कादम्बरी /479
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम्-
चन्द्रापीडस्तु समुपसृत्य पूर्वषदेव तां महाश्वेताप्रणामपुरःसरं, दर्शितविनयः अणनाम ।
कृतप्रतिप्रणामायां च तस्यां पुनस्तस्मिन्नेव कुसुमशयने उपविष्ठायां प्रतीहार्योपनीतां जाम्बूनद-
मयीमासन्दिकां रोचिष्णुरत्नप्रत्युप्तपादां पादेनैवोत्सार्य क्षितावेवोपाविशत् । अथ केयूरकः
'देवि, देवस्य चन्द्रापीडस्य प्रसाद भूमिरेषा पत्रलेखा नाम ताम्बूलकरङ्कवाहिनी' इत्यभिधाय
पत्रलेखामदर्शयत् । अथ कादम्बरी दृष्ट्वा ताम् 'अहो, मानुषीषु पक्षपातः प्रजापतेः' इति चिन्तयां-
बभूव । कृतप्रणामां च तां सादरम् 'एह्येहि' इत्यभिधायात्मनः समीपं सकुतूहलपरिजन दृश्यमानां
पृष्ठतः समुपावेशयत् । दर्शनादेवोपारूढप्रीत्यतिशया व मुहुर्मुहुरेनां सोपग्रहं कर किसलयेन
पस्पर्श । चन्द्रापीडस्तु सपदि कृतसकलागमनोपचितोपचारस्तदवस्थां चित्ररथ तनयामालोक्या-
चिन्तयत् - 'अतिदुर्विदग्धं हि मे हृदयमद्यापि न श्रद्दधाति । भवतु । पृच्छामि तावदेनाम्'
इति निपुणालापेनातिप्रे काशमब्रवीत् - 'देवि, जानामि कामरतिं निमित्तीकृत्य प्रवृत्तोऽग्रॅम-
४४६
तदनन्तरं चन्द्रापीडस्तु समुपसृत्योपसर्पणं कृत्वा पूर्ववदेव महाश्वेताप्रणामपुरःसरं तां कादम्बरी दर्शित
विनयः प्रणनाम नमश्चक्रे । तदनन्तरं कृतो विहितः प्रतिप्रणामोऽनुनमस्कारो ययैवंविधायां च तस्यां पुनरतस्मि
शेव कुसुमशयन उपविष्टायामासेदुष्यां प्रतीहार्या द्वारपालिकयोपनीतामानीतां जाम्बूनदमयीमासन्दिकां वेत्रास-
नम् । 'स्याद्वेत्रासनमासन्दी' इत्यभिधानकोशः । कीदृशैः । रोचिष्णुरत्नैः प्रत्युप्ताः पादा यस्याः सा तां पादेनैव
चरणेनैवोत्सार्य दूरीकृल क्षितावेव पृथिव्यामेवोपाविशदुपविष्टः । अथेति । उपवेशनानन्तरं केयूरको हे देवि,
देवस्य पूज्यस्य चन्द्रापीडस्य प्रसादभूमिः प्रसन्नताधरित्र्येषा पत्रलेखा नाम ताम्बूलकरङ्कवाहिनीत्यभिधायेत्यु.
क्त्वा पत्रलेखामदर्शयद्दग्विषयतामप्रापयत । अथेति । दृग्विषयीकरणानन्तरं कादम्बरी तां दृष्ट्वा विलोक्य
चिन्तयांबभूवेति चिन्तितवती । इतिशब्दयोत्यमाह - अहो इति । प्रजापतेर्धिधातुरहो मानुषीषु पक्षपाती-
Sङ्गीकारः । कृतः प्रणामो नमस्कारो ययैवंभूतां च सादरं सबहुमान एहि एहि इत्यभिधायात्मनः समीपे स्वकी-
यनिकटे सह कुतूहलेन वर्तमानो यः परिजनः परिवारजनस्तेन दृश्यमानां विलोक्यमानां पृष्ठतः समुपावेशय-
निवेशितवती । अथ दर्शनादेव विलोकनादेवोपांरूढः प्रादुर्भूतः प्रीतेरतिशय आधिक्यं यस्यां (स्याः) सा मुहुर्मुहुर्वारं-
वारमेनां पत्रलेखां सोपहं सानुकूलनं करकिसलयेन पाणिपल्लवेन पस्पर्श स्पर्श चकार । चन्द्रापीडस्तु सपदि
शीघ्रं कृतो विहितः सकल: समग्र आगमनस्यागमने वोचितो योग्य उपचारो विनयो येन स तदवस्थां विर
इविक्लवां चित्ररथतनयां कादम्बरीमालोक्य वीक्ष्याचिन्तयदध्यायत् । हीति निश्चितम् । मे मम हृदयं चेतोऽ
तिदुर्विदग्धमतिजडं यदद्यापि न श्रद्दधाति न निश्चयं करोति । इयमीदृश्यवस्था किं कामात, अन्यप्रियनिमित्ता-
द्वेति प्रकारान्तरस्यासंभवात् । कामनिमित्तकत्वेऽवगतेऽपि विपरीतसंभावनेति दुर्विदग्धपदव्यङ्ग्यम्, अत एव
निश्चयानुरोधेनाह - भवत्विति । कामनिमित्तक एवास्तु, परं तावदादावेनां पृच्छामीति कृत्वा निपुणालापेन
नातिप्रकाश नातिस्पष्टमब्रवीदवोचत् । हे देवि कादम्बरि, अहं जानामि कामनिर्वचनीयस्वरूपामरति निमित्ती-
t
टिप्प० - 1 प्रापयदिति बोध्यम् । 2 सस्नेहम् । 3 नातिरुचिरमिदम् । वस्तुतस्तु 'पृच्छामि तावदेनां
मिभुणालापेनेति' भचिन्तयदित्यस्य कर्मभूतो वाक्यार्थः । निपुणालापेन चतुरजनोचितालापेन (व्यङ्ग्वार्थ-
पूर्णेनेत्यर्थ: ) एनां पुच्छामीति नायकोऽचिन्तयन्मनसि । तदनन्तरं 'प्रकाशमब्रवीत्' इति पाठः । अर्थ:
स्पष्टः !
पाढा० -१ समुपविष्टायाम् २ समुपनीताम् ३ सुकुतूहलं परिजनेन दृश्यमानाम् ४ मुद्दु: ५ इति प्रकाशं
बाचम्. ६ जानासि. ७ अबिरकसंतापतीत्रः.
0