This page has not been fully proofread.

पूर्वभागः ।
 
चन्द्रापीडस्योज्जयिनीप्रस्थानम् ]
 
४५१
 
ताम्, प्रापिता भक्तिरलीककाकुकरणकुशलताम्, पातितमुपचारमात्रमधुरं धूर्ततायामात्मार्प-
णम्, प्रकटितं वायनसयोर्भिन्नार्थत्वम् । आस्तां तावदात्मा अस्थानाहितप्रसादा दिव्य-
योग्या देव्यपि वक्तव्यतां नीता। जनयन्ति हि पश्चाद्वैलक्ष्यमभूमिपातिता व्यर्थाः प्रसादा-
मृतदृष्टयो महताम् । न खलु तथा देवीं प्रति प्रबललज्जातिभारमन्थरं मे हृदयं यथा
महाश्वेतां प्रति । नियत मेनामली काथ्यारोपणवर्णितास्मद्गुणसंभारामस्थान पक्षपातिनीमसकृ-
दुपालप्स्यते देवी । तत्कि करोमि ? गरीयसी गुरोराज्ञा प्रभवति देहमात्रकस्य । हृदयेन
हेमकूटनिवासव्यसनिना लिखितं जन्मान्तरसहस्रस्य दास्यपत्रं देव्या हस्ते न दत्तमस्याः ।
दविकगौलिमकेनेव देवीप्रसादेन गन्तुं सर्वथा गतोऽस्मि पितुरादेशादुज्जयिनीम् । प्रसङ्गतो
 
काकुर्वक्रोक्तिस्तस्याः करणे कुशलतां दक्षतां प्रापिता । उपचारो बाह्यविनयस्तन्मात्रेण मधुरं मिष्टमात्मार्पणं भव-
बीयोऽहमिति स्वस्यार्पणं धूर्ततायां पातितं क्षिप्तम् । वायनसयोरिति । 'अचतुर - ' इत्यादिना निपातः ।
भिन्नार्थत्वं विसंवादित्वं प्रकटितमाविष्कृतम् । तावदादावात्मास्तां तिष्ठतु । ममेति शेषः । अस्थानेऽयोग्य आहितः
स्थापितः प्रसादो ययात एवाह - दिव्यानां योग्योचितैवंविधा देव्यपि कादम्बर्यपि दूरदेशागतेन चन्द्रापीडेन
कारणं विना कथं सख्यं प्राप्तेति वक्तव्यतां वचनीयतां नीता प्रापिता । मयेति शेषः । हि यस्मात्कारणादभूमि -
पातिता अस्थानपातिता व्यर्था निष्फलाः प्रसादामृतदृष्टयः प्रसन्नतापीयूषदृशः पश्चान्महतां वैलेक्ष्यं जनयन्त्यु-
त्पादयन्ति । स्थानविशेषे प्रीतिविशेषं प्रदर्शयन्नाह – न खल्विति । खलु निश्चये । न तथा देवीं प्रति काद-
म्बरीं प्रति प्रबला प्रकृष्टा या लज्जा त्रपा तस्या अतिभारोऽतिवीवधस्तेन मन्थरमलर्स मे मम हृदयं चेतो
यथा महाश्वेतां प्रति वर्तते । नियतं निश्चितमलीकाध्यारोपेण वर्णितः स्तुतोऽस्मद्गुणसंभारो यया तामस्थानेऽनु-
चितस्थळे पक्षपातो विद्यते यस्या एवंविधामेनां महाश्वेतां देवी कादम्बर्यसकृद्वारंवारमुपालप्स्यते । उपालम्भ
दास्यतीत्यर्थः । तकि करोमि । कोप्युपायो नास्तीत्यर्थः । अस्मिन्नर्थे हेतुं प्रदर्शयन्नाह - गरीयसीति ।
देहमात्रकस्य शरीरैमात्रधारिणो गुरोराज्ञा निदेशो गरीयसी गरिष्ठा प्रभवति जायते । हेमेति । हेमकूटे निवा-
सस्तव्यसनिना हृदयेन चित्तेन जन्मान्तरसहस्रस्य दास्यपत्रं लिखितमस्या देव्या हस्तेन दत्तम् । पितुरादेशाजन-
कनियोगा दुजयिनीं गन्तुं सर्वथाहं गतोऽस्मि । केन । देवीप्रसादेन । कादम्बर्या माहात्म्येनेत्यर्थः । देवयोनि-
त्वात्तस्या इति भावः केनेव । दविकगौल्मिकेनेव वनेचरसमूहेनेव । सोऽपि देवी उपोदकी तदनुरोधेनैव
 
C
 
टिप्प० - 1 लजाम् । 2 पुनः सर्वं मूलपाठं विनाश्य विरूपीकृतो ग्रन्थः । कियत्परिशोच्यता मनधि-
कारी । अस्तु, भत्रयं मूलं विलिख्य आवश्यकोर्थः सूच्यते । 'हृदयेन तु हेमकूटनिवासव्यसनिना लिखितं-
सर्वथा
जन्मान्तरसहस्रस्य दास्यपत्रं देव्याः । न दत्तमस्याटविकस्य गौमिकेनेव देवीप्रसादेन गन्तुम्,
गतोसि पितुरादेशादुजयिनीम् । प्रसङ्गतोऽसज्जनकथाकीर्तनेषु स्पर्तव्यश्चन्द्रापीडचण्डालः । मा चैवं
संख्या : - इति पाठः । टीका - तर्हि किं देवीं (कादम्बरीम्) सर्वथा विस्मृतवानेव, अत आह-गुरोः
( पितुः ) आज्ञा देहमात्रकस्य केवलं देहस्य प्रभवति, तज्जनितत्वात् । अत एव हि कुत्सासूचकः कप्र-
त्ययः । अतः केवलं देहमुजयिनीं नयामि । हृदयस्य तु हेमकूटनिवासो व्यसनतया परिणतः । अत
एतादृशेन हृदयेन तु ( कर्त्रा) नास्यैव जन्मनः कृते, अपि तु जन्मान्तरसहस्रस्य दास्यपत्र लिखित्वा
देव्याः समीपे दत्तम् ( अतो हृदयं तन्निकटे स्थास्यति ) । विस्मरणाभावे अन्यदपि कारणमाह-गौल्मि-
केन सेनाधिकृतेन आटविकस्य वनचरस्येव, देव्याः (कादम्बर्या: ) प्रसादेन अस्य ( अर्थात् मद्रूपय
जमस्य ) गन्तुं न दत्तम्, सेनाध्यक्षो यथा चपलं वनेचरं नियमयति तथा देव्या अनुग्रहो मामपीत्यर्थः ।
किन्तु केवलं पितुरादेशादेहमात्रेणोजयिनीं गतोस्मि ।
 
पाठा० -१ पातितमुपचारमधुरम्; प्रकाशितमुपचारमात्र मधुरम् २ धूर्ततयात्मार्पणम् ३ वृष्टयः ४ देवमात्रस्य,
हि देवमात्रकस्य ५ देव्या न मस्याटविकस्य गौल्मिकेनेव. ६ असंगत.