2023-09-13 02:15:57 by Lakshmainarayana achar

This page has been fully proofread twice.

एकदा तु नातिदूरोदिते नवनलिनदलसंपुटभिदि [^१]किंचिन्मुक्तपाटलिनि [^२]भगवति सहस्रमरीचिमालिनि राजानमास्थानमण्डपगतमङ्गनाजनविरुद्धेन वामपार्श्वावलम्बिना कौक्षेयकेण संनिहितविषधरेव चन्दनलता भीषणरमणीयाकृतिः, अविरल [^३]मलय [^४]जानुलेपनधवलितस्तनतटोन्मज्जदैरावत- कुम्भमण्डलेव मन्दाकिनी, [^५]चूडामणिप्रतिबिम्बच्छलेन राजाज्ञेव मूर्तिमती राजभिः शिरोभिरुह्यमाना, शरदिव कलहंसधवलाऽम्बरा, जामदग्न्यपरशुधारेव वशीकृतसकल-
राजमण्डला, विन्ध्यवनभूमिरिव वेत्रलतावती, राज्याधिदेवतेव विग्रहिणी प्रतीहारी [^६]समुपसृत्य
 
वासरमनैषीत् । एवं तथैव निशां त्रियामामपि । सुहृद्भिर्मित्रैरुपेतः संयुतः । कीदृशैः । आरब्धेति । आरब्धाः प्रारब्धा ये विविधक्रीडासु परिहासास्तेषु चतुरैर्दक्षैः अनैषीदगमयदिति संबन्धः ।
एकदेति । एकस्मिन्समये प्रतीहारी द्वारदेशे नियुक्ता स्त्री समुपसृत्य निकटदेशमागत्य राजानं सविनयमब्रवीदित्यन्वयः। विनयेन सहवर्तमानमवोचदित्यर्थः । सूर्यवर्णनाव्याज उक्त्यवसरमाह - भगवतीति । श्रीसूर्ये सतीत्यर्थः । इतः सूर्यं विशेषयन्नाह – सहस्त्रेति । सहस्रसंख्या ये मरीचयः किरणास्तै- र्मालते शोभते तान्धारयतीति वा यः स तथा तस्मिन् । नेति । नातिदूरं स्वल्पकालीनमुदितमुद्गमनं यस्य स तथा तस्मिन् । नवेति।
नवानि प्रत्यग्राणि यानि नलिनानि तेषां दलानि पत्राणि तेषां यः संपुटो मुकुलस्तं भिनत्तीति स तथा तस्मिन् । किंचिदिति । किंचिदीषन्मुक्तः परित्यक्तः पाटलिमा श्वेतरक्तत्वं येन स तथा तस्मिन् । दूरोदितेत्यारभ्य त्रिभिर्विशेषणैः प्रत्यूषसमयो व्यज्यते । कीदृशं राजानम् । आस्थानेति । आस्थानमण्डप उपवेशनस्थलं तत्र गतं प्राप्तम् । प्रतीहारीं विशेषयन्नाह - भीषणेति । भीषणा भयानका रमणीया मनोज्ञाऽऽकृतिराकारो यस्याः सा तथा । रमणीयत्वे दृष्टान्तमाह - चन्दनलतेवेति । यथा चन्दनलता वस्तुस्वभावादेव रमणीया तथेयमपीत्यर्थः । लताया भीषणत्वे हेतुमाह-संनिहितेति । संनिहिताः पार्श्ववर्तिनो विषधराः सर्पा यस्याः सा तथेत्यर्थः । अस्या भीषणत्व आगन्तुकहेतुमाह - वामेति । वामपार्श्वे सव्यप्रदेशेऽवलम्बतेऽवतिष्ठत इत्येवंशीलेन कौक्षेयकेन खङ्गेन । 'तरवारिर्मण्डलाग्र: खङ्गकौक्षेयकौ' इति कोशः । खङ्गं विशिष्टि - अङ्गनेति । अङ्गनाजन: प्रमदावर्गस्तस्य विरुद्धेन । त्रपोत्पादकेनेत्यर्थः । यथा चन्दनलताया निसर्गतो रमणीयत्वेऽपि संनिहितविषधरत्वेन भीषणत्वं तथैतस्या अपि स्वभावतो बन्धुरत्वेऽपि वामपार्श्ववर्तिनिस्त्रिंशत्वेन भीषणत्वमित्यभिप्रायः । अथ प्रतीहारीं विशिनष्टि — अविरलेति । अविरलं घनतरं यन्मलयजस्य चन्दनस्यानुलेपनमुद्वर्तनं तेन धवलितं शुक्लीकृतं
स्तनतटं कुचतटं यस्याः सा तथा । तत्र दृष्टान्तमाह - मन्दाकिनीव स्वर्धुनीव । इतो गङ्गां विशेषयन्नाह-उन्मजदिति । उन्मज्जन्स्नानं कुर्वन्य ऐरावतो हस्तिमलस्तस्य कुम्भमण्डलं शिरःपिण्डचक्रवालं यस्यां सा तथा । चन्दनशुभ्रकुम्भोपमानेन कुचतटस्य काठिन्यं व्यज्यते । केव । मूर्तीति । मूर्तिमती विग्रहवती राजाज्ञेव नृपशिष्टि-
रिव । ननु राजाज्ञा संनिहितराजशिरोभिरुह्यमाना भवेत् । इयं तु तथा न भवतीत्यत आह -चूडेति । अर्थात्संनिहितराजमस्तकेषु चूडामणयः शिरोमणयस्तेषु यः प्रतिबिम्बः प्रतिच्छायस्तस्य छलं मिषं तेन । राजभिर्नृपैः शिरोभिरुत्तमारुह्यमाना [^F]वहमना । पुनः केव । शरदिव घनात्यय इव । उभयत्र विशेषणसाम्यमाह-
कलहंसेति । कलहंसा एव कलहंस इव वा धवलं शुभ्रमम्बरं वस्त्रं यस्याः सा तथा । पुनः केव। जामदग्न्येति । जमदग्नेर्गोत्रापत्यं जामदग्न्य: परशुरामस्तस्य परशुः कुठारस्तस्य धारा प्रान्तप्रदेशस्तद्वदिव । उभयविशेषणसाम्यमाह-वशीति । वशीकृतं स्वायत्तीकृतं क्रूरत्वेन व्यामोहेन वा सकलराज्ञां समग्रभूपतीनां मण्डलं चक्रं यया सा तथा । पुनः केव । विन्ध्यस्येति । विन्ध्यस्य जलबालकस्य वनमरण्यं तस्य भूमिः पृथिवीव तत्सदृशीव । उभयत्र साम्यमाह — वेत्रेति । वेत्राणां वेतसानां लताः सरलवृक्षा यत्र । पक्षे वेत्रस्य लता यष्टिः । हस्त इति शेषः । यस्याः सा तथा । पुनः केव । राज्येति । राज्यस्याधिपत्यस्याधिष्ठात्री सांनिध्यकारिणी देवतेव सू (सु) रीवे-
 
 
[^1]F. धार्यमाणेत्यर्थः ।
 
[^१]G. उन्मुक्त,
[^२]G. भगवति मरीचि.
[^३]G. चन्दना
[^४]G. अनुलेप.
[^५]G. चूडामणिसंक्रान्तप्रतिबिम्ब
[^६]G. समुपासृत्य,