This page has not been fully proofread.

उत्कण्ठिता कादम्बरी ]
 
पूर्वभागः :
 
र्मधुकरकुलरिवाच्छाद्यमाना, संभ्रमच्युतोत्तरीयका हारकिरणानुरसि कर्तुमिच्छन्ती, मणि-
कुट्टिम निहितेन वामकरतलेन हस्तावलम्बनं निजप्रतिमासिव याचमाना, सस्तकेशकलाप-
-
संयमनश्रमितेन गलत्स्खेदसलिलेन दक्षिणकरेण समभ्युक्ष्येवात्मानमर्पयन्ती, चलितत्रिकताम्र-
त्रिवलीतरङ्गितरोमराजितया निष्पीड्यमानेव सर्वरसाननङ्गेन, अन्तःप्रविष्टललाटिकाचन्दन-
रैसमिश्रमिव चक्षुषा क्षरन्ती शिशिरमानन्दजळम्, आनन्दवारिबिन्दुवेणिकया चलितावतं-
सधूलिधूसरं प्रियप्रतिमाप्रवेशलोमेनेव कपोलफलकं प्रक्षालयन्ती, ललाटिकाचन्दनभरेणेव
किंचिदधोमुखी, तत्क्षणमपाङ्गभागयुंजिततारकया तन्मुखलग्नयेव दीर्घया दृष्ट्याकृष्यमाणा
कुसुमशयनादुत्तस्थौ ।
 
परिमलस्तेनोपनतैः प्राप्तैरत एव परवशैरासमन्तान्मुखरैर्वा चालैरेवंविधैर्मधुकरकुलैर्भ्रमरसमूहैराच्छाबमा-
नेव । संभ्रमेण सहसा च्युतमुत्तरीयकं प्रावरणं वस्त्रं यस्याः सर्वभूता सती हारकिरणानुरसि कर्तुमिच्छन्ती
वाञ्छन्ती । एतेन हारकिरणोत्तरीयांशुकयोरतिस्वच्छत्वसाम्या द्भेदो न ज्ञात इति भावः । मणिकुहिमे निहितेन
स्थापितेन वामकरतलेन निजप्रतिमां प्रति हस्तावलम्बनं याचमानेव प्रार्थ्यमानेव । एतेन स्वतः खशरीरधारणे
न क्षमेति प्रदर्शितम् । स्रस्तो यः केशकलापोऽलक समूहस्तस्य संयमनं बन्धनं तेन श्रमितेन श्रमं प्राप्तेन गल-
त्खेदसलिलेन क्षरद्धर्मवारिणा दक्षिणकरेण समभ्युक्ष्य । यस्यकस्यचिदर्पणं क्रियते तत्तु करेण प्रोक्षितस्यैवेत्यर्थः ।
आत्मानमर्पयन्त्यर्पणं कुर्वन्ती । चलितं यत्रिकं वंशाधरस्तस्य ताम्रा खच्छा या त्रिवली तया तरशिता रोमरा-
जिलया भावस्तत्ता तया हेतुभूतयानङ्गेन कंदर्पेण सर्वरसान्निष्पीड्यमानेव मर्यमानेव । एतेन चलितत्रिकस्य
पीडनयन्त्रसाम्यता प्रदर्शिता । किं कुर्वती । चक्षुषा नेत्रेण शिशिरं शीतलमानन्दजलं क्षरन्ती स्रवन्ती ।
शिशिरत्वे हेतुं प्रदर्शयन्नाह - अन्तरिति । अन्तःप्रविष्टो यो ललाटिकाचन्दनरसस्तेन मिश्रमिन संपृक्तमिव ।
पुनः किं कुर्वन्ती । आनन्दवारिणो बिन्दवो विप्रुषस्तेषां वेणिकया प्रवाहेण । 'धारा वेणी रयश्च सः' इत्य-
मरः । चलितः स्वस्थानाच्युतो योऽवतंसस्तस्य धूलिः परागस्तेन धूसरं मलिनं कपोलफलकं प्रियप्रतिमाप्रवेश-
लोभेन प्राणप्रियप्रतिबिम्बसंक्रान्तितृष्णयेव प्रक्षालयन्ती धावनं कुर्वन्ती । ललाटिकाया यश्चन्दनभरस्तनेव किंचि
इधोमुख्यवा सुखी, तत्क्षणमपाङ्गभागोऽक्षिबाह्यान्तःप्रदेशस्तत्र युझिंता प्रेरिता तारका कनीनिका ययैवंविधया
तस्य चन्द्रापीडस्य मुखमाननं तत्र लमयेन दीर्घया दृष्ट्याकृष्यमाणाकर्षणं क्रियमाणा । अन्वयस्तु प्रागेवोचः ।
 
टिप्प० - 1 मधुकरेषु परवशविशेषणं न स्वारस्याय । अत एव, 'परवशा' खम्भारूयसाविकभावेन
स्वयमुस्थातुमसमर्था । अत एव मधुकरैः उत्थाप्यमानेव, इत्यर्थः । एवं च 'उत्थाप्यमाना' इत्येव पाठः ।
2 को बंशाधरः ? तस्य का त्रिवली ? अस्तु चलितं यत्रिकं पृष्ठवंशस अधरात्रि, तेन ताम्यन्ती या
त्रिवली (उदरस्थरेखात्रयम्) तथा तरङ्गिता रोमरा जियस्यास्तद्भावस्तत्ता, तया । 3 युजवातो: 'युजिते' ति
रूपं कदापि न दृष्टं स्यात्, दृश्यतां टीकाकारकृपया !! अस्तु. सर्वमिदमज्ञानविजृम्भितम् । तत्क्षणम्
( चन्द्रापी उदर्शनक्षणे ) अपाङ्गभागे पुजिता ( सर्वा शक्तिं गृहीत्वा पुञ्जभावेन स्थिता) तारका यस्था
मीडश्या; तन्मुख ( चन्द्रापीडमुख) लग्नया अत एव दीर्घया दृष्ट्या (चक्षुषा) बाकृष्यमाणेव । दृष्टि-
स्तन्मुखे दृढसंबद्धा पुनश्च भाकृष्यमाणा अत एव सा दीर्घीभूता ।
 
पाठा० -१ जालै:. २ उत्थाप्यमाना ३ उत्तरीयांशुका० ४ वलित ५ तरङ्गिणी० ६ रसम्; रसमिश्रान्
७ चक्षुर्म्याम्. ८ च चलित; घटित ९ पुजित.