This page has not been fully proofread.

द्रविडधार्मिकपरिचयः ]
 
पूर्वभागः ।
 
द्वारोपितवृद्धदासीविवाहप्राप्तविडम्बनेन, अनेकायतनप्रतिशयितनिष्फलोत्थानेन, दौस्थित्यमपि
विविधज्याधिपरिवृतं स्वकुटुम्बमिबोहता, मूर्खतामपि बहुव्यसनानुगतां प्रसूतानेकापत्या-
मिव दर्शयता, क्रोधमध्यनेक दण्डाभिघात निर्मितबहुगात्रगण्डकं फलितमिव प्रकाशयता,
हेशमपि सर्वावयवध्वलितदीपिका दाहव्रण विभावित बहुमुखमिव प्रकटयता, परिभवमपि
निष्कारणाकृष्टजनपददत्तपदाकृष्टिशतं प्रवाहमिद दधानेन, शुष्कवनलता विनिर्मितबृहत्कुसुम-
करण्डकेन, वेणुलतारचितपुष्प पातना डुशिकेन, क्षणमध्येमुक्तकालकम्बलखण्डखोलेन जरहू-
विडधार्मिकेणाधिष्ठितां चण्डिकामपश्यत् । तस्यामेव च वॉसमरचर्यत् ।
 
अथावतीर्य तुरगालाविश्य भक्तिप्रवणेन चेतसा वां गणनाम । कृतप्रदक्षिणञ्च पुनः
 
विवाह उद्वाहस्तेन प्राप्तं विडम्बनं कदर्शनं यस्य स तेन । अनेकेलि । अनेकेष्वायतनेषु चैत्येषु प्रतिशयितं
किंचित्फलप्राप्तिबुद्ध्या खापः कृतस्तेन तस्माद्वा निष्फेलमुत्थानं जागरणं यस्य स तेन । एतेन वार्धकेऽप्यस-
न्तमुयोगः सूचितः । दुःस्थितेति । दुःस्थितस्य भावो दौः स्थित्यमध्यसद्वृत्तमपि विविधा अनेकप्रकारा के
व्याधयः पीडास्तैः परिवृतम् । अनेनासद्वृत्तपरम्परा सर्वदा वर्तमानैवेति सूचितम् । यथा व्याधिरपि व्याप्य
न्तरेण परिवृतो वृद्धिमेव जनयति तद्वद्दौः स्थित्यवृद्धिदेव सूचिता । अत एव ता विच्छेद एव नास्तीलाह-
स्त्रकुटुम्बेति । खकीयं कुटुम्ममिवात्मीयखजनविद्रोहनं कुर्यंता । मूर्खतेति । मूर्खस भावो
मूर्खता तामपि बहुभिर्व्यसनैरासक्तिभिरनुगतां सहिताम् । अत एव मूर्खताया व्यसनजनकत्वादाह - प्रस्तु-
तेति । प्रसूतानि जनितान्यनेकान्यपत्यांनि ययैवंविधामिव दर्शयतान्येभ्यः प्रकाशयता । क्रोधमिति । क्रोधं
कोपमप्यने के दण्डास्तेषां कलहावसरे योऽभिघातखैर्निर्मितो बहुगात्राणां गण्डूक: पिटको येन स तम् ।
अत एवाह-~~फलितमिव प्रकाशयताविष्कुर्वता । क्लेशमिति । क्लेश परिश्रमस्तमपि सर्वेध्वनयनेषु ज्वलि -
ता या दीपिका स्वासां दाह इन यो दाहस्तस्माद्यानि त्रणानि देहविकृतिरूपाणि तैर्विभावितं लक्षितम् । अंत
एव बहुच्छिद्रवत्त्वाद्वहुमुखमिव प्रकटयता प्रकाशयता । परीति । परिभवमपि तिरस्कारमपि निष्कारणं निष्प्र-
योजनमाकृष्ट आकर्षितो यो जना पदोऽङ्गिस्तेन दत्तं पदाकृटिशतं चरणप्रहारशतं यस्मिन् । अविच्छिणम-
तिमत्त्वात्प्रवाहमिव दधानेन विभ्रता । शुष्केति । शुष्का या ननलता तथा विनिर्मितो निष्पादितो बृहत्कु-
झुमकरण्ड: पुष्पसंस्थापनस्थलं येन । वेण्विति । वेणुलतया रचिताः पुष्पपातनार्थमङ्गशिका येन । क्षणेति ।
क्षणमध्यमुक्तोऽत्यक्तः कालकम्बलखण्डस कृष्णरल्लकप्रदेशस्य खोलो येन । अन्वयस्तु प्रागेवोक्तः । तस्याः
मिति । तस्यामेव भूमौ वासं निवासमरचयद्रचितवान् ।
 
6
 
अथेति । तदनन्तरं तुरगादश्वादवतीर्यं प्रविश्य च । चण्डिकायतनमिति शेषः । भक्तिप्रवणेन चेतसा
तां प्रणनाम नमके । कृतेति । कृता विहिता प्रदक्षिणा येनैवंविधश्च पुनरपि प्रणम्य नमस्कारं कृत्वा प्र-
प0 - 1 नेकव भोज देव शयनसहस कृतं कतु तवफव जतयथ:
यव: पूर्व न ो महr । 2 उयसनयव य : । 3 बह.
चितं न हानेकदण्डाभिघातै रेकगण्डकोत्पांदने स्वारस्थम् । 'मात्रगण्डक' मिलेव च पाठः । गण्डका नाम-
ण ( 'ग') वशेष: । गडक एव to फ इ । 4 वोडन-
स्तदङ्गेषु प्रज्वालिताः ( दाहार्थम्) । 5 'आकृष्ट' इत्येव पाठ उचितः । निष्कारणम् आाकूड: शापादि-
त य जन । 6 णवरण, '' इ जयगभष । '
पाकवल्मी कपूगको पशिरसके' इति विश्वः ।
 
पाठा- -१ घात. २ गण्डकम्. ३ बहुसुखम् ४ सप्रवाहमिव; शतसंप्रवाहमिव ५ आमुक्त, ६ खण्डलोलेन,
७ आवासम्. ८ अरोचयत्.