कादम्बरी /494
This page has not been fully proofread.
४६१
जरद्रविडधार्मिकवर्णनम् ]
पूर्वभागः ।
पुस्तिकासंग्राहिणा, जीर्णपाशुपंतोपदेश लिखितमहाकालमतेन, आविर्भूतनिधिवादद्व्याधिना
संजातधातुवादवायुना, लग्नासुरविवर प्रवेशपिशाचेन, प्रवृत्तयक्षकन्यकाकामित्व मनोरथ व्या
मोहेन, वर्धितान्तर्धानमैत्रसंग्रहेण, श्रीपर्वताश्चर्य वार्ता सहस्राभिज्ञेन, असकृदभिमन्त्रितसिद्धा-
र्थ काहँतिधावितैः पिशाचगृहीतकै: करतलतार्डेन निबिडीकृतश्रेवणपुटेन, अवमुक्तशैवाभिमा-
नेन, दुर्गृहीतालाबुवीणावाद नोद्वे जितपथिक परिहृतेन, दिवसमेव मशककणितानुकारि किमपि...
कम्पितोत्तमाङ्गं गायता, स्वदेशभाषानिबद्धभागीरथीभक्तिस्तोत्रनर्तकेन, गृहीततुरगब्रह्मचर्य-
तयान्य देशागतोषितासु जरत्प्रव्रजितासु बहुकृत्वः संप्रयुक्तस्त्रीवशीकरणचूर्णेन, अतिरोषण
:
येषामेतादृशा ये कुहका ज ( जा ) लिकास्तेषां तन्त्रा औषधप्रयोगाः, मन्त्राः शाबरमन्त्राः, तेषां पुस्तिकास्तस्याः
संग्राहिणा संग्रहकारिणा । जीर्णेति । जीर्णश्चिरकालीनो यः पाशुपतोपदेशो मनुष्यरुधिरेण होमप्रतिपादक
शिक्षा तेन लिखितं लिपीकृतं महाकालमतमीश्वरमतं येन । एतेन केवलं वाममार्गोत्वं सूचितम् । -
र्भूतेति । आविर्भूतः प्रकटीभूतः सर्वे मे मम निधय इति वादः स एव व्याधिर्यस्य स तेन । अत एवाह-
संजातेति । संजातः समुत्पन्नो धातुवादस्य ताम्रादेः सुवर्णादिकरणस्य स एव वायुर्विक्रिया यस्य स तेन ।
लग्न इति । लग्नोऽसुराणां पातालवा सिदेवानां विवरप्रवेशलक्षणः पिशाचो यस्य स तेन । प्रवृत्तेति ।
प्रवृत्तः प्रसृतो यक्षकन्यका गन्धर्वपुत्र्यस्तासां यः कामित्वमनोरथो भोगेच्छा विशेषस्तद्विषये व्यामोहो यय स
तेन । वर्धितेति । वर्धितो वृद्धिं नीतोऽन्तर्धानमदृश्यता तस्मिन्कर्तव्ये मन्त्रसंग्रहो यस्यैवंविधेन । श्रीपर्व-
तेति । श्रीपर्वतः श्रीशेलस्तस्याश्चर्य वार्ताश्चित्रकारिण्यः किंवदन्त्यस्तासां सहस्रं तस्मिन्नभिज्ञेन कुशलेन, तस्य
शाम्भवत्वाइविड धार्मिकस्य जंगमत्वाच्चेति भावः । असकृदिति । असकृन्निरन्तरमभिमन्त्रिता ये सिद्धार्थकाः
सर्षपास्तेषामाहतिः प्रक्षेपस्तया धावितैस्त्वरया प्रचलितः पिशाचगृहीतकैः पिशाचाविष्टैः करतलताडनेन हस्त-
तलास्फोटनेन निबिडीकृतं दृढीकृतं श्रवणपुटं कर्णकोटरं यस्य स तेन । एतेन पिशाचावेशविद्यावत्वं सूचितम् ।
अवेति । अवैमुक्तस्त्यक्तः शैवाभिमानोऽहमेव शैवो नान्य इति भावो येन । दुरिति । दुःखेन गृहीता
यालाबुवीणा तस्या वादनेनोद्वेजिता उद्वेगं प्रापिता ये पथिका अध्वगास्तैः परिहृतेन त्यक्तेन । दिवसेति ।
दिवस एव न तु रात्रौ मशकानां क्वणितं शब्दितं तदनुकारि किमप्यनिर्वचनीयं कम्पितोत्तमाङ्गं यथा स्यात्तथा
गायता गानं कुर्वता । खदेशेति । खदेशस्य सौवजनपदस्य या भाषा वाणी तथा निबद्धं गुम्फितं या-
गीरथी गङ्गा तस्या भक्तिस्तोत्रं तेन नर्तकेन नृत्यकारिणा । स्तोत्रं पठन्नेव नृत्यतीत्यर्थः । गृहीतेति । गृहीतं
स्वीकृतं तुरगाणां ब्रह्मचर्यम् । प्रतिबन्धवशात् । न तु वैराग्येणेति । तस्य भावस्तत्ता तयान्येभ्यो देशेभ्यो जन-
पदेभ्य आगताः प्राप्ता उषिताश्च तासु जरन्त्योऽपि याः प्रत्रजिता आत्तव्रतास्तासु बहुकृत्वो बहुवारं संप्रयुक्तं
स्त्रीवशीकरणस्य चूर्ण येन । एतेन महाकामुकत्वं सूचितम् । अतीति । अतिरोषणस्य भावस्वत्ता तथा
कदाचिद्दुर्न्यस्ता विषमस्थापिता याष्टपुष्पिका सोलिका तस्याः पातेनोत्पादितः क्रोधो यस्य स तेन । निःश-
टिप्प० -1 संजातो धातुवादः ( ताम्रादीनां सुवर्णादिकरणव्यतिकरः ) एव वायुरोगो यस्य ।
2 चिपिटीकृतम् । 3 विवक्षितविपरीतोऽयं पाठः, जरद्रविडस्य दुर्गुणपूर्णत्वप्रसङ्गे निरहङ्कारत्वगुण-
वर्णनस्यानुचितत्वात् । अत एव 'अविमुक्त' इत्येव पाठः, न विमुक्तः न त्यतः अहंकारो येनेति तदर्थः ।
4 दुर्गृहीता वादनकालिकग्रहणप्रकारं विरहय्य परिवता । 5 द्रविडदेशस्य ।
पाठा०- -१ महापाशुपत. २ मन्त्रसाधनसंग्रहेण. ३ प्रहतिप्रभावितैः ४ चिपिटीकृत. ५ श्रवणनासापुटेना
घ्ययुक्त. ६ दिवसमशककणितानुकारिणा स्वरेण ७ आगतासु. ८ प्रब्राजिकासु,