This page has not been fully proofread.

४५६
 
कादम्बरी ।
 
[ कथायाम् -
कचिद्रक्तोत्पलैः शबरनिपाति-
मानलोहितलो चनेन लोहम
 
हिषेणाध्यासिताञ्जनशिलावेदिकाम्,
 
तानां वनमहिषाणामिव लोचनैः कचिदंगस्तिकुडलैः केसरिणामिव करजैः कचित्किंशुक-
कुसुमकुङ्मलैः शार्दूलानामिव सरुधिरैर्नखरैः कृतपुण्यपुष्पप्रकराम्, अन्यत्राङ्कुरितामिव कुटि-
लहरिणविषाणकोटिकूटैः पल्लवितामिव सरसजिह्वा च्छेदशतैः कुसुमितामिव रक्तनयनसहस्रैः
फलितामिव मुण्डमण्डलैः उपहारहिंसां दर्शयन्तीम्, शाखान्तरालर्निलीनरक्तकुक्कुटकुलैः श्वभ-
यादकालदर्शित कुसुमस्त बकैरिव रक्ताश्मेक विट पैर्विभूषिताङ्गणाम्, बलिरुधिर पानतृष्णया समा-
गतैश्च वेतालैरिव तालैर्दीयमानफलमुण्डोपहाराम्, शङ्का ज्वरकम्पितैरिव कदलिकाव नैर्मयोत्क-
ण्ट कितैरिव श्रीफलतरुखण्डैखा सोर्ध्वकेशैरिव खर्जूरवनैः समन्ताद्गहनीकृताम्, वनकरिकुम्भवि-
दलितरक्तमुक्ताफलानि रुधिरारुणानि बलिसिक्थलुब्धमुग्धकृकवाकुप्रस्तमुक्तानि विकिरद्भिर-
म्बिकापरिग्रहदुर्ललितैः क्रीडद्भिः केसरिकिशोर कैरशून्योद्देशाम्, प्रभूतरुधिरदर्शनोद्भूतमूर्च्छाप-
बिलिह्यमाने आखायमाने लोहिते लोचने नेत्रे यस्य स तेन । क्वचिदिति । कास्मंश्चितप्रदेशे शबरनिपाति-
तानां भिल्लव्यापादितानां वनमहिषाणां लोचनैरिव नेत्रैरिव रक्तोत्पलैः कोकनदैः । क्वचित्केसरिणां कण्ठीरवाणां
करजैर्नखैरिवागस्तिक का लैर्मुनिवृक्षमुकुलैः । क्वचिदिति । कचिच्छार्दूलानां द्वीपिनां सरुधिरैर्नखरैरिव
किंशुको ब्रह्मपादपस्तस्य कुसुमकुजालैः कृतो विहितः पुण्यः पवित्रः पुष्पप्रकरो यस्यां सा ताम् । अन्यत्रेति ।
अन्यस्मिन्स्थले कुटिलानि वक्राणि हरिणविषाणानि मृगशृङ्गाणि तेषां कोटयस्तासां कूटैः समूहैरङ्कुरितामिव
प्ररोहितामिव । सरसेति । सरसा या जिह्वा रसनास्तासां छेदशतैः पल्लवितामिव किसलयितामिव ।
रक्तेति । रक्तानि नयनसहस्राणि तैः कुसुमितामिव पुष्पितामिव । मुण्डमण्डलैः फलितामिव संजात फला-
मिव । उपेति । उपहारहिंसां बलिप्रमथनं दर्शयन्तीं प्रकटयन्तीम् । चण्डिकायाः संमुखवेदिकां वर्णयित्वा-
जणं वर्णयन्नाह~~ शाखेति । श्वभयात्कौलेयकभीतेः शाखान्तराले शाखाविचाले निलीनानि मध्यप्रविष्टानि
यानि रक्तकुटकुलानि लोहितताम्रचूडपटलानि येष्वेवंविधैरकाले दर्शितकुसुम स्तब कैरिव रक्ताशोकविटपै-
हितकडेलिवृक्षैर्विभूषितं शोभितमङ्गणमजिरं यस्याः सा ताम् । बलेरुपहारस्य रुधिरपानं रक्तास्वादनं
तस्य तृष्णया गर्धेन समागतैः तालैः । उच्चत्वसाम्येनाह-वेतालैरिति । तालफलानां मस्तकसाम्येनाह-
दीयमानेति । बीयमानानि फलान्येव मुण्डानि शिरांसि तान्येवोपहारो बलिर्यस्यै सा ताम् । कदलिकावने
कम्पातिशयं बिल्वखण्डे कण्टकातिशयं खर्जूरीवन ऊर्ध्वपत्रातिशयं व्यञ्जयिनुमुत्प्रेक्षते - शङ्केति । शङ्कापशु-
वधदर्शनजनिता तस्या यो ज्वरस्तापस्तेन कम्पितैरिव कदलिकावनै रम्भाकाननैः, भयेन भीत्योत्कण्ट कितैरिव
संजातरोमाञ्चैरिव श्रीफलतरुखण्डै:, त्रासेन भयेनोर्ध्वं केशा येषामेवंविधैरिव खर्जूरवनैः समन्ताद्गहनीकृताम् ।
सर्व॑तो व्याप्तामित्यर्थः । पुनः प्रकारान्तरेण तामेव विशेषयन्नाह – वनेति । वनकरिणां काननहस्तिनां कुम्भेभ्यो
विदलितानि विनिर्गतानि रक्तमुक्ताफलानि । कीदृशानि । रुधिरेण रक्तेनारुणानि लोहितानि । पुनः कीदृशानि ।
बलिसिक्थेषूपहारकणेषु लुब्धा आसक्ता मुग्धा ये कृकवाकवस्ताम्रचूडास्तैः पूर्वं ग्रस्तानि गृहीतानि पश्चान्मुक्ता-
नितानि विकिद्भिरितस्ततो विक्षिपद्भिः । अम्बिकायाः भैरव्याः परिग्रहेण स्वीकारेण दुर्दुष्टं ललितं चेष्टितं
येषां तैः क्रीडद्भिः क्रीडां कुर्वद्भिः केसरिकिशोर कैर्नखरायुधबालकैरशन्य उद्देशः प्रदेशो यस्याः सा ताम् ।
टिप्प० - 1 रुधिरपानतृष्णया समागतैस्तालै रित्यम्वयोऽशुद्धः । समागतैर्वेता लैरिव तालैरित्यु-
चितम् । 2 'रक्त' इति विशेषणयोजनं टीकाकर्तुरेव लाघवम्, 'रुधिरारुणानि' इत्यनुपदं दत्ततया पौन-
कत्त्यात् । 3 रुधिराक्कतथा पूर्व गृह्णद्भिस्ततो मांसाद्यभावास्परित्यजद्भिरित्याशयः । 4 चण्डिकायाः ।
 
पाठा०-१ लोहित. २ अगस्त्यतरुकुबालैः; अगस्तिकुसुमकुझल.. ३ प्रकरोपहाराम्. ४ निरन्तरनिलीन.
५ तृष्णासमागतैः . ६ खर्जूर, खजुर, ७ विदलितवनकरिकुलकुम्भविदलित मुक्ताफलानि ८ नवरुधिरारुणन लि.