कादम्बरी /481
This page has not been fully proofread.
कादम्बरी ।
[कथायाम्-
४४८
न्दुपातेन वर्तते । मुक्ताभरणतां गृहाण । स्वयंवरार्हाणि प्रसाधनानि । कुसुमशिलीमुखान्त-
हिता शोभते यथा लता' इति ।
अथ कादम्बरी बालतया स्वभावमुग्धापि कंदर्पणोपदिष्टयेव प्रज्ञया तमशेषमस्याव्यक्त-
व्याहारसूचितमर्थ मनसा जगाह । मनोरथानां तु तावतीं भूमिमसंभावयन्ती शालीनतां
चावलम्बमाना तूष्णीमेवासीत् । केवलमुत्पादितान्यव्यपदेशा तत्क्षणं तमाननामोदमधु-
करपटलान्धकारितं मुखं द्रष्टुमिव स्मितालोकमकरोत् । ततो मदलेखा प्रत्यवादीत्-'कुमार,
किं कथयामि । दारुणोऽयमकथनीयः खलु संतापः । अपि च कुमारभावोपेताया: किमि -
बास्या यन्न संतापाय । तथा हि । मृणालिन्याः शिशिरकिसलयमपि हुताशनायते ।
ज्योत्नाण्यातपायते । मनु किसलयतालवृन्तवातैर्मनसि जायमानं किं न पेश्यति भवा-
खेदम् । श्रीरत्वमेव प्राणसंधारणहेतुरखाः' इति । कादम्बरी तु हृदयेन तमेव मदलेखालाप -
1
त्यर्थः । एतेनाश्रुपातस्य नैरन्तर्य सूचितम् । मुक्तानामाभरणानि तेषां भावो मुक्ताभरणता तां गृहाण स्वीकुरु ।
स्वयमात्मना वराणि प्रधानान्यर्हाणि योग्यानि प्रसाधनानि प्रतिकर्माणि । कुर्विति क्रियाध्याहारः । कुसुमानि
पुष्पाणि, शिलीमुखा भ्रमराः; ताभ्यामन्तर्हिताच्छादिता यथा लता वल्ली शोभते राजते तथा त्वमपीति भावः ।
शुक्लत्वसाम्यान्मुक्तानां कुसुमसाम्यम्, नेत्राञ्जनस्य कृष्णत्वसाम्यामरसाम्यमिति भावः ।
अथेति । तदनन्तरं कादम्बरी बालतया शिशुतया स्वभावेन मुग्धापि सरलाशयापि कंदर्पेण मदनॊप-
दिष्टयेव दर्शितयेव प्रज्ञया तमशेषं सगग्रमव्यक्तव्याहारोऽस्फुटभाषितं तेन सूचितं ज्ञापितमुपभोगविषयकं रहः-
संगमरूपं वार्थ मनसा जग्राह गृहीतवती । मनोरथानां त्वभिलाषाणां तु तावतीं भूमिं संगमरूपलक्षणामसंभाव-
यन्त्यवितर्कयन्ती शालीनतां दृष्टतां चावलम्बमाना । 'दृष्टेः शालीनशारदौं' इति कोशः । तूष्णीमेवासीत् ।
केवलमुत्पादितोऽन्यन्यपदेशो मिषं ययैवंभूता तत्क्षणमाननस्यामोदस्तस्माद्यन्मधुकरपटलं तेनान्धकारितमन्धका-
खदाचरितं मुखमाननं द्रष्टुमिव स्मितालोकं स्मितलक्षणमालोकं प्रकाशमकरोत् । स्मितेन दन्तज्योत्स्नाया
बहिर्निर्गमेन प्रकाशसंभवात् । ततो मदलेखा प्रत्यवादीत् । कुमार, किं कथयामि किं ब्रवीमि । अयं दारु-
णस्तीब्रोऽकथनीयो वक्तुमशक्यः खलु निश्चयेन संतापः । अपि चेति युक्त्यन्तरे । कुमारभावोपेताया
अस्याः किमिन यक्ष संतापाय भवति । तदेव दर्शयति — तथा हीति । मृणालिन्याः कमलिन्याः शिशिर
किसलयमपि हुताशनायते वह्निवदाचरति । ज्योत्स्नापि चन्द्रिकाप्यातपायते सूर्यालोकायते । नन्विति वितकें ।
किसलयानि पलवास्त एव तालवृन्तानि तेषां वातैः पवनैर्मनसि जायमानं खेदं भवान्कि न पश्यति ।
अतोऽस्याः कादम्बर्या धीरत्वमेव प्राणसंधारणे जीवितधारणे हेतुर्निमित्तमिति । कादम्बरी तु हृदयेन तमेव
पूर्वोतमेव मदलेखालापं मदलेखाजल्पितमस्य चन्द्रापीडस्य प्रत्युत्तरीचकार । प्रतिवचः प्रादादित्यर्थः ।
'
टिप्प०- 1 शालीनंपदस्य अष्टष्टः ( विनीतः ) इत्यर्थः, 'स्यादष्टे तु शालीनः' इत्यमरः । अग्रे
शैकाकारशिरोमणेरिच्छा !! 2 अस्मिन्नर्थे 'तमाननामोद' इति 'तम्' अनन्वितं भवति । वस्तुतस्तुं
"मुरूम्' इति नास्त्येव । मधुकरपटलान्धकारितं तम् ( चन्द्रापीडम्) द्रष्टुमिव स्मितालोकमकरोदिति
पाठेऽजिन्स्पष्टोऽर्थः । 3 अत्रापि तत्याज सारमेवार्थम् । कुमारभावोपेतायाः (कौमार्ययुक्ततया सुकुमा-
रायाः ) भयोः सर्व संतापायेति प्रकटोऽर्थः । कुमारे (अर्थात् त्वयि ) भावोपेताया अनुरक्तायाः अथवा
कुलितो मारो यस्मादीडशे त्वयि, किं वा कुत्सितो यो मारः तस्य भावोपेताया आवेशक्रियां प्राप्तायाः
अस्याः विरडोद्दीपकतया सर्वमपि वस्तुजातं तापायेति व्यङ्ग्योर्थः । 4 हे धीर ! त्वमेव संप्रति अस्याः
प्राणसंधारणे हेतुः, स्वां प्राध्यैव सेयं जीवितुं शक्नुयादिति गूढोऽर्थः ।
पाठा० -१ मङ्गलप्रसाधनानि २ सकुसुमशिलीमुखा हि शोभते नवा लता. ३ सुकुमार. ४ ननु किसलय.
५ पश्यसि. ६ कादम्बरीहृदयेन.