This page has not been fully proofread.

कादम्बरीभवमे शीतोपचाराः ]
 
पूर्वभागः ।
 
४४१
 
वारितम्, अलिभिरपि कुसुमामोदमदमुखरैराबद्धदन्तवीगैरिव वाचालितम्, लतामिरपि
मधुकरपटलजदिलाभिर्गृहीतनीलप्रावरणकाभिरिव विराजितमाससाद । क्रमेण च तत्रान्त-
बेहिचातिबहलेन पिण्डहार्येणेवोपलिप्यमानो ऽतिशीतलेन स्पर्शेनाऽमन्यतात्मनो मनश्चन्द्रमयं
कुमुदमयानीन्द्रियाणि ज्योत्स्नामयान्यङ्गानि मृणालिकामयीं धियम् । अगणयच होरमयान-
ककिरणांश्चन्दमयमातपं कर्पूरमयं पवनमुद्रकमयं कालं तुषारमयं त्रिभुवनम् ।
 
एवंविधस्य च तस्यैकदेशे सखीकदम्बकपरिवृताम्, अशेषसरित्परिवारामिव भगवर्ती गां
हिमवतो गृहाचलगताम्, कुल्या भ्रमिभ्रमितेन कर्पूररसस्रोतसा कृतपरिवेषाया मृणालदण्ड-
मण्डपिकायास्तले कुसुमशयनमधिशयानाम्, हाराङ्गदवलयरसनानू पुरैर्मृणालमयैर्निगडैरिव
संयतामीर्ष्यया मन्मथेन, चन्दनधवले स्पृष्टामिव ललाटे शशलान्छनेन, बाष्पवारिवाहिनि
चुम्बितामिव चक्षुषि वरुणेन, वर्धितनिःश्वासमरुति वैष्टामिव मुखे मातरिश्वना, संतापप्रतप्ते-
1
 
वेपथुः कम्पो येषामेतादृशैरिव परिवारितम् । अलिभिरपि भ्रमरैरपि कुसुमानामामोदः परिमलस्तजनितो मद-
स्तेन मुखरैर्वाचालैरत एवाबद्धा दन्तेवीणा यैरेवंविधैरिव वाचालितं मुखरितम् । लताभिरपि वल्लीभिरपि मधुकं-
राणां पटलं तेन जटिलाभिर्व्याप्ताभिगृहीतं स्वीकृतं नीलं प्रावरणं प्रच्छादनं याभिरेवंविधाभिरिव विराजित
शोभितमेतादृशं हिमगृहकस्य मध्यभागमाससाद प्राप्तवान् । क्रमेणेति । क्रमेण परिपाट्यान्तर्बहिश्यातिशीत
लेन स्पर्शेनोपलिप्यमानः । ननु मूर्तव्यतिरेकेणोपदिग्धक्रिया न संभवतीत्याशयेनाह - अतीति । अतिबहलेनाति-
दृढेन पिण्डहार्येणेव पिण्डरूपेणाहर्तुं शक्यं पिण्डहार्यं तेनेव, एतेनातिशीतलस्पर्शस्य बाहुल्यतया हस्तप्रात्यत्वं सूचि
तम् । तथातिशीतलेन स्पर्शेनात्मनः स्वस्य मनश्चित्तं चन्द्रमयममन्यताऽजानात् । तथा कुमुदमयानि कैरवमयानी •
न्द्रियाणि करणानि, ज्योत्स्नामयानि चन्द्रिकामयान्यङ्गानि हस्तपादादीनि, मृणालिकामयीं बिसमयीं धियं बुद्धिम् ।
अमन्यतेत्यस्य सर्वत्र संबन्धः । तथार्ककिरणान्सूर्यकरान् । शुभ्रत्वायतत्व साम्यादाह-हारमयान्मुक्ताप्रालम्बमया-
नगणयत् । अप्रेऽप्येतस्य संबन्धः । आतपं सूर्यालोकं चन्दनमयं मलयजमयम् । अतिशीतलत्वादिति भावः ।
तथा पवनं समीरं कर्पूरमयं घनसारमयम् । तद्गन्धयुक्तत्वात् । तथा कालं समयमुदकमयं जलमयम् । त्रिभुवनं
त्रिविष्टपं तुषारमयं हिममयम् । अतिशीतलस्य शेषाधिवशात्किरणरूपतया सत्त्वेऽपि हाररूपतयागणयदित्यर्थः ।
एवंविधस्य तस्य हिमगृहस्य एकदेश एकस्मिन्प्रदेशे सखी कदम्बकेन वयस्यासमूहेन परिवृताम् । अशेष-
सरित्परिवारां समप्रतटिनीपरिच्छदां हिमवतः पर्वतात् गृहाचलगतां गृहशिलागतां भगवतीं गज्ञामिन जाह-
वीमिव, विरहजनितपाण्डुरत्वसाम्यात्तदुपमानम् । अन्यासां च नधुपमानम् । कुल्या सारणी तस्या भ्रमिभ्रमणं
तया भ्रमितेन कर्पूररसस्रोतसा घनसारद्रवप्रवाहेण कृतो विहितः परिवेषः परिधिर्यस्या एवंविधाया मृणालदण्ड-
मण्डपिकाया बिसदण्डमण्डपस्य तलेऽधोभागे कुसुमशयनं पुष्पशय्यामधिशयानां कृतखापाम् । हारेति । द्वारो
मुक्ताप्रालम्बः, अङ्गदं बाहुकटकम्, वलयं कङ्कणम्, रसना काञ्ची, नूपुराणि पादकटकानि, एतैर्मृणालमयैर्विस-
मयैर्निगडैरिवान्दुकैरिवेर्ष्यया स्पर्धया मन्मथेन कंदर्पेण संयतां बद्धाम् चन्दनेन धवले शुश्रीकृते ललाटेऽलिके
शशलाञ्छनेन चन्द्रेण स्पृष्टामिवालिङ्गितामिव । शुभ्रत्ववक्रत्वसाम्याम्चन्द्रोपमानम् । बाष्पवारि नेत्राम्बु तद्वाहिनि
चक्षुषि नेत्रे वरुणेन प्रचेतसा चुम्बितामिव । जलच्युतिसाम्याद्वरुणेनेत्युतम् । वर्धितो वृद्धिं प्राप्तो निःश्वासमरु-
देतनवायुर्यस्मिन्नेव॑विधे मुखे । वायुबाहुल्यादाह – मातरिश्वना वायुना दष्टामिव भक्षितामिन । संतापः संज्वर-
a
 
टिप्प० – 1 शैत्यातिशयेन मुखवेपथुसमये उपर्यधोभागदन्तानां, परस्परसंघट्टनजनित: शब्दो दन्त-
बीणा 12 ग्रन्थगौरवघातकं धिङ् मन्दम् ! 'गुहातलगताम्' इत्येव पाठः । हिमवतः हिमाचलस्य गुहा-
तलस्थितां भगवतीं गङ्गामिव, इति स्फुटोऽर्थः । 3 चन्द्रमस्य चन्द्र उपमानमित्याशयः ।
 
पाठा ३===-१ निरन्तरमधुकर. २ नीहारमयान् ३ ग्रहातलगताम् ; महीतले पतिताम् ४ दृष्टाय.
 
५६ का०