This page has not been fully proofread.

४५३
 
पूर्वभागः ।
 
भार्गे शून्याटवी ]
पतिपातितपादपपरिहारवक्रीकृतमार्गया, जनजनिततृणपर्ण काष्ठकोटिकूटप्रकटितवीरेपुरुषघात-
स्थानया, महापादपमूलोत्कीर्णकान्तारदुर्गया, तृषितपथिकखण्डितदलोज्झितामलकीफलनिक-
रया, विकसित कैरञ्जमञ्जरीरजोविच्छुरितत टैस्तट त रुबद्धपर्टेच रकर्पटध्वज चिह्रैरिष्टिकास्थित-
शुष्क पल्लव विष्टरानुमितपथिकविश्रामैर्विश्रान्तका र्पटिकैविस्फोटितधूलिधूसर किसलयलान्छितो-
पकण्ठैः पत्रसंकरासुरभीकृताशिशिरपङ्किलविवर्णाखा दुजलैव्रततिप्रन्थिग्रथितपर्ण पुटतृणपूली-
चिहानुमेयै जरत्कान्तारकूपैर सुलभ सलिलतयानभिलषितोद्देशया, मधुबिन्दुस्यन्दि
सिन्दुवारव-
नराजिरजोधूसरिततीराभिश्च कुञ्जकलताजालकैर्जटिलीकृत सैकताभिरध्वगोत्खातवालुकाकूप-
यस्यां सा तया। जनेनेति । जनेन लोकेन जनितं निष्पादितं यत्तृणं पर्णकाष्ठानां कोटी तस्याः कूटं शिखरं
तादृशचिहेन प्रकटितं वीरपुरुषाणां घातस्थानं यस्यां सा तया । सांप्रतमपि तथा कुर्वन्तीति सर्वलोके प्रसि
द्धम् । महेति । महापादपानामुच्चैस्तरवृक्षाणां मूलानि प्रसिद्धान्युत्कीर्णानि यस्मिन्जेवंभूतं कान्तारं वनं तदेव
विषमत्वाद्दुर्गं यस्यां सा तया । कान्तारं विशेषरूपम्, अटवी तु सामान्यरूपेति न पुनरुक्तदोषः । तृषितेति ।
तृषिताः पिपासिता ये पथिकजनास्तैः खण्डितानि द्वैधीकृतानि दलानि पत्राणि येषामेवंविधान्युज्झितानि रसा-
स्वादानन्तरं त्यक्तान्यामलकीफलानि तेषां निकरः समूहो यस्यां सा तया । जरमिति । जरन्तो जीर्णा ये
कान्तारकूपास्तैः कृत्वा न सुलभं सलिलं जलं यस्यां तस्या भावस्तत्ता तयानभिलषितो नेप्सितः । पान्थेनेति
शेषः । उद्देशः प्रदेशो यस्याः सा तया । अथ कान्तारकूपान्विशिनष्टि — विकसितेति । विकसिता विनिद्रा ये
करजा नक्तमालास्तेषां मञ्जर्यस्तासां रजोभिः परागैर्विच्छुरितानि धूसरितानि तटानि कूपोपकण्ठा येषां तैः ।
तटेति । तटतरुषु कूपोपकण्ठसमुद्भवत्रक्षेषु बद्धाः पटैच्चरैश्चारैः कर्पटध्वजः स एव कूपाभिव्यञ्जकं चिह्नं येषां
तैः । इष्टिकेति । इष्टिकाः स्थिता येषु, शुष्कपल्लव विष्टराः संस्तारकास्तैरनुमिताः पथिकानां विश्रामा येषु तैः ।
विश्रान्तेति । विश्रान्ताः स्थिता ये कार्पटिकास्तैर्विस्फोटिता दूरीकृता या धूली रजस्तया धूसराणि मलि-
नानि किसलयानि पल्लवास्तैर्लाञ्छितश्चिह्नित उपकण्ठो येषां तैः । पत्रेति । पत्रसंकरैः पर्णसमूहैरसुरभीकृतान्यत
एवाशिशिराण्यशीतलानि पङ्किलानि कर्दमयुक्तानि विवर्णान्य शुभवर्णान्य स्वादूनि खादु (द ) रहितानि जलानियेषां
तैः । व्रततीति । व्रततीनां वल्लीनां प्रन्थिभिर्मथिताः पर्णपुटयुक्तास्तृणपूल्यस्ता एव चिह्नानि तैरनुमातुं योग्यैः ।
शुष्केति । शुष्का गिरीणां नद्य एव नदिकाः । स्वार्थे कः । 'केऽणः' इति हवः । ताभिर्विषमीकृतं स्थपुटीकृत-
मन्तरालं मध्यं यस्याः सा तया । अथ नदिं विशेषयन्नाह - मध्विति मधुबिन्दुस्यन्दीनि यानि सिन्दुवा-
रवनानि निर्गुण्डीकाननानि तेषां राजिः पङ्किस्तस्या रजः परागस्तेन धूसरितानि तीराणि तटानि यासां ताभिः ।
कुञ्जकेति । कुञ्जकलताः प्रसिद्धास्तासां जालकैर्जटिलीकृतानि सैकतानि जलोज्झित पुलिनानि यासां ताभिः
अध्वगैरिति । अध्वगैः पथिकैरुत्खाताः खनिता वालुकासु कूपका विदारकास्तेषूपलभ्यमानं प्राप्यमाणं कलुष
 
टिप्प० - 1 तृण- पर्ण-काष्ठानां कोटिसंख्यका ये कूटाः तैः प्रकटितं वीरपुरुषाणामपि घातस्थानं यस्य
ला । वीरायिता अपि पान्थजनाः हिंस्रजन्तुभ्यो निजरक्षणार्थ तृणकाष्ठादीनां कूटं कृत्वा तन्मध्ये प्रविश्य
निशि निवसन्तीति भयङ्करत्वं सूच्यते । 2 'मूलेषु उत्कीर्णाः निस्तक्ष्य निर्मिताः कान्तारदुर्गा वनदुर्गाम
र्तयो यस्याम्' इति केचित् । 3 बद्धा ये पटच्चराणां जीर्णवस्त्राणां कर्पटा वस्त्रखण्डास्त एव ध्वजचिह्नं येषा-
मित्यर्थ: । 'पटच्चरं जीर्णवस्त्र' मित्यमरः । 4 इष्टकासु स्थिता ये शुष्कपल्लवानां विष्टरा: ( उपवेशनार्थमा
स्तरणानि ) तैः अनुमिताः । 5 तृषिताः पथिका रजत्राः पात्रस्य चाभावे, तृणैर्गुरुभारां पूल निर्माय तन्त्र
च पत्रपुटकं दृढमाधाय दीर्घलताभिर्बध्वा पत्रपुटकै जेलमुदञ्चन्तीति युक्तिः । 6 उच्चावचीकृतम्, प्रावृह-
जलप्रवाहे तलदेशो नतोन्नतो भवतीत्यर्थः । 7 क्षुद्रकुञ्जरूपेण जटिलीभूता लताः ।
 
पाठा० -१ पथया. २ वीरपुरुषहृदयघात. ३ कपिकच्छूच्छुरितमञ्जरी ४ जरत्कर्पट ५ इष्टकास्थित, इष्टकचित.
६ प्रस्फोटितचरण; प्रस्फुटित ७ तृणपुली; तृणोलुपपुलाक• ८ अनुमितप्रमेयैः• ९ कुब्जक.