कादम्बरी /469
This page has not been fully proofread.
कादम्बरी ।
१
चन्द्रापीडस्तदाकर्ण्य जिगमिपुः 'अश्वोऽश्वः' इति वेदम्भवनान्निर्ययौ । आरोपितपर्याण
च स्वरिततुंरगपरिचारकोपनीतमिन्द्रायुधमारुह्य पश्चादारोप्य पत्रलेखाम्, स्कन्धावारे
संस्थापयित्वा वैशम्पायनम, अशेषपरिजनं निवर्त्य च, अन्यतुंरगारूढेनैव केयूर केणानुगम्य-
मानो हेमकूटं ययौ । आसाद्य च कादम्बरीभवनद्वारमवततार । अवतीर्य द्वारपालार्पित-
तुरङ्गः कादम्बरीप्रथमदर्शनकुतूहलिन्या च पत्रलेखया चानुगम्यमानः प्रविश्य 'क देवी
कादम्बरी तिष्ठति' इति संमुखागतमन्यतमं वर्षधरमप्राक्षीत् । कृतप्रणामेन च तेन 'देव,
मत्तमयूरैस्य क्रीडापर्वतकस्याधस्तारकमलवनदीर्घिकातीरे विरचितं हिमगृहमध्यास्ते' इत्यावे-
दिते केयूरकेणोपदिश्यमानवर्त्मा प्रमदवनमध्येन गत्वा किंचिदध्वानम्, मरकतरितानां कद-
लीवेनानां प्रभया शष्पीकृतरविकिरणं हरितायमानं दिवसं ददर्श । तेषां च मध्ये निरन्तर-
नलिनीदलच्छन्नं हिमगृहमपश्यत् । तस्माच्च निष्पतन्तमाशुकच्छले नाच्छोदजलेनेव संवी-
तम्, बाहुलताविवृतैर्मृणालवलयैराभरणकैरिव धवलितावयवम्, आपाण्डुभिश्चैकश्रवणाश्रयै-
स्वाडकीकृतैः केतकीगर्भद्लैरुपहसितदन्तपत्रम्, आलिखितचन्दनललाटिकानि मुखारवि-
४३६
,
१
[ कथायाम्-
चन्द्रापीडस्तदा कर्ण्य श्रुत्वा जिगमिषुर्गन्तुमिच्छुरश्वोऽश्व इति वदन्ब्रुवन्भवनाद्गृहानिर्ययौ निर्जगाम । आरो
पितं स्थापितं पर्याणं पल्ययनं यस्मिन्नतादृशं त्वरितं शीघ्रं तुरगपरिचारकेणोपनीतमानी तमिन्द्रायुधमारुह्यारोहणं
कृत्वा पत्रलेखां पश्चात्पृष्ठभाग आरोग्य स्थायित्वा स्कन्धावारे सैन्यवेशे वैशम्पायनं संस्थापयित्वाशेषपरिजनं
समग्रपरिच्छदं निवर्त्य पश्चाद्याघुट्यान्यतुरगाढेनेव केयूरकेणानुगम्यमानो हेमकूटं ययौ । कादम्बरीभवन-
द्वारमासाद्य प्राप्यावततारोत्तीर्णवांश्च । अश्वादिति शेषः । अवतीर्य च द्वारपालस्यार्पितस्तुरङ्गो येन स तथा
कादम्बर्या यत्प्रथमदर्शनं तत्र कुतूहलं विद्यते यस्या एवंविधया पत्रलेखयानुगम्यमानः प्रविश्य क्व देवी कादम्बरी
तिष्ठतीति संमुखागत मन्यतमं वर्षधरं कञ्चुकिनमप्राक्षीत्पप्रच्छ । तेन कृतप्रणामेन चेत्या वेदिते कथिते सति । इति -
शब्दयोत्यमाह — देवेति । हे देव, मत्तमयूरकाभिधानस्य क्रीडा पर्वतकस्याधस्तादधोभागवर्तिनि कमलवनदी-
र्धिका तीरे विरचितं हिमगृहमध्यास्तेऽधितिष्ठति । 'उपान्वध्याङ्वसः' इत्यधिकरणे द्वितीया । केयूरकेणोपदिश्यमानः
प्रदर्श्यमानो वर्त्म मार्गो यस्य स तथा प्रमदवनमध्येन किंचिदध्वानं मार्ग गत्वा मरकतवद्धरितानां नीलानां
कदलीवनानां रम्भाकाननानां प्रभया कान्त्या शष्पीकृतानि बालतृणीकृतानि रविकिरैणानि सूर्यरश्मयो यस्मिन्चत
एव हरितायमानं नीलायमानं दिवसं दिनं ददशैक्षांचक्रे । तेषां च कदलीवनानां मध्ये निरन्तरं नलिनीदलैः
कमलिनी पत्रैश्छन्नमाच्छादितं हिमगृहमपश्यदक्षत । तस्माच्च गृहान्निष्पतन्तं बहिर्गच्छन्तं कादम्बर्याः शरी-
रपरिचारकं परिजनमद्राक्षीदृष्टवान् । अथ तस्याः परिचार कं विशेषयन्नाह - आर्द्रेति । आर्द्रं स्तिमितं यदंशुकं
वस्त्रं तस्य च्छलेन श्वेताह्लादकत्वसाम्यादाह - अच्छोदेति । अच्छोदजलेनेव संवीतं रुँद्धम् । 'संवीतं रुद्ध
मावृतम्' इति कोशः । बाहुलतावितैर्भुजलता स्थापित मृणालवलयैस्तन्तुलकट कैराभरणकैरिव विभूषणैरिव धव-
लीकृताः शुश्रीकृता अवयवा अपघना यस्य स तम् । आपाण्डुभिरीषच्छ्रेतैरेकश्रवण एवैककर्ण एवाश्रयोऽधि
करणं येषां तैखाडङ्कीकृतैस्ताडपत्रीकृतैरेवंविधैः केतकीगर्भदलैरुपहसितानि दन्तपत्राणि येन स तम् ।
पुनः किं कुर्वाणम् । दधानं बिभ्राणम् । कानि । मुखान्येवार जिन्दा नि कमलानि । कीदृशानि । आलिखिता
टिप्प० - 1 संस्थाप्येति स्थाने मूलेोप च्युतसंस्कृति पदं टीकाकारहस्तलाघवमेव । 2 विकिरणा
इत्यर्थ: । 3 आवृतदेहमित्यर्थ उचितः ।
Cas
पाठा०-
-१ अथ चन्द्रापीड:. २ वदन्पूर्ववृत्तचमत्कृतचेताः ३ त्वरितपरिचारक ४ नृत्यमयूरस्य. ५ दलानाम्.
६ ताटकीकृतैः; तालकीकृतैः.