This page has not been fully proofread.

४५४
 
कादम्बरी ।
 
[ कथायाम-
कुकुटकुलकौ-
कोपलभ्यमा नकलुषस्वरूपसलिलाभिः शुष्कगिरिनदिकासिर्विषमीकृतान्तरालया,
लेयकरटितानुमीयमानगुल्मगहन प्रामटिकया, शून्यया दिवसमटव्या गत्वा, पेरिणतर विविम्बे
बिम्बारुणातपविसरे वासरे, निःशाखीकृतकदम्बशाल्मलीपलाशबहुलैः शिखरशेषैकपल्लववि-
डम्बितातपत्रैः पादपैरूर्ध्वस्थितप्ररोह स्थूलस्थाणुमूलप्रन्थिजटिलैश्च हरितालकपिलपक्कवेणुविद
पर चितवृतिभिर्मृगभयकृततृणपुरुषकैर्विपाक पाण्डुभिः फैलिनैः प्रियकुप्रायैरटनी क्षेत्रैर्विरलीकृ-
तवन प्रदेशे चित्र प्ररूढस्य रक्तचन्दनतरोरुपरि बद्धम् सरसपिशित पिण्डनिभैरलक्तकैर भिनव-
शोणितारुणेन रक्तचन्दनरसेन चांद्रम्, जिद्दालतालोहिनीभी रक्तपताकाभिः केशकलापका-
न्तिना च कृष्णचामरावचूलेन प्रत्यप्रविशसितानां जीवानामिवावयवैरुपचितदण्डमण्डनम्,
 
-
 
मलिनं स्वल्पं स्तोकं सलिलं जलं यासु ताभिः । कुक्कुटेति । कुक्कुटकुलं ताम्रचूडवंशः, कौलेयकाः श्वानः तेषां
रटितं शब्दितं तेनानुमीयमाना संभाव्यमाना गुल्मगहने ग्रामटिका क्षुद्रग्रामो यस्यां सा तया । अथ वासरं
विशिनष्टि—बिम्बेति। बिम्बसंबन्धी योऽरुणो रक्त आतपः सूर्यालोकस्तस्य विसरः समूहो यस्मिन् । 'समु-
दायराशिविसरत्राताः कलापो व्रजः' इति कोशः । तथैवंविधैः पादपैरटवीक्षेत्रैश्च विरलीकृतोऽनिबिडीकृतो यो
वनप्रदेशो वनैकदेशस्तस्मिन् । अथ पादपान्विशिनष्टि - निःशाखीति । निःशाखीकृता निःशालीकृताः । वने..
चरैरिति शेषः । एवंविधाः कादम्बा नीपाः शाल्मल्यो वृक्षविशेषाः, पलाशा ब्रह्मपादपा बहुला "बाहुल्येन येषु
तैः । अनेन सरलत्वाद्दण्डरूपत्वं सूचितम् । शिखरेति । शिखरं वृक्षाग्रं तत्र शेषोऽवैशिष्ट एकः पल्लवः किसलयं
तेन विडम्बितान्यातपत्राणि छत्राणि यैः । अथ क्षेत्राणि विशेषयन्नाह - ऊर्ध्वेति । ऊर्ध्वस्थिताः प्ररोहा नवीना -
ङ्कुरौः स्थूलाः स्थाणवः शङ्कवश्च तेषां मूलग्रन्थिभिरप्रिन्थिभिर्जटिलैर्व्याप्तैः । हरितालं नटमण्डनं तद्वत्कपिलाः
पिङ्गला ये पक्कवेणुविर्टपाः परिणतवंशवृक्षास्तेषां रचिता वृतिः सुगहना येषां तैः । मृगेति । मृगा हरिणास्तेभ्यो
भयं भीतिस्तस्मात्कृतास्तृणपुरुषाश्चञ्चापुरुषा येषु तैः । विपाकेति । विपाकेन परिणत्या पाण्डुभिः पाण्डुरैः ।
फलिनैः फलवद्भिः । 'फलवान्फलिनः फली' इति कोशः । प्रियङ्गुः श्यामा प्रायो बाहुल्येन येषु तैः । सरसेति ।
सरसोऽशुष्को यः पिशितपिण्डो मांसपिण्डस्तस्य निभैः सदृशैरलक्तकैर्यावकैः । तथाभिनवं प्रत्यग्रं यच्छोणितं
रक्तं तद्वदरुणेन लोहितेन रक्तचन्दनं पत्राङ्गं तस्य रसेन चार्द्र समुन्नम् । जिह्वेति । जिह्वा एंव लता तद्वल्लो-
हिनीभी रक्ताभी रक्तपताकाभिहितवैजयन्तीभिः । केशेति । केशकलापवत्कान्तिर्यस्यैवंभूतेन कृष्णचामरस्य
.श्यामवालव्यजनस्यावचूलेनाधोमुखकूर्चकेन, प्रत्यग्रं तत्कालं विशसितानां हतानां जीवानामवयवैरपघनैरिवोप-
टिप्प० -- 1 वासरे, बिम्ब फलवत् अरुण आतप विसरो यस्मिन् एवंविधे सति । 2 शेषा एकैके (अर्थात्
विरलीभूताः, गुच्छकी भूताः ) ये पल्लवाः तैर्विडम्बितानि । कदम्बादीनामेकपत्रेणातपत्रत्वं न सिध्यति ।
3 ऊर्ध्वस्थिता नवीनाङ्कुरा येषां ते, तादृशा ये स्थूलाः स्थाणवः निःशाखास्त रुस्तम्बाः तेषां मूलग्रन्थिभिः ।
4 शाखाः । शाखार्थके विटपपदे सर्वत्र 'विटपि' भ्रमं तनुते भाग्यशाली । 5 तेषां भयाय ( मृगाः-रक्षा-
पुरुषान् ज्ञात्वा भयेन नागच्छेयुरिति ) । 6 जिह्वा लता इव तद्द्वल्लोहिनीभिरिति उपमितसमास एवो-
चितः, जिह्वाप्राधान्ये एव तासां लोहितत्वं वक्तुं शक्यम् । 7 जीवानामवयवैः उपरचितं दण्डस्य (केतु.
दण्डस्य ) मण्डनं भूषणं यस्य तमिव, इत्येवम् ' इव' शब्दस्यान्वयो योग्यः, पताकानां जिह्वातुल्यत्वात्
कृष्णचामरस्य केशसहशत्वादित्याशयः ।
 
पाठा० -१ ग्रामया; ग्रामकिया. २ परिणते रविबिम्बे ३ संध्यारुणा. ४ निःशाखीकृतैः ५ ऊवींकृत प्ररोह-
स्थूलस्थितस्थाणुमूलग्रन्थिजटिलैः; अर्धोद्धृतप्ररोहन्मूलस्थूलस्थाणुग्रन्थिजटिलैः ६ विटपिदलरचित; विटपदलविरचित;
चिटपपटलरचित, ७ फलितैः ८ दूरत एवाचिरप्ररूढस्य ९ रक्तचन्दनस्य तरो:० १० आर्द्रजिहा.