कादम्बरी /475
This page has not been fully proofread.
कादम्बरी
[ कथायाम-
,
ध्वध्यासितामिवाङ्गेष्वनङ्गेन, कंदर्पदाहदीपिते गृहीतामिव हृदये हुतभुजा, खेदिनि परिष्व-
तामिव वपुषि जलेन, दैवतैरपि विलुप्यमानसौभाग्यामिव सर्वशः, हृदयेन सह प्रियतमस-
मी पोपगतैरङ्गै
रुपजनितदौर्बल्याम् आश्यानचन्दनपाण्डुरं च रोमाञ्चमनवरतहार स्पर्शलग्नं
मुक्ताफल किरणपुञ्जमिवोद्वहन्तीं स्वेदसीकरिणीं च कपोलपालीम्, पक्षपवनेन वीजयद्भिर -
कम्प्यमानामिवावतंसमधुकरैः अवतंसमधुकररवदहनदग्धमिव श्रोत्रमपाङ्ग निर्गतेनाश्रुस्रो-
तसा सिञ्चन्तीम्, अतिप्रवृत्तस्य चाश्रुणो निर्वाहप्रणालिका मिव कर्पूरकेतकी कलिकां कर्णे कलय-
न्तीम्, आयतश्वास विधुतितरलितेन च संतापभयपलायमानेन देहप्रभाविता नेवांशु
विमुच्यमानकुचकलशाम्, आपतत्प्रचलचामरप्रतिबिम्बं च कुचकलशयुगलं प्रियान्तिकगमनौ-
सुक्यकृतपक्षमिव करतलेन निरुन्धन्तीम् मुहुर्मुहुर्भुजलतया तुषारशिलाशालभञ्जिकामा-
लिङ्गन्तीम्, मुहुः कपोलफलकेन कर्पूरपुत्रिकामाश्लिष्यन्तीम् मुहुश्चरणारविन्देन चन्दन-
,
,
."
."
स्तैन प्रतप्तेषूष्णेष्वङ्गेष्वनङ्गेन कंदर्पेणाध्यासितामाश्रितामिव । कुत्रचित् 'पतङ्गेन' इति पाठः । तत्र पतङ्गः सूर्यस्ता-
पजनकत्वात् । तदाश्रितामित्यर्थः । कंदर्पदाहदीपिते मदनदाहज्वलिते हृदये । दाहजनकत्वसाम्यादाह-हुत-
भुजेति । हुतभुजा वह्निना गृहीतामिव स्वीकृतामिव । स्वेदिनि प्रस्वेदवति वपुषि जलेन नीरेण परिष्वक्ता-
मिवाश्लिष्टामिव । एतेन वेदबाहुल्यं सूचितम् । दैवतैरप्यदृष्टैरपि सर्वशः सर्वप्रकारेण विलुप्यमानं लोपमाप्य-
मानं सौभाग्यं यस्याः सा तामिव । हृदयेनं चित्तेन सह सार्धं प्रियतमसमीपं प्राणप्रियनिकटमिवोपगतैरङ्गैः
कस्बोपजनितं बिहितं दौर्बल्यं कृशत्वं यस्या एतादृशीम् । आश्यानमिति । आश्यानं शुष्कं यच्चन्दनं मलयजं
तेन पाण्डुरं शुभ्रं रोमाञ्चं चानवरतं निरन्तरं हारस्पर्शेन लग्नं मिलितं मुक्ताफलानां किरणा दीधितयस्तेषां पुञ्जः
समूहस्तमिवोद्वहन्तीं धारयन्तीम् । अत्र चन्दनघवलीकृतस्य रोमोद्गमस्य मुक्ताकिरणसमूहोपमानम् । तथा
स्वदस्य घर्मजलस्य सीकरा विद्यन्ते यस्यामेतादृशीं कपोलपालीमुद्वहन्तीम् । चकारः समुच्चयार्थः । अवेति ।
अवतंस उत्तंसस्तस्य मधुकरैर्भमरः पक्षपवनेन वीजयद्भिरनुकम्प्यमानामिवानुकम्पाविषयी क्रियमाणामिव । अव-
तंसमधुकराणां रवः शब्दः स एव दाहकत्वाहनो वह्निस्तेन दग्धमिम ज्वलितमिव । श्रोत्रं श्रवणमपाङ्गनिर्गते-
नाक्षिबाह्यायातेनाश्रुस्रोतसा नेत्रजलप्रवाहेण करणभूतेन सिञ्चतीं सेकं कुर्वन्तीम् । अतिप्रवृत्तस्यातिप्रसृतस्या-
श्रुणो नेत्रजलस्य निर्वाहार्थ सुखेन गमनार्थ प्रणालिकामिव जलमार्गमिव कर्पूरकेतकीकलिकां कर्पूरेषूक्ता या
केतकी तस्याः कलिका कोरकः तां कर्णे कलयन्तीं कलनां कुर्वन्तीं धारयन्तीम् । आयतो विस्तीर्णो यः
श्वासः श्वसितं तस्माद्या विधुतिः कम्पस्तेन तरलितेन कम्पितेन संतापभयात्पलायमानेन धावता । अतिशुभ्र-
त्वसचिक्कणत्वसाम्यादाह– देहेति । देहप्रभावितानेनेव शरीरदीप्तिसमूहेनेवांशुकेन वस्त्रेण विमुच्यमानौ
कुचावेव कलशौ यस्याः सा ताम् । आपतत्प्रचलचामरयोः प्रतिबिम्बं यस्मिन्नेतादृशं कुचकलशयुगलं प्रियस्थ
वल्लभस्यान्तिकं समीपं तत्र गमने याने यदौत्सुक्यं रणरणकता तेन कृताः पक्षा येनैतादृशमिव करतलेन
निरुन्धन्तीं निरोधं कुर्षन्तीम् । मुहुर्मुहुर्भुजलतया बाहुवल्लया तुषारशिला तस्याः शालभञ्जिकां पाञ्चालिकाभा-
लिङ्गन्तीमाश्लेषं कुर्वन्तीम् । मुहुः कपोलफलकेन कर्पूर पुत्रिकां घनसारपाञ्चालिकामाश्लिष्यन्तीमालिङ्गन्तीम् । मुहु
श्चरणारविन्देनाङ्गिकमलेन चन्दनपङ्कस्य मलयजकर्दमस्य प्रतियातनां प्रतिमाम् । 'प्रतिमा यातनाविधिः । छायः
टिप्प० - 1 सौन्दर्य मुग्धत्वाद्देवा अपि तस्या भर्तृप्रियत्वम् ('सुहाग') न्यूनीकृत्य आत्मनि तदासक्ति
कामयन्त इत्याशयः । 2 दूरगमनश्रमेण दौर्बल्यं भवत्येवेत्याशयः । 3 विरहोद्दीपनेन इत्यर्थः। 4 कर्पूरवत्
(शुभ्रा) केतकीकलिका, कर्पूरवासिता केतकीकलिका वा ।
पाठा०-१ जळदेन. २ अवतंसकुसुम.