कादम्बरी /472
This page has not been fully proofread.
कादम्बरीभवने शीतोपचारसज्जा ]
पूर्वभागः ।
मलिनिकाः, कचिद्गन्धोदककूपेषु बद्धकाञ्चनसुधापङ्ककामपीठेषु स्थूलबिसलतादण्डघंटितार-
काणि कृतकेतकदलद्रोणिकानि कुबलचावली रज्जुभिर्मध्यमानानि पत्रपुटघटीयन्त्रकाणि, कचि -
त्स्फटिक बलाका वली वान्तवारिधाग लिखितेन्द्रायुधाः संचार्यमाणा मायामेघमालाः कचिदु-
पान्तरूढैयाङ्कुरासु तैरत्तरुणमालती कुङ्मलदन्तुरिततरङ्गासु हरिचन्दनद्रववापिकासु शिशिरी-
क्रियमाणा हारयष्टीः कचिन्मुक्ताफलक्षोदरचितालवालकानंनवरतस्थूलजलबिन्दुदुर्दिनमुत्सृ-
जतो यंत्रवृक्षकान, कचिद्विधुतपक्षनिक्षिप्तसी करानीतनीहारा भ्रमन्तीर्यत्रमयी: पत्रशकुनि-
श्रेणी: कचिन्मधुकरकिङ्किणीपङ्किपटुतराबध्यमानाः कुसुमदामदोलाः कचिदुदरारूढ़ निर्ग-
तोत्तोलनलिनीच्छदाच्छादितमुखान्प्रवेश्यमानाञ्शातकुम्भान्, क्वचिद्घटितकदलीगर्भस्तम्भ-
,
,
"
कारा आम्रास्तेषां रसैः सिक्तैः सिञ्चितैर्जम्बूपलवैराच्छायमाना अभ्यन्तराः पर्णशाला उटजाः । क्वचिदिति ।
क्रीडितुं यत्कृत्रिमं निर्मितं करिकलभयूथकं तेनाकुलीक्रियमाणाः काञ्चनकमलिनिकाः सुवर्णनलिन्यः । कप्रत्यये
च सर्वत्र हस्वत्वम् । गन्धोदकस्य सगन्धजलस्य कूपेषूदपानेषु । कीदृशेषु । बद्धः काञ्चनस्य सुवर्णस्य सुधा
गृहधवलीकरणद्रव्यं तस्य पङ्कः कर्दमस्तेन काममत्यर्थं पीठं येषु, स्थूलो यो बिसलताया दण्डस्तेन घटिता अरेका
येषु, कृतानि केतकदलानां द्रोणिकानि भाजनविशेषाणि येषु, कुवलयानामुत्पलानामावल्यः पयस्ता एव
रजवस्तैर्ग्रध्यमानानि बध्यमानान्येवंविधानि पत्रपुटलक्षणानि घटीयन्त्रकाण्युद्धाटकानि । क्वचिदिति ।
स्फटिकस्य बलाका बिसकण्ठिकास्ता सामावलीभिर्वान्ता मुक्ता वारिधारा जलधारा यासु, लिखितानीन्द्रायु-
धानि शऋचापानि यासु, एवंविधाः संचार्यमाणाः प्रेर्यमाणा मायामेघमालाः कृत्रिमजल (द) पयः । क्वचि
दिति । उपान्ते समीपे रूढा यवाङ्कुरा यासु, तरन्ति तरुणमालती कुजालानि तैर्दन्तुरितास्तरंगा: कल्लोला
यासु, हरिचन्दनस्य तैलपर्णिकस्य द्रवस्तस्य वापिकासु क्षुद्रकृपिकासु शिशिरीक्रियमाणाः शीतली क्रियमाणा
हारयष्टीर्मुक्ताकलापान् । एतेन विरहाधिक्यं वर्णितम् । क्वचिदिति । मुक्ताफलं रसोद्भवं तस्य क्षादेन
चूर्णेन रचितं निर्मितमालवालकमावापस्थानकं येषां ताननवरतं निरन्तरं स्थूला जलबिन्दवस्तेषां दुर्दिन-
मुत्सृजत उत्प्राबल्येन मुञ्चतः कुर्वतः एवंविधान्यन्त्र वृक्षकान्कृत्रिममहीसहान् । क्वचिदिति । विधुताः
कम्पिता ये पक्षास्तैर्निक्षिप्ता ये सीकरास्तैरानीतो नीहारो हिमं याभिस्ता भ्रमन्तीभ्रमणं कुर्वन्तीः । एवंविधा
यामयीः पत्रशकुनिश्रेणी: । क्वचिदिति । मधुकरा भ्रमरा एव किङ्किण्यः क्षुद्रघण्टिकारतासां पङ्किः श्रेणी
तथा पटुतैरं स्पष्टं यथा स्यात्तथा बाध्यमाना निरुध्यमाना कुसुमदामदोलाः पुष्पसकप्रेङ्खाः । कचिदिति । उदरे
मध्य आरूढा निर्गता उद्गताः सुवर्णकलशादुत्तालोर्ध्वमुखी या नलिनी तस्याश्तैच्छादितं
पिहितं मुखं येषां तान्प्रवेश्यमानान्गृहान्तनीयमानाञ्शातकुम्भान् । क्वचिदिति । घटिता कदलीगभेस्तम्भा एव
टिप्प०
19 - 1 चक्रान्तर्गतानि काष्ठनिर्मितान्यव वानि, 'अरा' इति भाषा । 2 'कृतकानि' इत्येव पाठः ।
कृत्रिमाणि केतकदलानि (केतकपत्र । णि ) एव जलद्रोणिका जलाधारविशेषा येषु तानि । शिशिरोपचार-
वर्णनेऽस्मिन् सुगन्धिजलभृताः कूपा अपि तथा कृता येषामुपरि पत्रपुटरूपान् घटान् वहन्ति यत्राणि
('अरहट'), जलाधारा अपि केतकपत्रैः कृतानीत्याद्यर्थो बोध्यः । 3 निर्माणकौशलेनैव परिचाल्यमानाः ।
4 'क्वचिन्मधुकर किङ्किणीपङ्किपटुतरेरवा बध्यमानाः' इत्येव पाठः । मधुकरा एव किङ्किण्यास्तासां पङ्क्तेः
पटुतरो रवः (शब्दः ) यासु ताः । परिचारिकाभिर्बध्यमानाः (कुसुमदामनिर्मिता दोला:) । 5 ज्ञात-
कुम्भानित्येव पाठं स्वीकृत्य तदर्थ करणसमये पलायांचत्रे मन्दः । अस्तु, 'ज्ञातकुम्भकुम्भान्' इत्येव पाठ: ।
शासकुम्भस्य सुवर्णस्य कलशानू, येषामुदरेषु नलिन्यः उत्पन्नास्ततश्च मुखेभ्यो बहि. उन्नालास्ता निर्गताः,
: कुम्भमुखमाच्छन्नम् । शेत्यार्थ शोमार्थ च वृक्षाधार विशेषः ।
-
पाठा०-१ घटितदण्डारकाणि २ कृतक; कनक ३ जलद्रोणिकानि ४ कमलपत्रपुट ५ बलाकावलीः ६ क्र
रूढ ७ पाण्डुरासु. ८ सितरत. ९ अनवरतचन्दनरसस्थू. १० पत्रवृक्षकान्. ११ पटुरवबोध्यमानाः; पद्धत-
रखाबोध्यमानाः १२ उन्नाल, १३ शतिकुम्भकुम्भान्.