कादम्बरी /47
This page has not been fully proofread.
कादम्बरी ।
[ कथामुखे -
यमानमणिकर्णपूरः स्वयमारब्धमृदङ्गवाद्यः संगीतकप्रसङ्गेन, कदाचिदविरलविमुक्तशरासा-
रशून्यीकृतकाननो मृगयाव्यापारेण, कदाचिदाबद्धविदग्धमण्डलः काव्यप्रबन्धरचनेन, कदा-
चिच्छाखालापेन, कदाचिदाख्यान काख्यायिकेतिहासपुराणाकर्णनेन, कदाचिदालेख्य विनोदेन,
कदाचिद्वीणया, कदाचिद्दर्शनागतमुनिजनचरणशुश्रूषया, कदाचिदक्षरच्युतकमात्राच्युतकवि-
न्दुमतीगूढचतुर्थपादप्रहेलिकाप्रदानादिभिर्वनितासंभोगसुखपराङ्मुखः सुहृत्परिवृतो दिवस -
मेनैषीत् । यथैव च दिवसमेव मारब्ध विविध क्रीडापरिहासचतुरैः सुहृद्भिरुपेतो निझामनैषीत् ।
१४
INTAN
गीतनृत्यवाद्यत्रयं प्रेक्षणार्थे कृतं संगीतकमुच्यते तत्प्रसङ्गेन त्संबन्धेनेत्यर्थः । इतो राजानं विशेषयन्नाह -
अनवरतेति । अनवरतं निरन्तरं दोलायमानं कम्पमानं रत्नवलयं कङ्कणं यस्य स तथा । घर्धरिकेति ।
घर्धरिका वाद्यविशेषस्तस्या आस्फालनं वादनं तेन यः प्रकम्पश्चलनं तेन झणझणायमानो झणझणेति शब्द
कुर्वाणो मणिकर्णपूरो मणिखचितः कर्णालंकारो यस्य स तथा । स्वयमिति । स्वयमात्मनैवारब्धं विहितं
मृदशवद्वाद्यं वादित्रं येन स तथा । उभयहस्ताभ्यां तद्वादनादिति भावः । पुनः कदाचित् । मृगयेति ।
मृगयाखेटकस्तस्या व्यापारेण व्या ( पृत्या) । अविरलेति । अविरलमविच्छिन्नं विमुक्ताः क्षिप्ता ये शरा बाणा-
स्तेषामासारो वेगेन वर्षस्तन शून्यीकृतं काननं वनं येन स तथा । अत्र समग्रवनचारिव्यापादनं व्यङ्ग्यम् ।
आबद्धेति । आबद्धमारचितं विदग्धानां प्रेक्षावतां मण्डलं येन स तथा । कदेति । काव्यं पूर्वव्यावर्णि-
तखरूपं, प्रबन्धाः कथास्तेषां रचनेन ग्रथनेन । एतेन राज्ञोऽपि पण्डितजनानुरागित्वं प्रेक्षावत्त्वं च सूचि-
तम् । पुनः केन । शास्त्रेति । शास्त्राणां न्यायादीनामालापेनापृच्छनेन । 'आपृच्छालाप: संभाषः' इति
कोशः पुनः केन । आख्यान केति । आख्यानकं व्यक्तकथा, आख्यायिका वासवदत्तादिका, इतिहासः
पुरावृत्तम्, पुराणं अत्यादि, तपासाकर्णनेन श्रवणेन । कदाचिदिति । आलेख्यं चित्रकर्म तस्य विनोदेन
क्रीडयेत्यर्थः । पुनः केन । वी गयेति । वीणा विपञ्ची तद्वादनेन तच्छ्रवणेन चेत्यर्थः । पुनः केन ।
दर्शनेति । दर्शनार्थं विलोकनार्थमागताः प्राप्ता ये मुनिजनाः साधुलोकास्तेषां चरणशुश्रूषा पादसपर्या तया ।
पुनः केन । अक्षरेति । अक्षरस्य वर्णस्य च्युतिर्यत्र तदक्षरच्युतकम् । यथा - 'कुर्वन्दिवाकरा श्लेषं दधच्च-
रणडम्बरम् । देव यौष्माकसेनायाः करेणुः प्रसरत्यसौ ॥" इति । अत्र करेणुपदात्ककारच्युतौ द्वितीयार्थ-
प्रतीतिः । मात्रायाश्च्युतिर्यत्र तन्मात्राच्युतकम् । यथा - – 'मूलस्थितिमधः कुर्वन्यात्रैर्जुष्टो गताक्षरः । विटः
सेव्यः कुलीनस्य तिष्ठतः पथिकस्य सः ॥" इति । विटपदादिकारमात्राच्युतौ वटस्यार्थस्य प्रतीतिः । पद्यवर्ण-
संख्यया बिन्दुमात्रव्यवस्थापनेन तद्वर्णोपलब्धि: । बिन्दुमतिती यथा - - : : : -
८
ः । ॥ इति । एतत्पद्यं यथा- -'त्रिनयनचूडा-
रत्नं मित्रं सिन्धोः कुमुद्वतीबन्धुः । अयमुदयति घुसृणारुणरमणीवदनोपमश्चन्द्रः ॥' गूढो गुम्फश्चतुर्थः
पादो यस्य तद्गूढचतुर्थपादं चित्रम् । दाहरणं विदग्धमुखमण्डनादवसेयम् । प्रहेलिका प्रवह्निका । सा
शाब्दी, आर्थी च । आद्योदाहरणं यथा - 'पयस्विनीनां धेनूनां ब्राह्मणः प्राप्य विंशतिम् । ताभ्योऽष्टादश
विकीय गृहीत्वैकां गृहं गतः ॥' अत्र धेन्वा ऊना धेनूना तां धेनू नामिति विंशतेर्विशेषणेनार्थावगमः
सुगमः । आर्थी यथा- 'जइ सासुआइ भणिआ पियवासघरंमि दीवयं देसु । ता कीस मुद्धडमुंही हिययंमि
निवेस डिम् ॥' एतेन सर्वदा मम हृदयान्तर्वर्तित्वेन मम हृदयमेव भर्तुर्वासगृहम् । तेन तत्र दीपककर -
णानर्हत्वमिति ज्ञापितम् । एतासां प्रदानं समर्पणम् । आदिशब्दात्स्वात्मना तन्निर्माणं च तैः । अथ नृपं
विशेषयन्नाह - वनितेति । वनितानां योषितां यः संभोग उपभोगस्तज्जनितं यत्सुखं सातं तस्मात्परा-
खानभिमुखः । सुहृद्भिः सज्जनैर्मित्रैर्वा परिवृतः परिवेष्टितः । यथैवेति । यथा येन प्रकारेण दिवसं
टिप्प० - 1 मृदङ्गस्य वाद्यं येन, इत्येवार्थः ।
पाठी ०१ संगीत, २ अनयत्. ३ चतुरः