This page has not been fully proofread.

चण्डिकावर्णनम् ]
 
पूर्वभागः ।
 
ङ्गुलीभिरिव महिषासुरशोणितलवालोहिनीभिः स्कन्धपीठकण्डूयनचलित त्रिशूलदण्डकृतापराधं
'वनमहिषमिव तर्जयन्तीम्, प्रेबलकूर्चधरैश्छागैरपि धृतव्रतैरिव स्फुरदधरपुटै खुभिरपि जपप-
रैरिव कृष्णाजिनप्रावृताङ्गैः कुरङ्गैरपि प्रतिशयनैरिव ज्वलितलोहितमूर्धरत्नरश्मिभिः कृष्णसर्पे-
रपि शिरोधृतमणिदीपकैरिवाराध्यमानाम्, सर्वतः कठोरवायसगणेन च रटता स्तुतिपरेणेव
स्तूयमानाम्, स्थूलस्थूल: शिरोजालकैर्गोधागोलिकाककलासकुलैरिव दग्धस्था
समारूढैर्गवाक्षितेन, अलक्ष्मीसमुत्खातलक्षणस्थानैरिव विस्फोटकत्रणबिन्दुभिः कल्माषित-
सकलशरीरेण, कर्णावतंस संस्थापितया च चूडया रुद्राक्षमालिकामिव दधानेन, अम्बिकापाद-
पतनश्यामललाटवर्धमानर्बुदुदेन, कुँवादिदत्तसिद्धाञ्जनदानस्फोटितैकलोचनतया त्रिकालमि-
·
 
४५९
 
धूपधूमस्ते नारुणीकृताभी रक्तीकृताभिः प्रचलन्तीभिर्गर्भगृहस्थापवरकस्य दीपिकालताभिर्दशेन्धनवल्लीभिः । अत
एव किंचिदारतकृष्णतया तत्साम्यप्रदर्शनार्थमाह - अङ्गुलीति । कीदृशीभिः । महिषासुरो दैत्यस्तस्य
शोणितं तस्य लवस्तेनालोहिनी भिर्वन महिषमरण्यरक्ताक्षं तर्जयन्तीं न्यक्कुर्वन्तीम् । कीदृशम् । स्कन्धपीठस्य य
त्कण्डयनं तेन चलितः कम्पितो यस्त्रिशुलदण्डः स एव कृतोऽपराधो येनैवंभूतम् । सजातीयकृतमहिषापराधाद्व
नमहिषस्याप्यपराधः । प्रबलेति । प्रबलानि प्रकृष्टानि कूर्चानि चिबुकाधःस्थलवर्तिरोमाणि धरन्तीति धरै
इछागैरपि नस्तैरपि धृतवतैरिव स्वीकृत नियमैरिवा खुभिरप्युन्दुरैरपि स्फुरन्त्यधरपुटानि येषां तैः । जातिखभा-
वोऽयम् । अत एव जपपरैरिव जापतत्परैरिव । कृष्णेति । कृष्णाजिनेन श्यामचर्मणा प्रावृतमङ्गं येषां तैः
कुरङ्गैरपि सारङ्गैरपि प्रतिशयनैरिव प्रतितल्पैरिव । ज्वलितेति । ज्वलिता दीप्यमाना लोहिता रक्ता मूर्धनि
शिरसि रत्नानां मणीनां रहमयो रोचिषो येषां तैरेवंविधः कृष्णसपैरपि भुजङ्गैरपि शिरोधृतमणिदीपकैरिव मस्त+
कन्यस्तग्रहमणिभिरिव । एतैराराध्यमानामुपास्यमानाम् । सर्वत इति । सर्वतः समन्ताद्रता शब्दं कुर्वता
कठोरवायसगणेन सकृत्प्रजासमूहेन च स्तुतिपरेण स्तूयमानां नूयमानाम् । अथ द्राविडधार्मिकं विशेषय नाह-
स्थूल इति । स्थूलानि स्थूलानि च स्थूलस्थूलानि तैः शिराजालकैर्नाडीसमूहैर्गवाक्षितेन सर्वत्र जालकमयी-
भूतेन । तत्र शिराजालकस्य पीनस्थूलरूपतया तत्साम्येनाह - गोघेति । नीलत्वसाम्यात् । दग्धो ज्वलितो यः
स्थाणुः कीलकस्तस्याशङ्कारेका तया । गोधा प्रसिद्धा, गोलिका पल्ली, कृकलासः सरटः एतेषां कुलैरिव समूहै रिव
समारूढैराश्रितैः । अलक्ष्मीति । अलक्ष्म्या अश्रिया समुत्खातानि मूलत उन्मूलितानि यानि लक्षणानि
सामुद्रकशास्त्रोकानि तेषां स्थानैरिव, विस्फोटकाः प्रसिद्धास्तेषां व्रणबिन्दुभिः कत्माषितं चित्रितं सकलं समधं
शरीर यस्य स तेन । कर्णेति । कर्णावतंसे संस्थापितया न्यस्तथा चूडया शिखया रुद्राक्षमालिकामिव दधानेन
धारयता । अम्बिकेति । अम्बिकायाः पावत्याः पादपतनेन श्यामं कृष्णं यल्ललाटमलिकं तत्र वर्धमानो बुहुँदः
स्थासको यस्य स तेन । शरीरं कदर्यरूपमुक्त्वा तत्प्रसङ्गेनेन्द्रियाणां दन्तादीनां कदर्यत्वं कपटक्रियासाधनानां
त्रातिशयत्वं व्यञ्जयन्पुनस्तमेव विशेषयवाह- कुवादीति । कुवादी मिथ्यावादी तेन दत्तं सिद्धाजनं नेत्रौषधं
दस्य दानं नेत्रयोः प्रक्षेपस्तेन स्फोटितं नाशितमेकं लोचनं यस्य तस्य भावखत्ता तथा । त्रिकालमिति ।
 
Gegn Porgele
 
EXTR
 
टिप्प० -1 न बुद्धोऽर्थो महाशयेन । 'प्रतिशयितैरिव' इति पाठः । थमीटप्राप्तये दिनमासादिनियं
भोजनादिपरित्यागपूर्व देवताप्रे शयदं 'अतिशयनम्' । कृष्णचर्मधारिणो मृगा अपि कृतप्रतिशयना इष ।
2 स्थूण: ( शाखापत्ररहितो वृक्ष: ) । 3 'बर्धमानार्बुदेन' इत्येव पाठः । श्यामे ललाटे घर्षणजन्यः
'अर्बुद:' कृष्णवर्णः किणः (शुष्कं व्रणचिह्नम् ) संजात इत्यर्थः ।
 
पाठा० -१ विरचिताङ्गुलीभि: ० २ प्रलम्ब ६ प्रतिशायितै: • ४ रुवता. ५ शिराजालैः, ६ गोषागृहगोधिका;
गोधारगोधिका ७ लक्ष्मी. ८ विस्फोट. ९ अर्बुदैन. १० कुवादित० ११ स्फुटित.