This page has not been fully proofread.

४४४
 
कादम्बरी ।
 
[ कथायाम्-
स्वच्छाम्बरतलदृश्यमानमृणालकोमलोरुमूलाम्, कुसुमचापलेखामिव मदनारोपितगुणकोटि-
कान्ततराम्, मधुमासदेवतामिव शिशिरहारिणीम्, मधुकरीमिव कुसुममार्गणाकुलाम्, चन्दन-
विलेपनामनङ्गरागिणीं च बोलां मन्मथजननीं च मृणालिनीमभ्यर्थिततुषारपशां च
कादम्बरीं व्यलोकयत् ।
 
अथ सा यथादर्शनमागत्यागत्य चन्द्रापीडागमनमावेदयन्तं परिजनमुत्तरलतारकेण चक्षुषा
विलोक्य 'कथय । किं' सत्यमागतो दृष्टस्त्वया । कियत्यध्वनि कासौ' इति प्रतिमुखं निक्षिप्ते-
नामाक्षरं पप्रच्छ । प्रवर्धमानधवलिन्ना चक्षुषा दृष्ट्वा च संमुखमापतन्तं तं दूरादेव वरारोहा,
नवग्रहा करिणीवोरुस्तम्भविवृता, विचेष्टमानाङ्गी, कुसुमशयनपरिमलोपगतैः परवशामुखरै-
"
 
खच्छेति । खच्छं निर्मलं यदम्बरं वस्त्रं तस्य तलमधोभागस्तत्र दृश्यमानं विलोक्यमानं मृणालवत्कोमलमू-
मूलं सक्थिमूलं यस्याः सा ताम् । पक्षे स्वच्छं रजोरहितं यदम्बरतलं व्योमतलं तत्र दृश्यमानं मृणाललक्षणं
कोमल सुकुमारमुरु विस्तीर्ण मूलं बुनो यस्याः । कुसुमेति । कुसुमचापः पुष्पधनुस्तस्य लेखामिव । उभयसाम्य-
माविः कर्तुमाह - मदनेति । मदनेन यौवनावस्थयारोपिता स्थापिता या गुणकोटिस्तया कान्ततरां मनोज्ञत-
राम् । प मदनेन कंदर्पेणारोपितोऽधिज्यीकृतो गुणकोटिमौवींप्रान्तस्तया कान्ततराम् । मध्विति । मधु-
मासो वसन्तमासस्तस्य देवतामिवाधिष्ठात्रीमिव । उभयसादृश्यमाह - शिशिरेति । शिशिरेण शीतलोपचारेण
हारिणीं रुचिराम् । पक्षे शिविरस्य ऋतुविशेषस्यापहारिणीम् । शिशिरापगमे हि मधुमासः प्रवर्तते । मधुकरी-
मिव भ्रमरीमिव । उभयसादृश्यमाह —– कुसुमेति । कुसुमान्येव विरहवशान्मार्गणा बाणास्तैराकुलाम् ।पक्षे
कुसुमानां मार्गणमन्वेषणं तेनाकुलां व्यप्राम् । अथ च चन्दनस्य विलेपनमङ्गरागो यस्या एवंविधामपि न विद्यते-
Sङ्गरागो यस्यामिति विरोधः । तत्परिहारस्तु —– अनङ्गः कंदर्पस्तस्मिन्रागिणीमनुरागवतीमित्यर्थात् । बालामना-
विष्कृतमन्मथाम्, अथ च मन्मथजननीमिति विरोधः । तत्परिहारस्तु - बालामनुद्वाहितामित्यर्थात् । मृणालि
नीमू, अथ चाभ्यर्थितो वाञ्छितस्तुषारस्पर्शो ययेति विरोधः । कमलिन्यास्तुषारस्पर्शः सर्वथानिष्ट इति लोके
प्रसिद्धम् । तत्परिहारस्तु - विरहतापोपशान्त्यर्थं मृणालं विद्यते यस्या इत्यर्थात् । एवंविधां कादम्बरी
ब्यलोकयदपश्यत् ।
 
B
 
अथ सा कादम्बरी यथादर्शनं यथावसरमागत्यागत्य चन्द्रापीडस्यागमनमावेदयन्तं कथयन्तं परिजनमुत्प्राब-
ल्येन तरला चञ्चला तारका यस्मिन्नेतादृशेन चक्षुषा विलोक्य वीक्ष्य प्रतिमुखं निक्षिप्तानि स्थापितानि नामाक्ष-
राणि यथा स्यात्तथा । प्रत्येकं प्रत्येकं नाम गृहीत्वेत्यर्थः । इति पप्रच्छेत्यप्राक्षीत् । इति द्योत्यमाह - कथयेति ।
कथय ब्रूहि । किं सत्यमागतस्त्वया दृष्टः । कियत्यध्वनि । क्कासौ चन्द्रापीडः । तदनन्तरं प्रवर्धमानः प्रतिदिन -
मुपचीयमामो धवलस्य भावो धवलिमा यस्मिन्नेतादृशेन चक्षुषा नेत्रेण संमुखमापतन्तमागच्छन्तं तं दृष्ट्वा
विलोक्य च कुसुमशयनादुत्तस्थावुत्थिता बभूवेत्यन्वयः । अथ कादम्बर्या विशेषणानि – वरेति । वरः श्रेष्ठः
आरोहो नितम्बो यस्याः सा । 'नितम्बारोहौ स्त्रीकट्याः पश्चाजघनपार्श्वतः' इति कोशः । उर्वावेवं स्तम्भौ
ताभ्यां विधृता धृता । केव । नवः प्रत्यग्रो ग्रहो ग्रहणं यस्या एवंविधा करिणीव हस्तिनीव । सापि उरुर्विस्तीर्णो
यः स्तम्भस्तत्र विटता बद्धा स्यात् । विचेष्टमानानि चेष्टाविशेषं प्राप्यमाणान्यज्ञानि यस्याः कुसुमशयनस्य
 
टिप्प० -1 गुणः- आरोप्यते, म सु कोटि: । अत एव, आरोपितः गुणो ययोः ईडशीभ्यां कोटिभ्याम्
( प्रान्याभ्याम् ) कान्तवरा, इति व्याख्यातव्यम् । 2 दर्शनमनतिक्रम्य यथादर्शनम्, यस्यां यस्यामव
त्यायां खां तामवस्थामित्याशयः । 3 धिक । ऊर्वोः स्तम्भेन सात्विक भावजातेन निश्चलत्वेन विता
निस्पंदा, इत्यर्थः ।
 
पाठा- -१ कुझुमचापचापलेखाम्. २ कान्ताम् ३ तारकेण कथय. ४ कथं सम्यक् ५ निक्षिप्तनानाक्षरम्;
मिलिसेन नपानक्षरम् ३ वर्षमान.