कादम्बरी /468
This page has not been fully proofread.
चन्द्रापीडस्य पुनः कादम्बरीभवने प्रयाणम् ] पूर्वभागः ।
9
कुसुमधूलिसिकैतिले गिरिनैदिकानटे भगवानर्चितः शूलपाणिः, अत्र हेपितशशधररोचिषि
स्फटिकशिलातले भुक्तम् अत्र संक्रान्त चन्दनरसलान्छने मुक्ताशैलशिलापट्टे सुतम्' इति परि-
जनेन पुनरुक्तं निवेद्यमानानि देवस्यैव स्थानचिह्नानि पश्यन्ती क्षपितवती दिवसम् । दिवसा-
वसाने व कथमपि महाश्वेताप्रयत्नादन भिमतमपि तस्मिन्नेव स्फटिकमणिशिला वेश्मन्याहारम-
• करोत् । अस्तमुपगते च भगवति रवावुदिते चन्द्रमसि, तत्रैव कंचित्कालं स्थित्वा चन्द्रका
न्तमयीव चन्द्रोदये प्रत्याकृततनुश्चन्द्रबिम्बप्रवेशभयेनेव करौ कपोलयोः कृत्वा किमपि
चिन्तयन्ती मुकुलितेक्षणा क्षणमात्रं स्थित्वोत्थाय विमलनखनिपतितशशिप्रतिमाभरगुरुणीव
कृच्छ्रादुत्क्षिपन्ती लीलामन्थरगमनपटूनि पदानि शय्यागृहमगात् । शयननिक्षिप्तगात्र-
यष्टिश्च ततःप्रभृति प्रबलया शिरोवेदनया विचेष्टमाना दारुणेन च दाहरूपिणा ज्वरेणाभिभूय-
माना केनाप्याधिना मङ्गलप्रदीपैः कुमुदाकरैश्चक्रवाकैश्च सार्धमनिमीलितलोचना दुःखदुःखेन
क्षणदामनैषीत् । उपसि च मामाहूय देवस्य वार्ताव्यतिकरोपालम्भाय सोपालम्भमादिष्टवती' ।
४३५
भगवान्शुलपाणिरचिंतः पूजितः । अत्रेति । अस्मिन्हेपिता लजिता शशधरस्य रोचिर्येन तस्मिन्स्फटिकशिला-
तले भुक्तम् । अत्रेति । अस्मिन्संक्रान्तः प्रतिबिम्बितो यश्चन्दनरसः स एव लाञ्छनं चिह्नं यस्मिन्नेवंविधे मुक्ता-
शैलशिलापट्टे सुप्तमिति परिजनेन पार्श्ववर्तिसेवकलोकेन देवस्य भवत एव स्थान चिहानि । पुनरुक्तं पृथक्पृथनि-
वेदनादिति भावः । निवेद्यमानानि कथ्यमानानि पश्यन्ती विलोकयन्ती दिवसं वासरं क्षपितवती क्षयं नीत-
वती । दिवसावसाने च दिनप्रान्ते च कथमपि महता कष्टेन महाश्वेताप्रयत्नादन भिमतमप्यसमीहितमपि तस्मिन्नेव
स्फटिक्रमणिशिला वेशमन्याहारं भोजनमकरोदकल्पयत् । अस्तमिति । अस्तमुपगते प्राप्ते च भगवति माहात्म्य-
नति रवौ सूर्ये, चन्द्रमसि कुमुदबान्धव उदित उदयं प्राप्ते सति, तत्रैव तास्मन् प्रदेशे कंचित्कालं स्थित्वावस्थानं
कृत्वा चन्द्रकान्तश्चन्द्रमणिस्तन्मयीन अत एव चन्द्रोदये प्रत्यार्दीकृता तनुर्यस्याः सा तथा चन्द्रनिम्नस्य यः
प्रवेशस्तस्य भयं तेनेव कपोलयोः करौ कृत्वा किमपि चिन्तयन्ती ध्यायन्ती मुकुलितेक्षणा कुालितलोचना
क्षणमात्रं स्थित्वा तत उत्थाय । विमलेति । विमला निर्मला ये नखास्तेषु निपतिता याः शशिप्रतिमाश्चन्द्र-
प्रतिबिम्बानि तासां भरस्तेन गुरुणीव लीलामन्थन् यद्गमनं तत्र पनि पदानि चरणन्यासानि कृच्छ्रात्कष्टादु
त्क्षिपन्त्युत्क्षेपं कुर्वन्ती शय्यागृहं शयनसद्मागाद्गमत् । शयने तल्पे निक्षिप्ता स्थापिता गात्रयष्टिर्यया सैवंविधा
च । ततःप्रभृति तहिनादारभ्य प्रवल्या तीव्रया शिरोवेदनया विचेष्टमाना व्याकुलीक्रियमाणा दाहरूपिणा दारू -
णेन तीव्रेणं च ज्वरेण तापेनाभिभूयमाना पराभूयमाना केनाप्याधिना मानसीव्यथया मङ्गलप्रदीपैः कुमुदाकरै-
चक्रवाकैश्च सार्धमनिमीलितेऽमुद्रिते लोचने यस्त्राः सा तथा । अथ कुमुदानां रात्रों विकासाच्चक्रवाकानां च
वियोगवशाद निमीलनमिति भावः । दुःखदुःखेन । अतिदुःखेनेति भावः । क्षणदां रत्रिमनैषीदयापयद्गमया-
मास । उषसि च प्रभाते मामाहूयाहानं कृत्वा देवस्य वार्ताव्यतिकरेण भवद्वृत्तान्तसमूहेन हेतुभूतेन उपालम्भाय
सोपालम्भं यथा स्यात्तथादिष्टवती कथितवती ।
टिप्प० -- 1 तत्कालादारभ्य । दिनादिति तु अविचार एव लेखकस्य । 2 टीकाकारारका प्रत्याशा
स्वारस्यस्य ? 'व्यतिकशेपलम्भाय' इत्येव पाठः, वृत्तान्त व्यापारप्राप्तये सोपालम्अं सप्रतिक्षेपम् ('उचित
कुशलप्रवृत्तिमानेतुं न गच्छति' इति ) आादिष्टवतीति
ज्ञोऽपि संभावित महोदारखातिथे: राजकुमार
तदर्थः ।
पाठा० -१ सिकताकर्दमिलगिरि २ नदीकाननतटे ३ शिलापट्टायनीये. ४ क्षिप्त. ५ व्याधिना.