This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
तरलोचनाञ्जनदानादरलक्ष्णीकृत
 
दामशलाकेन, प्रत्यहं कटुकालाबुवेदप्रारब्धदंतुरताप्र-
तीकारेण कथंचिदस्थानदत्तेष्टका प्रहारतया शुष्कैकभुजोपशान्तमर्दन
व्यसनेन, उपर्युपर्यवि-
श्रान्त कटुवर्तिप्रयोगवर्धित तिमिरेण, अश्मभेदसंगृहीतबराहदंष्ट्रेण इङ्गुदीकोषकृतौषधाञ्ज-
नसंग्रहेण सूचिस्यूतशिरा संकोचित वामकराङ्गुलिन, कौशेयककोशावरणक्षतित्रणितचरणा-
ङ्गुष्ठकेन, असम्यकृतरसायना नीताकालवण, जरां रातेनापि दक्षिणापथाधिराज्यवरप्रार्थ-
नाकदर्शितदुर्गेण, दुःशिक्षित श्रवणादिष्टतिलकाबद्ध विभवप्रत्याशेन, हरितपत्ररसाङ्गारमषीम-
लिनशम्बूकवाहिना पट्टिकालिखित दुर्गास्तोत्रेण, धूमरक्तालक्तकाक्षरतालपत्रकुहकतन्त्रमन्त्र-
१६०
 
9
 
a
 
3
 
त्रिकालं कालत्रये इतरस्मिन् एकस्मिल्लोचने यदजनदानं तदर्थमादर आग्रहस्तेन ऋणीकृता दारुशलाका
येन ।' पुनः पुनर्नेत्राञ्जनसंबन्धेन दारुशलाकापि लक्ष्णीकृतात्यन्तमृदुतामापादितेत्यर्थः । एतेन निरवधि-
कदेवानां प्रियता दर्शिता । प्रत्यहमिति । प्रत्यहं निरन्तरं कटुकं यदलाबु तुम्बीफलं तस्य सः स्वेदस्त
निःसृतं जलं तेन प्रारब्धा दन्तुरतोन्नतदन्तता तस्याः प्रतीकारश्चिकित्सा येन । आमवातजडीकृतदेहस्य तैलवि
शेषमर्दनानन्तरं कारञ्जभितप्तेष्टिकानां प्रहारः क्रियते । तमधिकृत्याह- अस्थानेति । यत्राभितप्तेष्टिकाप्रहार
उक्तो नास्ति तस्मिन्नने, अत एवास्थाने दत्तो य इष्टिकाप्रहारस्तस्य भावस्तत्ता तया । शुष्केति । अचिकि
त्सित एकस्मिन्भुज उपशान्तं निष्ठाप्राप्तं मर्दनव्यसनं यस्य स तेन । कुत्सिततैलप्रयोगवशाद्दीपालोके सत्यप्य-
न्धकार एवेत्यधिकृत्याह – उपर्युपरीति । उपर्युपर्यविश्रान्तं निरन्तरं कटुकवर्तिप्रयोगेण वर्धितं तिमिरं येन ।
अश्मेति । अश्मभेदार्थं प्रस्तरखण्डार्थ संगृहीता आत्ता वराहाणां वनक्रीडानां दंष्ट्रा येन । इङ्गुदीति । इङ्गुदी
तापसद्रुमस्तस्य कोषः फलं तन्मध्ये कृत औषधाअनयोः संग्रहो येन । तत्र स्थापितस्योषधाजनादेविशेषगुण-
• कारित्वादि युक्तं । महासाहसिकत्वमप्याह- सूचीति । सूच्या सीनन्या स्यूता प्रोता या शिरा । प्रकोष्ठसंबन्धि-
नीति शेषः । तया संकोचं प्रापिता वामकराडुल्यो येनैतादृशविकृताङ्ग प्रदर्शनेन लोकानामद्भुतमिदमिति बुद्धि-
जननात्पुनरपि तदेवाह -- कौशेयकेति । कौशेयकस्य कृमिकोशोत्थस्य कोशः कृमिगृहं तस्यावरणमावेष्टनं
तस्माद्या क्षतिः संघृष्टिस्तया व्रणितश्चरणागुष्ठो यस्य स तेन । असम्यगिति । न सम्यकृतमनभिज्ञत्वाद्रसा-
यनं पारदकलङ्कादिकम् । बहुद्रव्यव्ययेनापि कार्यसिद्धेरभावात् । तेनानीतः प्रापितः कालज्वरो मरणपर्यवसा
यितापो यस्य स तेन । अनेन मुमूर्षोरपि वैराग्यं नोत्पद्यत इति लोभातिशयो व्यन्यते । जरेति । जरां गतेनापि
वित्र सां प्राप्तेनापि दक्षिणापथस्य यदधिराज्यमाधिपत्यं तस्य वरप्रार्थना तथा कदर्थितोद्विग्नीकृता दुर्गा भवानी येन ।
दुःशिक्षितेति । दुर्दुष्टं शिक्षितं तस्य श्रवणादाकर्णनादिष्टेऽभिमतस्थान वर्तिनि तिलके कालके । 'तिलकः
कालकः पिलुजेडुलस्तिल कालकः' इति कोशः । तस्मिन्नाबद्धा मनसि निश्चिता विभवस्यैश्वर्यस्य प्रत्याशा प्राप्तिवाञ्छा
येन । हरितेति । हरितपत्राणां नीलपलाशानां रसेन कृत्वा योऽङ्गारस्य मणी मस्री तथा मलिनो यः शम्बूकः
शस्तद्वाहिना । एतेन यत्किचिल्लिखनव्यसनता सूचिता । पट्टिकेति । पट्टिकायां लिखितं लिपीकृतं दुर्गा-
स्तोत्रं यस्य येन वा स तेन । धूमेति । धूमवद्रकान्यलक्तस्य यावकस्याक्षराणि येष्वेवंविधानि तालपत्राणि
टिप्प० - 1 एकं नेत्र तु सिद्धासनाभासेन लुप्तमेव, उन्मीलिते द्विनाये लोचने तु शोभायै तन्त्रनिय
मादा साधारणकजलम् (न तु सिद्धाअनम्) इथद्दीयते येन प्रत्यक्ष घर्षणात दारुशलाका ('सलाई')पि लक्षणा
जातेति सर्वस्याशयः । 2 नामाकृतजाख्यवशादनेन अग्नि तसेटकाप्रहारः प्रारब्धः, परंस ह्यस्थाने जातः ।
अत एवं स हस्तः शुष्को जातः । अत एव वालो विनष्ट इति मत्वा अनेन तैलमर्दनाग्रहस्त्यक इत्याशयः ।
3 नेत्ररोग विशेषः । आन्ध्यनाशाय कटुवर्तिप्रयोगः इयत्कृतो येन नेत्रसन्दत्वमधिकं जातमित्यर्थः । 4 'श्र-
मणाssदिष्ट' इत्येव पाठः । दुःशिक्षिसेन शतकुशिक्षेण श्रमणेन संन्यासिविशेषेण आादिष्टे तिलके (सिद्धौ-
षधिजनिते ललाटबिन्दौ ) हाल तदर्थः । 5 धूमेन रञ्जितानि अरुसकलिखितान्यक्षराणि येषु ।
पाठा०-१ आरब्ध. २ कथंचिच्छुष्क ३ कोशक, ४ रक्षित. ५ श्रमण० ६ कृतकुहकतत्रयन्त्रमन्त्र.