This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
चुम्बिन्युत्तमाङ्गे चुम्बन्नन्दयति । कुशलिन्यः प्रजाः । किं नु कियानपि कालो भ॑वतो
दृष्टस्य गतः । बलवदुत्कण्ठितं नो हृदयम् । देवी च सहान्तः पुरैम्लनिमुपनीता । अतो
लेख वाचनविरैतिरेव प्रेयाणकारणतां नेतँव्या' इति । शुकनासप्रेषिते द्वितीयेऽप्यमुमेवार्थ
लिखितमवाचयत् । अस्मिन्नेवावसरे समुपसृत्य वैशम्पायनोऽपि लेखद्वितयमपरमात्मी-
यमस्मादभिन्नार्थमेवादर्शयत् ।
 
अथ 'यथाज्ञापयति तातः' इत्युक्त्वा तथैव च तुरगाधिरूढः प्रयाणपटहमदापयत् ।
समीपे स्थितं च महेताश्वीयेन परिवृतं महाबलाधिकृतं बलाहकपुत्रं मेघनादनामानमादि-
देश – "भवता पत्रलेखया सहागन्तव्यम् । नियतं च केयूरकस्तामादायैतावतीं भूमि-
मागमिष्यतीति, तन्मुखेन विज्ञाप्या प्रणम्य देवी कादम्बरी - 'नन्वियं सां त्रिभुवननिन्द-
नीया निरनुरोधा निष्परिचया दुर्ग्रहा प्रकृतिर्मर्त्यानां येषामकाण्डविसंवादिन्यः प्रीतयो न
गणयन्ति निष्कारणवत्सलताम् । एवं गच्छता मयात्मनो नीतः स्नेह कपटकूटजालिक-
मरीचिचक्रं शिरोमणिदीप्तिपटलं तचुम्बिन्युत्तमाङ्गे शिरसि चुम्बंश्चुम्बनं कुर्वन्नन्दयति प्रमोदयति । प्रजाः प्रकृ-
तयः कुशलिन्यो मङ्गलवत्यः सन्ति । किं न्विति । किं नु भवतो दृष्टस्य कियानपि कालः समयो गतो व्यतीतः
तेन नोऽस्माकं बलवत्युत्कण्ठोत्कलिका जाता यस्मिन्नेतादृशं हृदयमस्ति । देवी च तवाम्बा सहान्तः पुरैम्लनिमु
बनीता प्रापिता । अत्र सहान्तः पुरैरित्यनेनोपमातरोऽपि त्वां समीहन्त इति सौजन्यातिशयः सूचितः । अतो
हैतोर्लेखवाचनस्य विरतिरेवावसानमेव प्रयाणकारणतां प्रस्थाननिमित्ततां नेतव्या प्रापणीया । शुकनासेन प्रेषिते
द्वितीयेऽपि लेखेऽमुमेवार्थं लिखितं लिपीकृतमवाचयदपठत् । अस्मिन्नेवावसरे समये समुपसृत्य समीपमागत्य
वैशम्पायनोऽप्यपरमात्मीयं लेखद्वितयमस्मात्स्वकीयलेखादभिन्नार्थमेकाभिधेयमेव, अदर्शयद्दर्शितवान् ।
 
अथेति । तद्वाचनानन्तरं यथाज्ञापयति यथाज्ञां दत्ते तातः पिता । इत्युक्त्वा तथैव पूर्ववदेव तुरगाधि-
रूढः प्रयाणपटहं प्रयाणभेरीमदापयद्दापितवान् । समीपे स्थितं महताश्वीयेन बलेन परिवृतं महाबलं सैन्यं तत्रा-
धिकृतं नियुक्तं बलाहकस्य पुत्रं मेघनादनामानमादिदेशादिष्टवान् । भवता त्वया पत्रलेखया सहागन्तव्यं समे-
सव्यम् । नियतं निश्चितं केयूरकस्तां पत्रलेखामादाय गृहीत्वैतावतीं भूमिमागमिष्यतीति तन्मुखेन केयूरकमुखेन
प्रणम्य देवी कादम्बरी विज्ञाप्या विज्ञप्तिविषयीकरणीया । नन्विति वितकें । तेषां मर्त्यानां या निरनुरोधा
निर्गतः कस्याप्यनुरोधः स्वकार्यप्रतिबन्धो यस्यां, निर्गतः परिचयः संख्यानुवृत्तिर्यस्याम् । दुर्ब्रहेति । दुर्दुष्टो
ग्रह आग्रहो हठो यस्यामेवंविधा प्रकृतिः स्वभावः सा प्रकृतिस्त्रिभुवन निन्दनीया स्यात् यत्तदोर्नित्याभिसंबन्धा-
द्वेषां मर्त्याना मकाण्डे प्रस्तावे विसंवादिन्यो व्यभिचारिण्यः त्रीतयो निष्कारणवत्सलतां निर्निमित्तहितकारितां न
गणयन्ति न मनस्यानयन्ति । एवममुना प्रकारेण गच्छता व्रजता मयात्मनः स्नेहः स्वकीया प्रीतिः कपटं कैतवं
तस्य कूटजालिका मिथ्या प्रपञ्चस्तद्रूपतां नीतः प्रापितः । भक्तिराराध्यत्वेन ज्ञानं वा साप्यलीका मिथ्या या
 
टिप्प० – 1 परमवाहेश्वरष्टीकाकारो न जानाति यत् ' किं नु' इत्यस्य किं स्वारस्यम् । अस्तु 'किन्तु'
इत्येव पाठः । 'सर्व कुशलं किन्तु...' इति तदर्थः । 2 वाचनावलानं न कारणम्, अतः 'प्रयाणकाल-
ताम्' इत्येव पाठः । 3 इति शब्दोत्र नोचितः । 4 परिज्ञानम् । 5 कपट: ( कपटकारी ) यः कूटजा-
लिकः असत्यव्यवहारवान् तद्भावस्ताम् ।
 
पाठा० -१ भवतोत्कृष्टस्य गतः; भवतो गतस्य. २ देवीसमेतं नो हृदयम् ३ यतस्ततः ४ अविरतिरेव.
५ प्रयाण काळताम् ; प्रयाणकालता. ६ कल्याणिना नेतव्या. ७ अवादग्रत् ८ समीपस्थितम्, समीपावस्थितम्.
९ महता श्वेताश्रीयेन..