2023-09-13 02:44:05 by Lakshmainarayana achar

This page has been fully proofread twice.

क्षितितलनिहितजानुकर [^१]कमला सविनयमब्रवीत् -- देव, [^२]द्वारस्थिता सुरलोकमारोहतस्त्रिशङ्कोरिव कुपितशतमख- हुंकार [^३]निपातिता राजलक्ष्मीर्दक्षिणापथादागता [^४]चाण्डालकन्यका पञ्जरस्थं शुकमादाय देवं [^५]विज्ञापयति- 'सकलभुवन [^६]तलरत्नानामुदधिरिवैकभाजनं देवः । विहंग-
मश्चायमाश्चर्य [^७]भूतो निखिलभुवनतलरत्नमिति कृत्वा [^८]देवपादमूलमादायाऽऽगताहमिच्छामि देवदर्शन- सुखमनुभवितुम्' इति । एतदाकर्ण्य 'देवः प्रमाणम्' इत्युक्त्वा विरराम । उपजातकुतूहलस्तु राजा समीपवर्तिनां [^९]राज्ञामालोक्य मुखानि 'को दोषः, प्रवेश्यताम्' इत्यादिदेश ।
 
अथ प्रतीहारी नरपति [^१०]कथनानन्तरमुत्थाय तां मातङ्गकुमारीं प्रावेशयत् । प्रविश्य च सा नरपतिसहस्रमध्यवर्तिन- मशनिभयपुञ्जितकुलशैलमध्यगतमिव कनकशिखरिणम्, अनेकरत्ना-
 
[टि]- त्युत्प्रेक्षा । अपूर्वेति शेषः । अत एव विग्रहिणी शरीरिणी । पुनस्तामेव विशेषयन्नाह - क्षितीति । क्षितितले भूमितले निहितौ स्थापितौ जानू तलकीलौ, अथ च करौ तावेव कमले यया सा तादृशी । सविनयं विनयेन सहवर्तमानम् । किमब्रवीत्तदाह - देवेति । हे देव हे स्वामिन् द्वारे स्थिता चाण्डालानां दिवाकीर्तीनां कन्यका
कुमारी पञ्जरे पक्षिणामाश्रये स्थितं शुकं कीरमादाय गृहीत्वा देवं स्वामिनं विज्ञापयति स्वरहस्यं निवेदयतीत्यर्थः । केव । सुरेति । सुराणां देवानां लोकं वर्गमारोहत आरोहणं कुर्वतस्त्रिशङ्को- रयाज्यस्य राजलक्ष्मीरिव । तामेष विशेषयन्नाह – कुपितेति । त्रिशङ्कोरयाज्यस्य देवयागात्स्वर्गे वासो न भवतीत्यतः कुपितः कुद्धो यः शतमख इन्द्ररतस्य हुंकार: कोपध्वनितेन निपातिताधःक्षिप्ता । कीदृशी चाण्डालकन्यका । दक्षिणेति । दक्षिणापथाद्दक्षिणमार्गा- दागता प्राप्ता । प्रतीहारी चाण्डालकन्यकायाः सामान्यतो विज्ञापनाविषयमाह - सकलेति । चाण्डालकन्यकायास्त्वियं विज्ञापना । देवेति । हे देव, इति कृत्वा तं शुकमादाय देवस्य राज्ञः पादमूलं चरणमूलमहमागता देवदर्शनसुखं महाराजस्यावलोकन- सातमनुभवितुमनुभवविषयीकर्तुमिच्छामि समीहे । इतिशब्दवाच्यमाह - सकलेति । सकलानि समग्राणि यानि भुवनतलानि तेषु यानि रत्नानि तेषामेकं भाजनमुत्कर्षस्थानम् । क इव । उदधिरिव समुद्र इव । यथोदधिः सर्वरत्नानां भाजनं तथा देवो भवानपीत्यर्थः । अयं विहंगमः पक्षी शुक आश्चर्यभूत इत्यद्भुतप्रेक्षणविषयः अतस्तादृशोक्तविशेषत्वादेव निखिलानि यानि भुवनतलानि तेषां रत्नमुत्कृष्टम् । 'जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते' इति । आदाय गृहीत्वा । देवः प्रमाणमिति । यदेवास्य राज्ञोऽनुशासनं तदेव मया विधेयमित्युक्त्वा विरराम तूष्णीं बभूवेत्यन्वयः । प्रतीहार्युक्तं चाण्डालकन्यकाविज्ञापनावाक्यं सर्वं नृपेणाकर्ण्य राजमन्त्रिवैमत्यं निराकुर्वन्प्रतीहारी प्रतीत्यादिदेश । को दोषः, प्रवेश्यतामिति । स्पष्टम् । कीदृशो राजा । उपेति । उपजातमुत्पन्नं कुतूहलं कौतुकं यस्य स तथा । किं कृत्वा । समीपवर्तिनां निकटस्थानां राज्ञां मन्त्रिणां च मुखानि वदनान्यालोक्य । निरीक्ष्येत्यर्थः । तेषामपि तद्दिदृक्षेति ज्ञात्वेत्यर्थः ।
 
अथेति । अथ नरपतिकथनानन्तरमुत्थायोत्थानं कृत्वा प्रतीहारी तां मातङ्गकुमारीं प्रावेशयत्प्रवेशमकारयत् । प्रविश्य चेति । प्रविश्य प्रवेशं कृत्वा सा चाण्डालकुमारी राजानमद्राक्षीत् । अपश्यदित्यर्थः । 'दृशिर् प्रेक्षणे' इत्यस्य लुङि रूपम् । राजानं विशेषयन्नाह
-नरपतीति । नरपतीनां राज्ञां यत्सहस्रं तन्मध्यवर्तिनम् । तदन्तरालस्थितमित्यर्थः । कमिव । कनकशिखरिणमिव मेरुमिव । कीदृशं मेरुम् । अशनीति । अशनेरिन्द्रायुधाद्वज्रायुधद्भयमात- ङ्कस्तेन पुञ्जिता एकत्रीभूता ये कुलशैलाः क्षेत्रसीमाकारिपर्वतास्तेषु मध्यगतं तदन्तः स्थितम् । पुनर्नृपं विशिनष्टि - अनेकेति । अनेकानि विविधानि यानि रत्नाभरणानि मणिखचितभूष-
 
 
[^१]G. कमलं.
[^२]G. द्वारि.
[^३]G. निपतिता.
[^४]G. चण्डालकन्यका काचित्
[^५]G. विज्ञपयति.
[^६]G. तलसर्वरत्नानां.
[^७]G. भूत:
[^८]G. मूलमेनम्.
[^९]G. अवलोक्य.
[^१0]G. वचना.