This page has not been fully proofread.

उत्कण्ठिता कादम्बरी ]
 
पूर्वभागः ।
 
पकप्रतियातनामामृशन्तीम्, स्तनसंकान्तेनात्ममुखेनापि कुतूह लिनेव परिवृत्य विलोक्यमानाघ्,
कर्णपूर पल्लवेनापि स्वैप्रतिबिम्बशायिना सोत्कण्ठेनेव चुम्ब्यमानकपोलफलकाम्, हारैरपि
मुक्तात्मभिर्मदनपरवशैरिव प्रसारित करैरालिङ्गथमानाम्, मणिदर्पणमुरसि निहितं विनोदि-'
तव्यमेतदिति जीवितैस्पर्शमयं शपथं शशिनमिव कारयन्तीम्, करिणीमिव संमुखागतप्रम-
दवनगन्धवारणप्रसारित कराम्, प्रस्थितामिवान भीष्टदक्षिणवातमृगागमनाम्, मदनाभिषेक-
वैदिकामिव कमलावृतचन्दनधवलपयोधरकलशावष्टब्धपार्श्वाम् आकाशकमलिनीमिव
 
7
 
छन्दः कायो रूपं बिम्बं मानकृती अपि इति कोशः । आमृशन्तीं परामर्श कुर्वन्तीम् । स्तनेति । स्तनयोः
कुचयोः संक्रान्तेन प्रतिबिम्बितेनात्मसुखेनापि स्वकीयवदनेनापि कुतूहलिनेव कौतुकिनेव परिवृत्य । उत्तानी-
कृत्येत्यर्थः । विलोक्यमानां वीक्ष्यमाणाम् । एतेन सौन्दर्यातिशयः सूचितः । एवं कर्णपूरपल्लवेनापि खप्रतिबिम्ब-
रूपेण शायिना शयनकारिणा । एतेनायतत्वं सूचितम् । सोत्कण्ठेनेव सोत्कलिकेनेव चुम्ब्यमानं चुम्बनविषयी-
क्रियमाणं कपोलफलकं यस्याः सा ताम् । हारैरपि मुक्ताकलापैरपि मुक्तात्मभिर्मुक्तास्वरूपैर्मदन परवशरिवान-
ज्ञायतैरिव प्रसारितकरैर्विस्तारितपाणिभिरालिङ्ग्यमानामाश्लिष्यमाणाम् । अत्र मुक्तात्मभिरालिङ्ग्यमानामित्यनेन
तस्या अभिनवं सौभाग्यं वर्णितम् । उरसि निहितं वक्षसि स्थापितं मणिदर्पणं रत्नादर्शम् । वर्तुलत्वतादृशधुति
मत्त्वसाधर्म्यात् । जीवितस्य स्पर्शो दानं तन्मयं शशिनमिव चन्द्रमिव । 'स्पर्शो वर्गाक्षरे दाने स्पर्शने स्पर्शके
रुजि' इति कोशः । इति शपथं कारयन्तीम् । इतिशब्दयोत्यमाह - विनोदेति । अद्य त्वया विनोदितव्यम् ।
अन्यस्तु शशी शोकप्रदः, त्वया तु विनोदितव्यमेतदिति भावः । अत एव जीवितस्पर्शमयमिति विशेषणम् ।
करिणीति । हस्तिनीमिव । उभयोः शब्देन साम्यं प्रदर्शयन्नाह -- संमुखेति । संमुखागतो यः प्रम-
दवनगन्धस्तस्य वारणं दूरीकरणं तत्र प्रसारितौ करौ यया सा । विरहाकुलितत्वेन प्रमदवनस्य गन्धस्य दुःख-
दायित्वात्तनिवारणं युक्तमेवेति भावः । पक्षे संमुखागतः प्रमदो मदोत्कटो वनगन्धवारणो वनप्रभवो गन्धहस्ती तं
प्रति प्रीत्या प्रसारितः करः शुण्डा यया सा ताम् । प्रस्थितामिव चलितामिव । उभयसाम्यं प्रदर्शयनाह - अन-
भीष्टेति । अनभीष्टमनीप्सितं दक्षिणो यो वातः स एव शीघ्रगामित्वान्मृगो हरिणस्तस्यागमनं यस्याः सा ताम् ।
विरहिण्या दक्षिणो वायुरतीव दुःखदो भवतीति सर्वत्र प्रसिद्धम् । पक्षेऽनभीष्टो दक्षिणो वामतोऽपसव्यगो वात-
मृणो वातप्रमीर्यस्याः सा ताम् । स्त्रीणां प्रयाणे दक्षिणो मृगोऽपशकुनमिति वसन्तराजादौ प्रसिद्धम् । मदनेति ।
मदनस्य कंदर्पस्याभिषेकार्थं वेदिका संस्कृता भूमिस्तामिव । उभयोः साम्यमाह - कमलेति । कमलया
शोभयावृतौ चन्दनेन धवलौ पयोधरावेव कुचावेव पीनत्ववर्तुलत्वसाम्यात्कलशौ ताभ्यामवष्टन्धाषाश्रिती,
पार्श्वे यस्याः । आकाशेति । आकाशं व्योम तस्य कमलिनी पद्मिनी तामिव । उभयोः साम्यमाह -
 

 
expertis
 
मौक्तिकानि आत्मा
 
टिप्प० – 1 मुक्त आत्मा येषां जीवन्मुक्तैरपि मदनपरवक्षैरिति विरोधः । मुक्ताः
स्वरूपं येषामिति विरोधपरिहारः । 2 एवमर्थे 'विनोदयितव्यम्' इति स्यात् । अतः 'नोदितव्यमद्य' इति
पाठः । विरहोद्दीपकेन त्वया अद्य न उदेतव्यमिति चन्द्रं शपथं कारयन्तीमिति तदर्थः । शपथश्च जीवन-
स्पर्शरूप इति भावः । अन्यत्स्पष्टप्रायम् । 3 वातस्य दुःखदत्वेपि मृगरूपके कि स्वारस्यं ( विरहिणी-
पक्षे ) ?, अत एव अनभीष्टं दक्षिणवातस्य मलयवायोः मृगस्य ( मृगमदसौरभस्य, लक्षणया) च भाग-
मनं यस्या इति व्याख्यातव्यम् । 4 उभयपक्षेपि नास्मिन्नर्थे स्वारस्यम् । शैत्यार्थ कमलदलैरावृतौ चन्दन-
धवलौ यौ पयोधररूपौ कलशौ ताभ्यामाकान्तपार्श्वामिति ( नायिकापसे), माझ्ल्यार्थ कमलैराख्छादि
तमुखाश्चन्दनघवलीकृता ये पयोभृताः कलशास्तैराक्रान्तपार्श्वभूमिभागामिति ( वेदिकापक्षे ) ।
 
पाठा० -१ आस्पृशन्तीम् २ स्वप्रतिबिम्बपछवशायिना ३ नोदेतब्यमचेति. ४ स्याज, ५ जीवनस समय
शशिनन्; जीवमस्पर्शसमयं शशिनन्,