2023-09-13 02:40:53 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
[ कथामुखे-
क्षितितलनिहितजानुकर कर्[^१]कमला सविनयमब्रवीत् -- देव, [^२]द्वारस्थिता सुरलोकमारोहतस्त्रिश
ङ्कोरि कुपितशतमख- हुंकार [^३]निपातिता राजलक्ष्मीर्दक्षिणापथादागता [^४]चाण्डालकम्न्यका पञ्ज-
रस्थं शुकमादाय देवं [^५]विज्ञापयति- 'सकलभुवनंन [^६]तलरत्नानामुदधिरिवैकभाजनं देवः । विहंग-

मश्चायमाश्चर्य [^७]
भूतो निखिलभुवनतलरत्नमिति कृत्वा [^८]देवपादमूलमादायाऽऽगताहमिच्छामि
देवदर्शन- सुखमनुभवितुम्' इति । एतदाकर्ण्य 'देवः प्रमाणम्' इत्युक्त्वा विरराम । उपजातकुतू-
लस्तु राजा समीपवर्तिनां [^९]राज्ञामालोक्य मुखानि 'को दोषः, प्रवेश्यताम्' इत्यादिदेश ।
 

 
अथ प्रतीहारी नरपतिकै [^१०]कथनानन्तरमुत्थाय तां मातङ्गकुमारीरीं प्रावेशयत् । प्रविश्य च सा
नरपतिसहस्रमध्यवर्तिन- मशनिभयपुञ्जितकुलशैलमध्यगतमिव कनकशिखरिणम्, अनेकरत्ना-
2
 

 
[टि]
-
 
त्युत्प्रेक्षा । अपूर्वेति शेषः । अत एव विग्रहिणी शरीरिणी । पुनस्तामेव विशेषयन्नाह - क्षितीति । क्षितितले
भूमितले निहितौ स्थापितौ जानू तलकीलौ, अथ च करौ तावेव कमले यया सा तादृशी । सविनयं विनयेन
सहवर्तमानम् । किमब्रवीत्तदाह - देवेति । हे देव हे स्वामिन् द्वारे स्थिता चाण्डालानां दिवाकीतींर्तीनां कन्यका

कुमारी पञ्जरे पक्षिणामाश्रये स्थितं शुकं कीरमाहादाय गृहीत्वा देवं खास्वामिनं विज्ञापयति स्वरहस्यं निवेदयतीत्यर्थः ।
केव । सुरेति । सुराणां देवानां लोकं वर्गमारोहत आरोहणं कुर्वतस्त्रिशङ्को- रयाज्यस्य राजलक्ष्मीरिव । तामेष
विशेषयन्नाह – कुपितेति । त्रिशङ्कोरयाज्यस्य देवयागात्स्वर्गे वासो न भवतीत्यतः कुपितः कुद्धो यः शतमख
इन्द्ररतस्य हुंकार: कोपध्वनितेन निपातिताधःक्षिप्ता । कीदृशी चाण्डालकन्यका । दक्षिणेति । दक्षिणापथा-
द्दक्षिणमार्गा- दागता प्राप्ता । प्रतीह केहारी चाण्डालकन्यकायाः सामान्यतो विज्ञापनाविषयमाह - सकलेति । चाण्डाल
कन्यकायास्त्वियं विज्ञापना । देवेति । हे देव, इति कृत्वा तं शुक्रमादाय देवस्य राज्ञः पादमूलं चरणमूलमह-
भा
मागता देवदर्शनसुखं महाराजस्थायावलोकन- सातमनुभवितुमनुभवविषयीकर्तुमिच्छामि समीहे । इतिशब्दवाच्यमाह -
सकलेति । सकलानि समग्राणि यानि भुवनतलानि तेषु यानि रत्नानि तेषामेकं भाजनमुत्कर्षस्थानम् । क इव ।
उदधिरिव समुद्र इव । यथोदधिः सर्वरत्नानां भाजनं तथा देवो भवानपीत्यर्थः । अयं विहंगमः पक्षी शुक आश्चर्य-
भूत इत्यद्भुतप्रेक्षणविषयः अतस्तादृशोक्तविशेषत्वादेव तिनिखिलानि यानि भुनतलानि तेषां रत्नमुत्कृष्टम् । 'जातौ
जातौ यदुत्कृष्टं तद्रत्नमभिधीयते' इति । आदाय गृहीत्वा । देवः प्रमाणमिति । यदेवास्य राज्ञोऽनुशासनं
तदेव मया विधेयमित्युक्त्वा विरराम तूष्णीं बभूवेत्यन्वयः । प्रतीहार्युक्तं चाण्डालकन्यका विज्ञापनावाक्यं सर्वं नृपेणा-
कर्ण्य राजमन्त्रिवैमत्यं निराकुर्वन्प्रतीहारी प्रतीत्यादिदेश । को दोषः, प्रवेश्यतामिति । स्पष्टम् । कीदृशो राजा ।
उपेति । उपजातमुत्पन्नं कुतूहलं कौतुकं यस्य स तथा । किं कृत्वा । समीपवर्तिनां निकटस्थानां राज्ञां न्त्रिणां च
मुखानि वदनान्यालोक्य । निरीक्ष्येत्यर्थः । तेषामपि तद्दहदिदृक्षेति ज्ञात्वेत्यर्थः ।
 
भयेति !

 
अथेति ।
अथ नरपतिकथनानन्तरमुत्थायोत्थानं कृत्वा प्रतीहारी तां मातङ्गकुमारीरीं प्रावेशयत्प्रवेशमका-
रयत् । प्रतिक्ष्विश्य चेति । प्रविश्य प्रवेशं कृत्वा सा चाण्डालकुमारी राजानमद्राक्षीत् । अपश्यदित्यर्थः । 'दृशिर्
प्रेक्षणे' इत्यस्य लुङि रूपम् । राजानं विशेषयन्नाह

-नरपतीति । नरपतीनां राज्ञां यत्सहस्रं तन्मध्य-
र्तिनम् । तदन्तरालस्थितमित्यर्थः । कमिव । कनकशिखरिणमिव मेरुमिव । कीदृशं मेरुम् । अन्शनीति ।
अशनेरिन्द्रायुधात्राद्वज्रायुधद्भयमात- ङ्कस्तेन पुञ्जिता एकत्रीभूता ये कुलशैलाः क्षेत्रसीमाकारिपर्वतास्तेषु मध्यगतं
तदन्तः स्थितम् । पुनर्नृपं विशिनष्टि - अनेकेति । अनेकानि विविधानि यानि रत्नाभरणानि मणिखचितभूष-
1
 
पाठा० -

 
 
[^
]G. कमलं.
[^
]G. द्वारि.
[^
]G. निपतिता.
[^
]G. चण्डालकन्यका काचित्
[^
]G. विज्ञपयति.
[^
]G. तलसवेरलार्वरत्नानां.

[^
]G. भूत:
[^
]G. मूलमेनम्.
[^
]G. अवलोक्य.
[^
0]G. वचना.