कादम्बरी /470
This page has not been fully proofread.
कादम्बरीभवने शीतोपचारसज्ज ]
पूर्वभागः ।
४३७
,
म्दानि बद्धसौभाग्यपट्टानीव दधानम्, कृतचन्दनबिन्दु विशेषकांश्च दिवापि स्पर्शलोभस्थिते
न्दुप्रतिबिम्बानिव कंपोलानुद्वइन्तम् अपहृताशेष शिरीष सौभाग्याभिः शैवलमञ्जरीभिः कृत-
कर्णपूरम, कर्पूरधूलिधूसरेषु मलयजर मलबलुलितेषु बैंकलावलीवलयेषु स्तनेषु न्यस्तनलिनी-
पत्रप्रावरणम्, अनवरतचन्दनचर्चाप्रणयनपाण्डुरे: संतापरोष॑मृदितारक्त चन्द्रकरैरव करैः
कल्पितमृणालदण्डानि बिसतंन्तुमयानि चामराणि बिभ्राणम्, उन्नालैश्च कमलैः कुमुदेः कुव-
लयैः किसलयैः कदलीदलैः कमलिनीपलाशैः कुसुमस्त बकैश्चात पत्रीकृतैर्निवारितातपम्, जल-
देवतानामिव समूहम्, वरुणश्रियामिव समागमम् शरदामिव समाजम्, सरसीनामिब
गोष्ठीबन्धम् शिशिरोपचारनिपुर्ण कादम्बर्याः शरीरपरिचारकं शरीरप्राय परिजनमद्राक्षीत् ।
तेन च प्रणम्यमानः पादनखपतनमयादिव त्वरितापसृतेन दीयमानमार्गश्चन्दनप
,
१
१
चन्दनस्य मलयजस्य ललाटिका पुण्ड्रविशेषो येषु तानि । विविधवर्णसांम्याद्वद्धसौभाग्यपट्टानीव । कृतेति ।
कृता विहिता चन्दनबिन्दुभिर्विशेषेका येषु तान् । 'चित्रं पुण्ड्रविशेषकाः' इति कोशः । दिवापि दिवसेऽपि
स्पर्शलोभेन स्थित इन्दुप्रतिबिम्बो ये वैवंविधानिव कपोलानुद्रहन्तम् । अपेति । अपहृतं दूरीकृतमशेषं समग्र
शिरीषस्य वृक्षविशेषस्य सौभाग्यं याभिरेवंभूताभिः शैवलमञ्जरी भिजलशुकवल्लरीभिः कृतः कर्णपूरो येन स तम् ।
रखनेषु कुचेषु न्यस्तं स्थापितं नलिनी पत्राणां प्रावरणमुत्तरीयकं येन स तम् । अथ च स्तनं विशेषयन्नाह -- कर्पू.
ऐति । कर्पूरस्य घनसारस्य धूली रजस्तया धूसरेष्वीषत्पाण्डषु, मलयजरसलवैश्चन्दनद्रव लेशळुलि तेष्वे की भूतेषु
।
बकुलावलीनां केसरराजीनां वलयानि येषु ते तथा तेषु । पुनः कीदृशम् । करैः करणभूतश्चामराणि बिभ्राणम् ।
कीदृशैः करैः । प्रियविरहेण संतापरोषाभ्यां मृदिता मर्दिता आरका नवोदिताश्चन्द्रकर स्तैरिवानवरतं निरन्तरं
चन्दनचर्चा तस्याः प्रणयनं प्रापणं तेन पाण्डुरैः । कीदृशानि चामराणि । कल्पित इति । कल्पितो विहितो
मृणालानां दण्डो येषु तानि । पुनः किं विशिष्टानि । बिसानां तन्तवस्तन्मयानि तन्निर्मिंतानि । उन्नालैः कमलैः
कुमुदैः कैरवैः, कुवलयैरुत्पलैः, किसलयैः पल्लवैः, कदलीदलै रम्भापत्रैः, कमलिनी पलाशैः पद्मिनीपत्रैः । 'पत्रं
पलाशं छदनम्' इति कोशः । कुसुमस्तबकैः पुष्पगुच्छेः । 'गुच्छस्तबकगुच्छकाः" इति कोशः । एतैश्चातपत्री -
कृतैरछत्री कृतैर्निवारितो दूरीकृत आतपः सूर्यालोको यस्य स तम् । जलदेवतानां जलाधिष्ठात्रीणां समूह मिव ।
सर्वदा जलक्लिन्नदेहत्वादिति भावः । वरुणः प्रचेतास्तस्य श्रियां समागममेकी भवनमिव । वरुणस्यापि जलाधीश-
त्वेन तस्य श्रियामप्यतिशीतलत्वात्तदुपमानम् । शरदां घनात्ययानां समाजमिव परिषदमिव । तासामपि शीतल-
लात्तदुपमानम् । सरसीनां सरतां गोष्ठीबन्धमिव । एकत्रीभूयोपवेशन गोष्ठीबन्धः । कीदृशम् । शिशिरोपचाराः
शीतलोपचारास्तत्र निपुणं दक्षं शरीरप्रायमित्यन्तरं गत्वा चोकं कादम्बरीपरिजनमद्राक्षीदित्यन्वयस्तु प्रागेत्रोक्तः ।
इदानीं समयोद्यानाद्दुद्दीपन विभावान्वर्णयन्नाह - तेन चेति । तेन परिजनेन प्रणम्यमानो नमस्क्रिय -
माणः । कदलीतोरणानां तलेन प्रविश्य सर्वतो निसृष्टदृष्टिरिदं वक्ष्यमाणं सर्व दृष्टवानित्यन्वयः । कीदृशः ।
प्रणामेन पादनखस्यैव कोमलत्वात्पतन भविष्यतीति शङ्कया त्वरितमपसृतः परिजनस्तेन दीयमानो मार्गों यस्य
सः । इतः कदलीतोरणं विशेषयन्नाह - चन्दनेति । चन्दनपङ्केन मलयजकर्दमेन कृता वेदिका येषाम् ।
टिप्प० -- 1 कृताश्चन्दनबिन्दव एव विशेष कास्तिलका येषु तानू । अत एव दिवापि स्पर्शलोभेन स्थिता
इन्दोश्चन्द्रस्य प्रतिबिम्बा येषु तान् ( कपोलान् ) । रात्रौ तु चन्द्रोदयादिन्दुप्रतिबिम्बाः संभवन्त्येव, परं
चन्दनबिन्दवस्तथा प्रतीयन्ते यथा स्पर्शलोभवशाद्दिनेऽपि चन्द्रस्य प्रतिबिम्बाः स्थिता इत्यर्थ: । मण्ड
लाकाराणां चन्दन बिन्दूनां चन्द्रबिम्बेन साम्यादियमुत्प्रेक्षा । 2 चन्दनपङ्गेन लिसीकृता वेदिकाः परि-
ष्कृतभूमयः (बद्धतलभूमयः ) येषां तेषाम् (तोरणानाम् ) ।
पाग० -१ पदानि. २ कपोलफलकाम् ३ ललितेषु ४ बकुलावलयिषु; कुवलयावलिपु; ललितकुवलयेपु. ५ पयोधरेषु.
६ प्रणय. ७ प्रकटितचन्द्रकरैः; मृदितचन्द्रकरैः ८ शरीर परिचारिकाप्रायम् ९ पादतलः पादनखतपनदाह,
0