । 2 अविचारितोयं पाठः । 'परिवर्तितयामिके' इत्युचितम् । गमनेन
केचित्खिला अत एवान्ये परिवर्तिता ग्रामिका येन तस्मिमिति तदर्थः ।
 
पाठा० -१ प्रशस्तदेवादर्शन. २ संरब्धः समारब्ध. ३ अतीतस्वसौन्दर्यरूपविभववर्णनावाचालेन. ४ तच्चरितं
विनोदनताम् ५ अपनीत ६ स्रस्तरे, ७ खिन्ने.