This page has not been fully proofread.

४४०
 
कादम्बरी ।
 
[ कथायाम्-
दण्डानि बध्यमानानि चारुवंशाकृतीनि कुसुमस्तबकातपत्राणि, क्वचित्करमृदितकर्पूरपल्लवरसे-
नाधिवास्यमानानि बिसतन्तुमयान्यंशुकानि, कचिल्लवलीफलद्रवेणाक्रियमाणांस्तृणशूकम-
ञ्जरीकर्णपूरान्, क्वचिदम्भोजिनीदलव्यजनैर्वीज्यमानानुपलभाजनभाजः शीतोषधिरसान-
न्यांश्चैवं प्रकाशिशिरोपचारोपकरणकल्पनात्र्यापारम्परिजनेन कृतान्क्रियमाणांश्च वीक्ष-
माणो हिमगृहकस्य मध्यभाग हृदयमिव हिमवतः, जलक्रीडागृहमिव प्रचेतसः, जन्मभूमि-
मिव सर्वचन्द्रकलानाम्, कुलगृह मिव सर्वचन्दनवनदेवतानाम्, प्रभवमिव सर्वचन्द्रमणी-
नाम, निवासमिव सर्वमाघमासयामिनीनाम्, संकेतसदनमिव सर्वप्रावृषाम् ग्रीष्मोष्माप-
-
नोदोद्देश मिव सर्व निम्नगानाम्, वडवानल संतापापनोद ननिवासमिव सर्वसागराणाम्, वैद्युत-
दहनदाहप्रतीकारस्थानमिव सर्वजलधराणाम् इन्दुविरहदु:सहदिवसातिवाहनस्थानमिव
कुमुदिनीनाम्, हरहुताशननिर्वापणक्षेत्रमिव मकरध्वजस्य, दिनकरकरैरपि सर्वतो जलयत्र-
धारासहस्र समुत्सारितैरतिशीतस्पर्श भयनिवृत्तैरिव परिहृतम्, अनिलैरपि कदम्बकेसरोत्कर-
वाहिभिः कण्ट कितैरिवानुगतम्, कदलीवनैरपि पवनचलितद्
लैजड्यजनितवेपथुभिरिव परि-
दण्डा येष्वेवंविधानि बध्यमानानि चारुर्मनोहरो यो वंशो वेणुस्तद्वदाकृतिराकारो येषां तानि कुसुमस्तबकान्येवा
तपत्राणि छत्राणि । क्वचिदिति । करेण मृदितो यः कर्पूरपलवस्तस्य रसेनाधिवास्यमानानि सुगन्धीक्रियमा-
पाणि बिसतन्तुमयानि तन्तुलतन्तु निर्मितान्यंशुकानि वस्त्राणि । क्वचिदिति । लवली वल्ली विशेषस्तस्याः
फलद्रवेणााँक्रियमाणान् । तृणानां शूकं किंशारुस्तस्य मञ्जर्य एव कर्णपूरान्कर्णाभरणा । क्वचिदिति ।
अम्भोजिनी कमलिनी तया दलान्येव व्यजनानि तालवृन्तानि तैर्वीज्यमानानुपलभाजनभाजो दृषत्पा-
स्थिताशीतोषधिरसान्, अन्यांश्चैवंप्रकाराशिशिरोपचारोप करणकल्पनाव्यापारान्परिजनन परिच्छदेन कृता-
न्विहितान्क्रियमाणांश्च विधीयमानांश्च वीक्षमाणो हिमवतो गौरीगुरोर्हृदयमिव स्वान्तमिव प्रचेतसो वरुणस्य
जलक्रीडागृहमिव सर्वाः ममग्रा याश्चन्द्रकलास्तासां जन्मभूमिमिव सर्वं यश्चन्दनवनं गन्धसारकाननं तस्य
देवतानामधिष्ठात्रीणां कुलगृहमिव पितृसद्मेव; सर्वचन्द्रमणयश्चन्द्रकान्ताद्यास्तेषां प्रभवमिवोत्पत्तिमिव,
सर्वे ये माघमासास्तपोमासास्तेषां यामिनीनां रात्रीणां निवासमिव वसतिस्थलमिव सर्वप्रावृषां समग्रतपाय -
या संकेतसदन मित्र, सर्वनिम्नगानां समस्ततटिनीनां ग्रीष्मस्योष्णागमस्य ऊष्मा तापस्तस्यापनोदो दूरीकरण
तस्योद्देशमिव प्रदेशमिव सर्वसागराणां समस्तसमुद्राणां वडवानलो वाडवस्तस्य यः संतापस्तस्यापनोदना
दूरी करणं तस्या निवास मित्र वसतिमित्र, सर्वजलधराणां समग्रमेघानां वैद्युतो यो दहन इरंमदस्तेन दाह-
स्तस्य प्रतीकारस्थानमिव प्रतिक्रियागृहमिव कुमुदिनीनां कैरविणीनामिन्दुविरहेण दुःसहमसह्यं दिवस-
स्यातिवाहनमुल्लङ्घनं तस्य स्थान मिव, मकरध्वजस्य कंदर्पस्य हरस्येश्वरस्य यो हुताशनस्तृतीय नेत्रजो वह्निस्तस्य
निर्वापण निर्यातनं तस्य क्षेत्रमिव स्थानमिव, दिनकरस्य सूर्यस्य करैरपि सर्वतः समन्ताज्जलयन्त्रधारासह
स्राणि तैः समुत्सारितैर्दूरीकृतैरतिशयेन यः शीतः स्पर्शः तस्माद्यद्भयं तेन निवृत्तैरिव परिहृतं परित्यक्तम् ।
अनिलरपि पवनैरपि कदम्बस्य कादम्बस्य यः केसरोत्करस्तद्वाहिभिरत एवं कुण्टकितैरिने रोमाञ्चितैरिवानुगतं
सहितम् । कदलीवनैरपि रम्भाकाननरपि पवनेन चलितानि कम्पितानि दलानि येषां
 
>
 
a
 
PERMA
 
०१ मकरध्वजस्य सदनमिन मनदेवताजाम्.
 
J
 
टिप्प० - 1 पवनानामपि शैत्यं प्रतीतमभूदत एव तेपि कदम्बकुसुमकेसरग्याजेन रोमाञ्चमवहनि.
व्युस्प्रेक्षाशयः ।
 
पाठा