कादम्बरी /485
This page has not been fully proofread.
४५२
कादम्बरी ।
[ कथायाम् -
जनकथाकीर्तनेषु स्मर्तव्यः खलु चन्द्रापीडः । चण्डालो मा चैवं मंस्थाः, यथा जीवन्पुन-
देवीचरणारविन्दवन्दनानन्दमननुभूय स्थास्यति चन्द्रापीड इति । महाश्वेतायाश्च सप्र
दक्षिणं शिरसा पादौ वन्दनीयौ । मदलेखायाच कथनीयः प्रणामपूर्वमशिथिलः कण्ठ-
ग्रहः। गाढमालिङ्गनीया च तमालिका । अस्मद्वचनादशेषः प्रष्टव्यः कुशलं कादम्बरीपरिजनः,
रचिताञ्जलिना च भगवानामन्त्रणीयो हेमकूटः' इति । एवमादिश्य तम्, 'सुहृदादिसाधनम-
केशयता शनैः शनैर्गन्तव्यम्' इत्युक्त्वा वैशम्पायनं स्कन्धावारभरे न्ययुङ्ग । स्वयमपि च
तथारूढ एव गमनहेलाहर्षहेषारवकम्पितकैलासेन खुरताण्डवखण्डितभुवा कान्तकुन्तल-
तावनवाहिना तरुणतुरगप्रायेणाश्व सैन्येनानुगम्यमानस्तमेव लेखहारकं पर्याणलग्नमभिनव-
कादम्बरीवियोगशुन्येनापि हृदयेनोज्जयिनीमार्ग पृच्छन्प्रतस्थे ।
क्रमेण यातिप्रवृद्धप्रकाण्ड पादपप्रायया, मालिनीलतामण्डपैर्मण्डलितत रुखण्डया, वनगज-
गच्छति । तथा प्रसङ्गतो जनकथा सौन (सेव्य) सेवककथा तस्यां कीर्तनेषु नामोच्चारणेषु खलु निश्चयेन चन्द्रापीलः
स्मर्तव्यः स्मरणीयः । अयं चण्डालः कृतघ्रत्वादेवं मा मंस्था मा जानीयाः यथा जीवन्पुनश्चन्द्रापीडो देव्याः
कादम्बर्याश्चरणारविन्दस्याङ्घ्रिपद्मस्य वन्दनं नमस्करणं तस्माद्य आनन्दः प्रमोदस्तमननुभूयानुभवविषयीकृत्य
स्थास्यति । अत्र काकुः न स्थास्यतीत्यर्थः । इति महाश्वेतायाश्च सप्रदक्षिणं प्रदक्षिणासहितं यथा स्यात्तथा
शिरसा, मस्तकेन पादौ वन्दनीयौ नमस्करणीयौ । तथा मदलेखायाश्च प्रणामो नमस्कारस्तत्पूर्वकमशिथिलः
कण्ठग्रहः कथनीयो वाच्यः । तथा गोढमत्यर्थमालिङ्गनीया परिरम्भणीया च तमालिका । अशेषः समग्रः
कादम्बरीपरिजनोऽस्मद्वचनात्कुशलं श्रेयः प्रष्टव्यः । रचिताञ्जलिना च त्वया भगवान्हेमकूटा ना (आ) मन्त्रणीय
आमन्त्रणीय इति पूर्वोक्तया दिशादिश्यादेशं दत्त्वा तं मेघनादम, सुहृदादिसाधनं मित्रादिसैन्यमक्लेशयताऽखेदयता
त्वया शनैः शनैर्गन्तव्यमित्युक्त्वा वैशम्पायन न्धावारभरे न्ययुत नियोजितवान् । स्वयमपि च तथा पूर्वो-
'कप्रकारेणारूढ एव गमनलक्षणा या हेला तया हर्षः तस्य हेषारवस्तेन कम्पितः कैलासो येन । खुरेति ।
खुरताण्डवेन खण्डिता भूर्येन स तेन । कान्तेति । कान्ता मनोहरा ये कुन्ता भल्लाः सरलत्वसाम्यात्त एव
लतास्तासां वनं तद्वाहिना । तरुण इति । तरुणा नव्या स्तुरगाः प्रायेण बाहुल्येन यस्मिन्नेवं विधेनाश्व सैन्येनानु-
गम्यमानस्तमेव पूर्वोक्तमेव लेखहारकं पर्याणं पल्ययनं तत्र लग्नम् । अभीति । अभिनवः प्रत्ययो यः काद-
म्बरीवियोगस्तेन शून्येनापि हृदयेनोज्जयिनीमार्ग पृच्छन्प्रतस्थे चचाल ।
.
क्रमेण चेति । स चन्द्रापीड: क्रमेण परिपाट्या शून्ययाऽटव्या दिवसं गत्वा वासरमतिक्रम्य । परीति ।
परिणतं रक्तं रविबिम्बं यस्मिन्नेवंभूते वासरे सायंसमयेऽटवी क्षेत्रैर्विरलीकृतो यो वनप्रदेशस्तस्मिन् । चिरेति ।
चिरप्ररूढस्य । बहुकालीनस्येत्यर्थः । रक्तचन्दनतरोः पत्राज्ञवृक्षस्योपरि महान्तं रक्तध्वजं पुरत एव
ददर्शेत्यन्वयः । इतोऽटव्या विशेषणानि–अतीति । अतिप्रवृद्धोऽतिवृद्धिं प्राप्तः प्रकाण्डः स्कन्धो येषामे-
तादृशाः पादपा वृक्षाः प्रायो बाहुल्येन यस्यां सा तया । मालीति । मालिनीसंज्ञिता या लता वल्लयस्तासां
मण्डपैर्मण्डलिताश्चक्रवालितास्तरुखण्डा वृक्षसमूहा यस्यां सा तया । वनेति । वनस्य यो गजपतिर्यूथ-
नाथस्तेन पातिता भग्ना ये पादपा वृक्षास्तेषां परिहारो वर्जनं तन्निमित्तकप्रतिबन्धवशाद्वक्रीकृतो मार्गः पन्था
५ भूमण्डलेन.
पाठा०-१ असज्जन. २ चन्द्रापीडचण्डाल... ३ सुहृदापि साधनम् . ४ आगन्तब्यम्.
६ वार्ताम्.