This page has not been fully proofread.

चण्डिकावर्णनम् ]
 
पूर्वभागः ।
 
४५७
 
तितेनेव प्रतिबिम्बिते नास्ततात्रेण सवित्रान्तरीकृतैः जवाः पिच्छिलीकृताजिराम्, अव-
लम्बमानदीपँधूमरकांशुकेन प्रथितशिखिगलवलयावलिना पिष्टपाण्डुरितघनघण्टामालाभारिणा
ब्रापुषसिंहमुख
मध्य स्थितस्थूललोहँ कण्टकं दत्तदन्तदण्डार्गलं गलत्पीत नीललोहितदेर्पणस्फुरितबु-
इदमालं कपाटपटद्वयं दधानेन गर्भगृहद्वारदेशेन दीप्यमानाम्, अन्तः पिण्डिकापीठेपातिभिश्च
सर्वपशुजीवितैरिव शरणमुपागतैरैलेक्तक पटेर विरहितचरणमूलाम्, पतितकृष्णचामरप्रतिबि-
एतेन सिंहबाहुल्यं वर्णितम् । तद्र्णनाञ्च महाविपिनवासित्वं व्यङ्ग्यम् । क्षतजानि रुधिराणि तेषां प्रवाहैरोघैः
पिच्छिलीकृतं विजिली कृतमजिरमङ्गणं यस्याः सा ताम् । कीदृशैः क्षतजप्रवाहैः । प्रतीति । प्रतिबिम्बितेन
संक्रान्तेनास्त ताम्रेणास्त समयक्तेन सवित्रा सूर्येणान्तरीकृतैर्व्यवधानीकृतैः । पतनसाम्येनाह– प्रभूतेति ।
प्रभूतं भूयिष्ठं यदुधिरं रक्तं तस्य दर्शनमवलोकनं तेनोद्भूता संजाता या मूर्च्छा तया पतितेनेव । स्रस्तेनेव । गर्भेति ।
गर्भगृहमपवर करतस्य द्वारदेशेन प्रतीहारप्रदेशेन दीप (ध्य ) मानां शोभमानाम् । अथ द्वारदेशं विशेषयन्नाह -
अवलम्बेति । अवलम्बमाना ये दीपा गृहमणयस्तेषां धूमै रक्तानि रक्षितान्यंशुकानि यस्मिन् । एतेन दीपक-
बाहुल्यं वर्णितम् । अवलम्बमाना दीपा धूमा उत्क्षिप्यमाणकृष्णा गुरुसंबन्धिनो रक्तांशुकानि च यस्मिन्निति वा ।
द्वारदेशातिशयवर्णनमेतम् । ग्रथितेति । प्रथिता गुम्फिताः शिखिनो मयूरास्तेषां गलवलयानां बिगरण-
कण्टकानामावलयः श्रेणयो यस्मिन्स तेन । पिष्टेति । पिष्टवैत्पाण्डुरिता धूसंरवर्णा घना निबिडा या घण्टा-
स्तासां माला श्रेणिस्तां बिभर्तीत्येवंशीलेन भारिणा । किं कुर्वता द्वारदेशेन । दधानेन बिभ्रता । किम् । कपा-
टस्याररस्य पटद्वयम् । तदेव विशिष्टि - त्रापुषेति । त्रापुषः श्वेतरूप्यनिर्मितो यः सिंहो हर्यक्षस्य मुखम
ध्यस्थितं स्थूलं लोहकण्टकं यस्मिन् । दत्ता दन्तदण्डस्यार्गला यस्मिन् । गलदिति । गर्लन्तः सवन्तः पीत-
नीललोहिता इति त्रयोपादानं विविधवर्णोपलक्षणम् । तेषां दर्पणेभ्यः स्फुरिता विद्योतिता बुद्बुदाकृतयो द्युति-
पुजास्तेषां माला यस्मिन् । पुनः कीदृशीम् । अन्तरिति । अलक्तकपटैर्यावकरसरक्तवस्त्रैर विरहितं चरणयो -
र्मूलं यस्याः सा ताम् । चरणमूलेऽपि रक्तवस्त्राणि शोभातिशयार्थ घ्रियन्ते । तत्र हिंसितपशुजीवितानां रुधिर-
संबन्धवशाक्तपटा रुण्य साम्येनोत्प्रेक्षते । अन्तर्मंध्यवर्तिनी या पिण्डिकी तस्याः पीठं तत्र पातिभिः पतन-
शीलैः
है: आरुण्यव्यञ्जकमुक्त्वा चरणमूलसंबन्धनियामकमाह - शरणेति । शरणमुपागतः सर्वपशुजीवितैरिव ।
रुधिरस्यापि जीवितेन सह गमनादुपमानोपमेयभावः । पतितेति । पतितानि कृष्णचामराणां प्रतिबिम्बानि
येष्वेवंविधानां परशुः परश्वधः, पट्टिशः शस्त्रविशेषः, एतत्प्रभृतीनां जीव विशसनशस्त्राणाम् । नीलातिशय
 
टिप्प० - 1 'ताम्रतरीकृतै रिति रुचिरः पाठः । क्षतजप्रवाहाः पूर्वमेव रक्तवर्णाः, ततस्तु अस्तकालि-
कसूर्यप्रभया अत्यन्तमरुणीकृता इति तदाशयः । 2 दीपा न अवलम्बन्ते अपि तु वस्त्राणि, तस्मात् भव-
लम्बमानानि दीपधूमै रक्षितान्यंशुकानि यस्मिन्निति वक्तव्यम् । 3 पिष्टेन पाण्डुरिताः [ पित्तलघण्टाः ] ।
4 धनां घण्टामालां बिभर्ति तच्छीलेन घनघण्टामालभारिणा । 'इष्टकेषकेत्यनेन' हस्वः । तस्मात् 'माल-
भारिणा' इत्येव पाठो युक्तः । 5 'लसत्पी तनीले 'त्यादिरेव पाठो युक्तः । लसत्सु संमुखे शोभमानेषु पीत-
नील-लोहितवर्णेषु दर्पणेषु स्फुरिता ( प्रतिबिम्बिता ) बुदबुदमाल । बुद्बुदसमानाकारलोहश हुश्रेणिय-
स्मिन् तत् । कणटद्वये ये लोहकीलका जटितांस्ते 'जगन्मोहन' । निजमन्दिरम्याप्रभागः । स्थदर्पणेषु प्रति-
बिम्बिता इत्याशयः । 6 वेदिः तत्र यस्पीठम् मूर्तिस्थापनाय सिंहासनम् । 7 अज्ञानमिदम् । कृष्णानां
चामराणां तेषु प्रतिबिम्बः पतितः, अत एव शिरश्छेदे सति लग्नं केशजालं येषु ईदृशानि दृश्यन्ते शस्त्राणि ।
 
पाठा -१ तात्रतरीकृतै. २ क्षतजजल ३ दीपंधूपधूसर ४ वलयावलम्बिना. ५ पिष्टपिण्डपाण्डुरित. ६ माला -
धारिणा; मालभारिणा. ७ लोहकण्टकदत्तदन्तदण्डार्गलगलत्पीत, ८ लसत्. ९ तर्पण. १० पट्टा; पट्टक. ११ पट्ट
१२ अलक्तक पुटः, अलक्तकरसरक्रूपुटैः."
 
५८ का०