This page has not been fully proofread.

रक्तध्वजस्य दर्शनम् ]
 
पूर्वभागः ।
 
परिणतवराटकघटितबुदु दार्धचन्द्रखण्डखचितम् सुतमहिषरक्षणावतीर्णदिनकरावतारितशशि-:
नेव विराजितशिखरम्, दोलायितटङ्गसङ्गिलोहशृङ्खलावलम्बमानघर्घरस्वघोरघण्टया च.
घटितकेसरिसटारुचिरचामरया काञ्चनत्रिशूलिकया लिखितनभस्तलम् इतस्ततः पथिकपु
रुषोपहारमार्गमिवालोकयन्तम्, महान्तं रक्तध्वजं दूरत एव ददर्श ।
 
४५५
 

 
·
 
2
 
तभिमुखश्च किंचिदध्वानं गत्वा केतकीसूचिखण्डपाण्डुरेण वनद्विरददन्तवाटेन परि-
वृताम्, लोहतोरणेन नवारक्तचामरावलिपरिकरां कालाय सदर्पणमण्डलमालां शबरमुखमाला-
मिष कपिलकेशभीषणां बिभ्राणेन सनाथीकृतंद्वारदेशाम्, अभिमुखप्रतिष्ठितेन च विनिहित -
रक्तचन्दनहस्तकतया रुधिरारुणयमकरतलास्फालितेनेव शोणित नवलोभलोलशिँवा विलिहा-
42
 
चितो व्याप्तो यो दण्डः स एव मण्डनं यस्य स तम् । परीति । परिणताः पक्का ये वराटकाः कपर्दकास्तेषां (तैः)
घटिता निर्मिता ये बुद्बुदाः स्थासका अर्धचन्द्राकृतिखण्डाश्च तैः खचितं व्याप्तम् । वर्तुलत्ववऋत्व साम्यादुत्प्रेक्ष
ते - सुतेति । सुतो यमस्तस्य महिषो रक्ताक्षस्तस्य रक्षणं त्राणं तदर्थमवतीर्णो यो दिनकरः सूर्यस्तेनावतारि-
तो यः शशी तेनेव विराजितं शोभितं शिखरमग्रभागो यस्य स तम् । दोलेति । दोलायिता या शृङ्गसङ्गिनी
लोहश्शृङ्खला तत्रावलम्बमाना घर्घररवा काहलखरा घोरा भीषणा घण्टा यस्यां सा तया । घटितेति । घटिता
या केसरिसटा तद्वद्रुचिराणि मनोहराणि चामराणि यस्यामेवंविधया काञ्चनत्रिशूलिकया लिखितं नभस्तलं येन
स तम् । इतस्तत इति । इतस्ततः पथिकपुरुषाणामध्वनीनपुंसामुपहारमार्गमिव बलिपन्थानमिवालोकयन्तं
पश्यन्तम् । अन्वयस्तु प्रागेवोक्तः ।
 
2
 
तदिति । तस्याभिमुखस्तत्संमुखः किंचिदध्वानं मार्ग गत्वाऽकारण क्रोधादयो द्रविडधर्मास्तद्वता जरी
यसा पुरुषेणाधिष्ठितामाश्रितां चण्डिकामपश्यदित्यन्वयः । अथ चण्डिकां विशिनष्टि - केतकीति ।
केतक्या या सूचित्रिपत्रकम् । 'त्रिपत्रकः सूचिरित्यभिधीयते' इत्यमरः । तस्य खण्डास्तद्वत्पाण्ड
शुभ्रेण, वनद्विरदा अरण्यहस्तिनस्तेषां दन्ता रदनास्तेषां कपाटेन लोकभाषया कटहरेण दन्तनिर्मितक-
पाटेन वा चतुर्दिक्षु परिवृताम् । आवृतामित्यर्थः । लोहिते । लोहमयं यत्तोरणं तेन सनाथीकृतो द्वारदेशो
यस्यास्ताम् । किं कुर्वता तोरणेन । बिभ्राणेन दधता । काम् । कालायसं लोहविशेषस्तस्य यानि दर्पणमण्डलानि
तन्मयी या माला वन्दनमाला ताम् । कीदृशम् । नवेति । नवानि यान्यारक्तचामराणि तेषामावलिः पतिः
सैव परिकरो यस्याम् । अत्र कालायसदर्पणस्यातिश्यामत्वाञ्चामरस्यातिरक्तत्वाच तत्साम्येनोत्प्रेक्षते - शब-
रेति । कपिलकेशभीषणां शबरमुखमालामिव । तेषां तु मुखानि श्यामानि, केशाश्च पिङ्गाः । अत उपमानोप-
मेयसाम्यम् । अभीति । अभिमुखं संमुखम् । चण्डिकाया इति शेषः । प्रतिष्ठितेन स्थापितेन लोहमहिषेणा-
ध्यासिताश्रिताञ्जनशिलावेदिका यस्याः सा ताम् । विनीति । विनिहिता दत्ता ये रक्तचन्दन हस्त का स्तेषां
भावस्तत्ता तया रुधिरेणारुणं यद्यमकरतलं युग्मपाणितलं तेनास्फालितेनेव, लोचनयोरतिलौहित्यवशात्रुधिर
भ्रमेणाह – शोणितेति । शोणितस्य रुधिरस्य नवः प्रत्यग्रो लोभस्तेन लोला या शिवा जम्बुकप्रिया तया
 
टिप्प० -1 वस्तुतस्तु बुहुदवत् ( बुद्बुदसमानः पीनो मध्यभागो यस्य) यः अर्धचन्द्रखण्डः (अर्ध
चन्द्राकारं भूषणम्) तेम खचितम् । चन्द्रखण्डे एकत्वमेवोचितं यतो ह्यमे उत्प्रेक्षते - सुतमहिषस्य रक्ष-
णार्थमवतीर्णेन दिनकरेण स्वसहचरश्चन्द्रोग्यवतारित इति । चण्डिकागृहे प्रत्यहं पशुबलयो दीयन्ते तदर्थं
यमः संनिहितः । एवं बालव्याकुलदायां पशुबुद्ध्या मा फेनचित् यममहिषो विहन्यतामिति सुत मेहेन
सूर्योऽवतीर्ण इत्युत्प्रेक्षाशयः । 2 त्रिशूलिकाया एव एक शृङ्गम् तद्वद्वा । 3 घटितं संयोजित केसरि
सटावत् चामरं यन्त्र तथा । मौलिकलशलम्बिते त्रिशूले चामरोपि लम्ब्यते । 4 'शोणितलवलोभ' इत्येव
कबेरभीष्टः पाठः । शोणितलव ( लेश ) स्थ लोभ इति तदर्थः ।
 
पाठा० -१ परिणद्ध; हाटकघटितबुद्बुदपुटार्धचन्द्र २ लोहशृङ्गलमाला, ३ केतकीसन्चितखण्डपाण्डुना च
४ कपाटेन. ५ रक्तचन्दननिहित ६ शोणितलवलोभ; शोणितलोभ, ७ शिवालिपमान.