This page has not been fully proofread.

द्वयोः समझि भाषणम् ]
 
पूर्वभागः ।
 
४४७
 
विचलसंतापतत्रो व्याधिः । सुतनु, सत्यं न तथा त्वामेष व्यथयति यथास्मान् । इच्छामि
देहेदानेनापि स्वस्थामन्त्रभवतीं कर्तुम् । उत्कम्पिनीमनुकम्पमानस्य कुसुमेषुपीडया पतिताम-
वेक्षमाणस्य पततीव मे हृदयम् । अनङ्गदे तनुभूते ते भुजलते गाढसंतापतया च दृष्टया वहसि
स्थलकमलिनीमिव रक्ततामरसांम् । दुःखितायां च त्वयि परिजनोऽपि चानवरतकृताश्शुबि -
 
कृत्यायमविचलो यः संतापस्तस्य तन्त्र आधीन एवंविधोऽपि व्याधिः प्रवृत्तः । हे सुतनु हे कादम्बरि, सत्य
मिदं नौपचारिकं वचः, त्वामेष व्याधिर्न तथा व्यथयति पीडयति यथास्मान् । देहदानेनाप्यत्रभवतीं पूज्यां
स्वस्थां सज्जां कर्तुमिच्छाम्यभिलषामि । उत्कम्पिनीं त्वां प्रत्यनुकम्पमानस्यानुकम्पां कुर्वाणस्य कुसुमेषुः कंदर्प-
स्तस्य पीडया पतितां स्रस्तामवेक्षमाणस्य पश्यतो मे मम हृदयं चेतः पततीव । कादम्बर्या विरहकार्यं प्रकटय
नाह -- अनङ्गदे इति । गाढसंतापतया तनुभूते ते भुजलते अनङ्गदे बाहुभूषणवर्जिते दृष्ट्या कृत्वा रक्तता-
मरसां स्थलकमलिनीमिव त्वं वहसि । अत्र कृशभुजलतयोर्मृणालसाम्यम्, नेत्रयो रक्ततामरससाम्यमिति
भावः । त्वयि दुःखितायां सत्यां परिजनोऽप्यनवरतं निरन्तरं कृतो योऽश्रुबिन्दुपातस्तेन वर्तते प्रवृत्तो भवती -
 
7
 
टिप्प० - 1 धिग ग्रन्थघातिनम् ! सर्वथा अनुचितोऽत्र 'अपि:' । ग्रन्थस्य मेरुदण्डस्वरूपो व्यङ्ग्य-
चमत्कारपूर्णोऽप्ययं भागष्टीकाकारेण न तस्वतः परिज्ञातः । सत्यं केवलं बालकवत् पर्यायशब्दान्वेषण
एवाभिज्ञः सोयम् । अस्तु. वाक्संदर्भस्यास्य व्यङ्ग्योऽर्थः प्रकाश्यते । काम् ( अनिर्वचनीयाम् ) अरविं
निमित्तीकृत्येति प्रकटोऽर्थः । कामरति मदनानुरागमिति व्यङ्ग्योऽर्थः । देहदानेन शरीरावसामं कृत्वापि
त्वां सुस्थां कर्तुमिच्छामीति प्रकटोऽर्थः । रतिकाले देहार्पणेनेति व्यङ्ग्योर्थः । अत्र 'सुतनु' इति संबोधनमपि
रतकालिकं सर्वावयवसौन्दर्य हृदयाकर्षकमभिव्यनक्ति । उत्कम्पिनीं व्याधिवशादत्यन्तकम्पवत त्वाम् अनु
( लक्ष्यीकृत्य) कम्पमानस्य तव कम्पं दृष्ट्वा कम्पयुक्तस्येत्यर्थः । तथा पीडया कुसुमेषु पुष्पेषु पतितां शयि-
तामवलोकमानस्य मे हृदयं पततीव तब कष्टं दृष्ट्वा बहिर्निर्गच्छतीव । इति प्रकटोऽर्थः । उत्कम्पिन प्रबल-
कामोदयात्कम्प (साविकभाव) वर्ती त्वाम् अनुकम्पमानस्य रमणद्वारा दयापात्रं कर्तुमिच्छतः, कुसुमेषु
(काम) पीडया पतितां शिथिलतनुम् अवेक्षमाणस्य मे हृदयं पततीव रमणाय धावतीवेति व्यङ्गयोर्थः ।
अनङ्गदे इत्यादेः प्रकटोर्थो यथाकथंचित्प्रकटीकृत एव । हे अनङ्गदे ( कामवर्धिके!) ते भुजलते काम
पीडया तनु (कृशी) भूते, गाढसंतापया दृष्ट्या च स्थले ( पद्मिनी चित्रिणीत्यादिनायिकाकीर्णस्थले ) कम-
लिनी पद्मिनीनायिका रूपमात्मानं वहसीव, तथा भरसां (शृङ्गाररहिताम्, रमणरूपशृङ्गारप्रयोजनरहिताम्)
रक्तता अनुरक्ततां वहसीव । तीव्रमदनसंतापसूचिकया दृष्ट्या पद्मिनीभूतस्यात्मनो रमणफलवञ्चितं
मदनानुरागं सूचयसीवेति व्यङ्ग्योर्थः । 2 'पातेन वर्तते' इतोप्रे सर्वोपि पाठष्टीकाकारेण अंशितः । अत
एष 'अश्रुबिन्दुपातेन वर्तते मुक्ताभरणता । गृहाण स्वयंवरार्हाणि मङ्गलप्रसाधनानि । सकुसुमशिलीमुखा
हि शोभते नवा लता' इति पाठः । टीकासाहाय्येन प्रकटोर्थो ज्ञायेत । अश्रुबिन्दुपातेन तासु (सखीषु) मुक्ता-
नामाभरणयुक्तता, अर्थात् अश्रुद्वारा मुक्ताभूषणभूषिताः सन्तीति । व्यङ्ग्योर्थस्तु तव दुःखेन परिजने व्यक्त
भूषणता ( निराभरणता ), अत एव त्वं स्वयंवर (विवाह) योग्यानि मङ्गलाभरणानि गृहाण, नवा लता
नास्ति बालता ( शैशवम् ) यत्र सा नवालता ( अर्थात् युवतिः, श्लेषे बनयोरभेदः ) सकुसुमशिली-
मुखा कुसुमशिलीमुखेन ( पुष्पारेण, कामेन ) सहिता शोभते, न पुनः कामेन रहिता । इति द्वयोः
पाठयोस्तारतम्यं सहृदयैस्तुलनीयम् ।
 
पाठा० - १ तामयं व्यथयति यथा माम् २ देहप्रदानेन. ३ अनङ्गतनुभूते; अनङ्गदेवतनुभूते. ४ गाढसंतापया.
५ दुःखितायामपि जयि; अपि चानवरत ६ परिजनेऽपि वा.