कादम्बरी /482
This page has not been fully proofread.
पूर्वभागः ।
४४९
स्कन्धावारे तारापीडस्य पत्रप्राप्तिः ]
मस्य प्रत्युत्तरीचकार । चन्द्रापीडो ऽप्युभयथा
घटमानार्थतया संदेहदोलारूढेनैव चेतसा महा-
श्वेतया सह प्रीत्युपचयचतुराभिः कैथा भिर्महान्तं कालं स्थित्वा तथैव महता यत्नेन मोच-
यित्वात्मानं स्कैन्धावारगमनाय कादम्बरीभवनाभिर्ययौ । निर्गतं च तुरङ्गममारुरुक्षन्तं पश्चा-
दागत्य केयूरकोऽभिहितवान-मदलेखा विज्ञापयति- 'देवी कादम्बरी खलु प्रथम-
दर्शनजं नितप्रीतिः पत्रलेखां निवर्व्यमानामिण पायास्यति' इति श्रुत्वा देवः प्रमाणम् ।"
इत्याकर्ण्य चन्द्रापीडः 'केयूरक, धन्या स्पृहणीया पत्रलेखा यामेवमनुषत्राति दुर्लभो देवी-
प्रसादः । प्रवेश्यताम् ।' इत्यभिधाय पुनः स्कन्धावारमेवाँ जगाम । प्रविशन्भेष पितुः समीपा-
दागतमैभिज्ञाततरमालेखहारकमद्राक्षीत् । धृततुरङ्गमथ प्रीतिविस्फारितेन चक्षुषा दूरादेवा-
P
पृच्छत् – 'अङ्ग, कचित्कुशली तातः सह सर्वेण परिजनेन ? अम्बा च सर्वान्तः पुरैः ?' इति ।
अथासावुपसृत्य प्रणामानन्तरम् 'देव, यथाज्ञापयसि' इत्यभिभाय डेसद्वितयमर्पयांबभूव ।
युवराजस्तु शिरसि कृत्वा स्वयमेव च तदुन्मुच्य क्रमशः पपाठ-
सकलराजन्यशिखण्डशेखरीकृतचरणारविन्दः परममाहेश्वरो महा-
राजाधिराजो देवस्तारापीड: सर्वसंपदामायतनं चन्द्रापीडमुदञ्चच्चारुचूडामणिमरीचिचक्र-
'स्वस्त्युज्जयिनीतः
एतत्कृतो मम विरहो मत्कृतश्चास्या इत्युभयथोघटमानार्थतया विरहतापः सोढुं शक्यो न वेति संदेहदोला-
रूढेनैव चेतसा महाश्वेतया सह प्रीत्युपचयो रसपुष्टिस्तत्र चतुराभिर्दक्षाभिः कथाभिर्वार्ताभिर्महान्तं
स्थित्वावस्थानं
श्वस्य
कालं च
मुक्ति विधाय
कृत्वा तथैव पूर्वप्रकारेणैव महता यत्नेनात्मानं मोचयित्वा
स्कन्धावारगमनाय
खसैन्यनिवेशगमनाय । 'स्कन्धावारोऽस्य तु स्थितिः' इति कोशः ।
चन्द्रापीडोऽपि कादम्बरीभवनान्निर्ययौ निर्जगाम । निर्गत च तुरङ्गममश्वमारुरुक्षन्तमारोदुमिच्छन्तं पश्चादाग-
त्यैत्य केयूरकोऽभिहितवान् । किं तदित्याह- देवेति । हे देव, मदलेखा विज्ञापयति विज्ञप्तिं करोति ।
एतदेव दर्शयति — देवेति । खलु निश्चयेन देवी कादम्बरी प्रथमदर्शनेन जनिता प्रीतिर्यस्या एवंभूता पत्रलेखां
निवर्त्यमानामिच्छति समीहते । पश्चाद्यास्यति गमिष्यति । इति श्रुत्वा देवः प्रमाणम् । इत्याकर्ण्य चन्द्रा-
पीडः प्रवेश्यतां गृहीत्वा गम्यतामित्यभिधायेत्युक्त्वा पुनः स्कन्धावारमेवाजगाम । इति शब्दयोत्यमाह -
केयूरकेति । हे केयूरक, धन्या स्पृहणीया च पत्रलेखा यां पत्रलेखां दुर्लभो दुःप्रापो देवीप्रसादः कादम्बरी-
प्रसन्नता एवं अनुबधात्यनुबन्धं करोति । स्कन्धावार प्रविशन्नेव पितुः समीपाजनकपार्श्वादभिज्ञाततरमतिशयेन
ज्ञातपूर्वमासमन्ताल्लेखैहारकमुदन्तहारकमद्राक्षीत् । धृततुरङ्गश्च स्थापिताश्वश्च प्रीत्या नेहेन विस्फारितेन
विस्तीर्णीकृतेन चक्षुषा दूरादेवापृच्छत् । हे अङ्ग । कञ्चिदिति प्रश्ने । तातः पिता कुशली वर्तते । सर्वेण परि-
जनेन सह । तथा सर्वान्तःपुरैः सहाम्बा माता च कुशलिनीति । अथेति प्रश्नानन्तरम सावुपसृत्योपसरणं
कृत्वा प्रणामानन्तरं नमस्कृतेरनु हे देव, यथाज्ञापयति यथा कथयसि तथास्तीति भावः । इत्यभिधाय लेख-
द्वितयमर्पयांबभूवार्पितवान्। युवराजस्तु चन्द्रापीडस्तु शिरसि कृत्षा मस्तके निधाय खयमेवात्मनैव तल्लेख-
द्वयमुन्मुच्योन्मुद्य क्रमशः पपाठ पठितवात् ।
.
.
किं तदित्याह – स्वस्तीति । स्वस्ति यथा स्यात्तथोजयिनीतो विशालातः सकलराजन्यानां समग्रभूपानां
शिखण्डैश्चूडाभिः शेखरीकृतं चरणारविन्दं यस्य स परममाहेश्वरोत्युत्कृष्टशैवो महाराजाधिराजो महतां राज्ञाम-
धीशस्तारापीडः सर्वसंपदां समप्रसमृद्धीनामायतनं गृहमेवंभूतं चन्द्रापीडमुददुलस चारु मनोहारि यचूडामणि -
टिप्प० -1 'कुमारभाव' शब्दस्य कौमार्य स्खमित्रनुरागवेति प्रकारहबेन घडितलया । 2 घन्मः !
आलेखहारकः पत्रवाहकः ।
पाठा० -१ मधुरालापगर्भाभिः कथाभिः, १ निजस्कन्धावार. ३ अभिजगाम; जगाम ४ अभिजाततरम्.
५७ का०