This page has not been fully proofread.

चाण्डालकन्य कायाः प्रवेशः ]
 
पूर्वभागः ।
 
१५
 
एकदा तु नातिदूरोदिते नवनलिनदलसंपुटभिदि किंचिन्मुक्तपाटलिनि भगवति सहस्र-
मरीचिमालिनि राजानमास्थानमण्डपगतमङ्गना जनविरुद्धेन वामपार्श्वावलम्बिना कौक्षेयकेण
संनिहितविषधरेव चन्दनलता भीषणरमणीयाकृतिः, अविरलमै लय जानुलेपनधवलितस्तनत-
टोन्मज्जदैरावत कुम्भमण्डलेव मन्दाकिनी, चूडामणिप्रतिबिम्बच्छलेन राजाज्ञेव मूर्तिमती रा-
जभिः शिरोभिरुह्यमाना, शरदिव कलहंसधवलाम्बरा, जामदग्न्यपरशुधारेव वशीकृतसकल
राजमण्डला, विन्ध्यवनभूमिरिव वेत्रलतावती, राज्याधिदेवतेव विग्रहिणी प्रतीहारी समुपसृत्य
 
वासरमनैषीत् । एवं तथैव निशां त्रियामामपि । सुहृद्भिर्मित्रैरुपेतः संयुतः । कीदृशैः । आरब्धेति । आरब्धाः
प्रारब्धा ये विविध क्रीडासु परिहासास्तेषु चतुरैर्दक्षैः अनैषीदगमयदिति संबन्धः ।
 
एकदेति । एकस्मिन्समये प्रतीहारी द्वारदेशे नियुक्ता स्त्री समुपसृत्य निकटदेशमागत्य राजानं सविनयम-
ब्रवीदित्यन्वयः। विनयेन सहवर्तमानमवोचदित्यर्थः । सूर्यवर्णनाव्याज उत्तयवसरमाह - भगवतीति । श्रीसूर्ये
सतीत्यर्थः । इतः सूर्यं विशेषयन्नाह – सहस्त्रेति । सहस्रसंख्या ये मरीचयः किरणास्तैर्मालते शोभते तान्धार
यतीति वा यः स तथा तस्मिन् । नेति । नातिदूर खल्पकालीनमुदितमुद्गमनं यस्य स तथा तस्मिन् । नवेति ।
नवानि प्रत्यग्राणि यानि नलिनानि तेषां दलानि पत्राणि तेषां यः संपुटो मुकुलस्तं भिनत्तीति स तथा तस्मिन् ।
किंचिदिति । किंचिदीषन्मुक्तः परित्यक्तः पाटलिमा श्वेतरक्तत्वं येन स तथा तस्मिन् । दूरोदितेत्यारभ्य त्रिभिः
विशेषणैः प्रत्यूषसमयो व्यज्यते । कीदृशं राजानम् । आस्थानेति । आस्थानमण्डप उपवेशनस्थलं तत्र गतं
प्राप्तम् । प्रतीहारीं विशेषयन्नाह - भीषणेति । भीषणा भयानका रमणीया मनोज्ञाऽऽकृतिराकारो यस्याः सा
तथा । रमणीयत्वे दृष्टान्तमाह - चन्दनलतेवेति । यथा चन्दनलता वस्तुस्वभावादेव रमणीया तथेयम-
पीत्यर्थः । लताया भीषणत्वे हेतुमाह-संनिहितेति । संनिहिताः पार्श्ववर्तिनो विषधराः सर्पा यस्याः सा तथेः
त्यर्थः । अस्या भीषणत्व आगन्तुकहेतुमाह - वामेति । वामपार्श्वे सव्यप्रदेशेऽवलम्बतेऽवतिष्ठत इत्येवंशीलेन
कौक्षेयकेन खङ्गेन । 'तरवारिर्मण्डलामः खङ्गकौक्षेयकौ' इति कोशः । खङ्गं विशिष्टि - अङ्गनेति । अङ्गनाजन:
प्रमदावर्गस्तस्य विरुद्धेन । त्रपोत्पादकेनेत्यर्थः । यथा चन्दनलताया निसर्गतो रमणीयत्वेऽपि संनिहितविषधरत्वेन
भीषणत्वं तथैतस्या अपि स्वभावतो बन्धुरत्वेऽपि वामपार्श्ववर्तिनिस्त्रिंशत्वेन भीषणत्वमित्यभिप्रायः । अथ प्रतीहारी
विशिनष्टि — अविरलेति । अविरलं घनतरं यन्मलयजस्य चन्दनस्यानुलेपनमुद्वर्तनं तेन धवलितं शुक्रीकृत
स्तनतटं कुचतटं यस्याः सा तथा । तत्र दृष्टान्तमाह - मन्दाकिनीव स्वर्धुनीव । इतो गङ्गां विशेषयन्नाह-
उन्मजदिति । उन्मज्जन्त्रानं कुर्वन्य ऐरावतो हस्तिमलस्तस्य कुम्भमण्डलं शिरः पिण्डचक्रवालं यस्यां सा तथा !
चन्दनशुभ्रकुम्भोपमानेन कुचतटस्य काठिन्यं व्यज्यते । केव । मूर्तीति । मूर्तिमती विग्रहवती राजाज्ञेव नृपशिष्टि-
रिव । ननु राजाज्ञा संनिहितराजशिरोभिरुह्यमाना भवेत् । इयं तु तथा न भवतीत्यत आह -चूडेति । अर्था
त्संनिहितराजमस्तकेषु चूडामणयः शिरोमणयस्तेषु यः प्रतिबिम्बः प्रतिच्छायरतस्य छलं मिषं तेन । राजभिर्नृपैः
शिरोभिरुत्तमारुह्यमाना वहमोना । पुनः केव । शरदिन घनात्यय इव । उभयत्र विशेषणसाम्यमाह-
कलहंसेति । कलहंसा एव कलहंस इव वा धवलं शुभ्रमम्बरं वस्त्रं यस्याः सा तथा पुनः केव। जामदयेति ।
जमदग्नेर्गोत्रापत्यं जामदभ्यः परशुरामस्तस्य परशुः कुठारस्तस्य धारा प्रान्तप्रदेशस्तद्वदिव । उभयविशेषणसाम्य
माह-वशीति । वशीकृतं स्वायत्तीकृतं क्रूरत्वेन व्यामोहेन वा सकलराज्ञां समग्रभूपतीनां मण्डलं चक्रं यया सां
तथा । पुनः केव । विन्ध्यस्येति । विन्ध्यस्य जलबालकस्य वनसंरण्यं तस्य भूमिः पृथिवीव तत्सदृशीव । उभ-
यत्र साम्यमाह — वेत्रेति । वेत्राणां वेतसानां लताः सरलवृक्षा यत्र । पक्षे वेत्रस्य लता यष्टिः । हस्त इति शेषः ।
यस्याः सा तथा । पुनः केव । राज्येति । राज्यस्याधिपत्यस्याधिष्ठात्री सांनिध्यकारिणी देवतेव सू (सु)
रीवे-
टिप्प० - 1 धार्यमाणेत्यर्थः ।
 
:
 
पाठा० -१ उन्मुक्त, २ भगवति मरीचि. ३ चन्दना ४ अनुलेप. ५ चूडामणिसंक्रान्तप्रतिबिम्ब ६ समुपासत्य,